श्रीः अध्यायः 101 अथ दानधर्मपर्व ॥ 1 ॥
भीष्मेण युधिष्ठिरम् प्रति जलतिलभूम्यन्नगोदानादिफलकथनम् । 1 ॥
युधिष्ठिर उवाच 001
दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ । 001a
यत्फलं तस्य भवति तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
उपानहौ प्रयच्छेद्यो ब्राह्मणेभ्यः समाहितः । 002a
मर्दते कण्टकान्सर्वान्विषमान्निस्तरत्यपि ॥ 002c
स शत्रूणामुपरि च सन्तिष्ठति युधिष्ठिर । 003a
यानं चाश्वतरीयुक्तं तस्य शुभ्रं विशाम्पते ॥ 003c
उपतिष्ठति कौन्तेय रौप्यकाञ्चनभूषितम् । 004a
शकटं दम्यसंयुक्तं दत्तं भवति चैव हि ॥ 004c
युधिष्ठिर उवाच 005
यत्फलं तिलदाने च भूमिदाने च कीर्तितम् । 005a
गोदाने चान्नदाने च भूयस्तद्ब्रूहि कौरव ॥ 005c
भीष्म उवाच 006
शृणुष्व मम कौन्तैय तिलदानस्य यत्फलम् । 006a
निशम्य च यथान्यायं प्रयच्छ कुरुसत्तम ॥ 006c
पितॄणां प्रथमं भोज्यं तिलाः सृष्टाः स्वयम्भुवा । 007a
तिलदानेन वै तस्मात्पितृपक्षः प्रमोदते ॥ 007c
माघमासे तिलान्यस्तु ब्राह्मणेभ्यः प्रयच्छति । 008a
सर्वसत्वसमाकीर्णं नरकं स न पश्यति ॥ 008c
सर्वसत्रैश्च यजते यस्तिलैर्यजते पितॄन् । 009a
न चाकामेन दातव्यं तिलैः श्राद्धं कदाचन ॥ 009c
महर्षेः कश्यपस्यैते गात्रेभ्यः प्रसृतास्तिलाः । 010a
ततो दिव्यं गता भावं प्रदानेषु तिलाः प्रभो || 010c
पौष्टिका रूपदाश्चैव तथा पापविनाशनाः । 011a
तस्मात्सर्वप्रदानेभ्यस्तिलदानं विशिष्यते ॥ 011c
आपस्तम्बश्च मेधावी शङ्खश्च लिखितस्तथा । 012a
महर्षिर्गौतमश्चापि तिलदानैर्दिवं गताः ॥ 012c
तिलहोमरता विप्राः सर्वे संयतमैथुनाः । 013a
समा गव्येन हविषा प्रवृत्तिषु च संस्थिताः ॥ 013c
सर्वेषामिति दानानां तिलदानं विशिष्यते । 014a
अक्षयं सर्वदानानां तिलदानमिहोच्यते ॥ 014c
उच्छिन्ने तु पुरा हव्ये कुशिकर्षिः परन्तपः । 015a
तिलैरग्नित्रयं हुत्वा प्राप्तवान्गतिमुत्तमाम् ॥ 015c
इति प्रोक्तं कुरुश्रेष्ठ तिलदानमनुत्तमम् । 016a
विधानं येन विधिना तिलानामिह शस्यते ॥ 016c
अत ऊर्ध्वं निबोधेदं देवानां यष्टुमिच्छताम् । 017a
समागमे महाराज ब्रह्मणा वै स्वयम्भुवा ॥ 017c
देवाः समेत्य ब्रह्माणं भूमिभागे यियक्षवः । 018a
शुभं देशमयाचन्त यजेम इति पार्थिव ॥ 018c
देवा ऊचुः 019
भगवंस्त्वं प्रभुर्भूमेः सर्वस्य त्रिदिवस्य च । 019a
यजेम हि महाभाग यज्ञं भवदनुज्ञया ॥ 019c
नाननुज्ञातभूमिर्हि यज्ञस्य फलमश्नुते । 020a
त्वं हि सर्वस्य जगतः स्थावरस्य चरस्य च । 020c
प्रभुर्भवसि तस्मात्त्वं समनुज्ञातुमर्हसि ॥ 020e
ब्रह्मोवाच 021
ददानि मेदिनीभागं भवद्भ्योऽहं सुरर्षभाः । 021a
यस्मिन्देशे करिष्यध्वं यज्ञान्काश्यपनन्दनाः ॥ 021c
देवा ऊचुः 022
भगवन्कृतकामाः स्म यक्ष्महे स्वाप्तदक्षिणैः । 022a
इमं तु देशं मुनयः पर्युपासन्ति नित्यदा ॥ 022c
ततोऽगस्त्यश्च कण्वश्च भृगुरत्रिर्वृषाकपिः । 023a
असितो देवलश्चैव देवयज्ञमुपागमन् ॥ 023c
ततो देवा महात्मान ईजिरे यज्ञमच्युतम् । 024a
तथा समापयामासुर्यथाकालं सुरर्षभाः ॥ 024c
त इष्टयज्ञास्त्रिदशा हिमवत्यचलोत्तमे । 025a
षष्ठमंशं क्रतोस्तस्य भूमिदानं प्रचक्रिरे । 025c
प्रादेशमात्रं भूमेस्तु यो दद्यादनुपस्कृतम् । 026a
न सीदति स कृच्छ्रेषु न च दुर्गाण्यवाप्नुते ॥ 026e
शीतवातातपसहां यागभूमिं सुसंस्कृताम् । 027a
प्रदाय सुरलोकस्थः पुण्यान्तेऽपि न चाल्यते ॥ 027c
मुदितो वसति प्राज्ञः शक्रेण सह पार्थिव । 028a
पतिश्रयप्रदानाच्च सोऽपि स्वर्गे महीयते ॥ 028c
अध्यापककुले जातः श्रोत्रियो नियतेन्द्रियः । 029a
गृहे यस्य वसेत्तुष्टः प्रधानं लोकमश्नुते ॥ 029c
तथा गवार्थे शरणं शीतवर्षसहं दृढम् । 030a
आसप्तमं तारयति कुलं भरतसत्तम ॥ 030c
क्षेत्रभूमिं ददल्लोके शुभां श्रियमवाप्नुयात् । 031a
रत्नभूमिं प्रदद्यात्तु कुलवंशं प्रवर्धयेत् ॥ 031c
न चोषरां न निर्दग्धां महीं दद्यात्कथञ्चन । 032a
न श्मशानपरीतां च न च पापनिषेविताम् ॥ 032c
पारक्ये भूमिदेशे तु पितॄणां निर्वपेत्तु यः । 033a
तद्भूमिं वाऽपि पितृभिः श्राद्धकर्म विहन्यते ॥ 033c
तस्मात्क्रीत्वा महीं दद्यात्स्वल्पामपि विचक्षणः । 034a
पिण्डः पितृभ्यो दत्तो वै तस्यां भवति शाश्वतः ॥ 034c
अटवी पर्वताश्चैव नद्यस्तीर्थानि यानि च । 035a
सर्वाण्यस्वामिकान्याहुर्न हि तत्र परिग्रहः ॥ 035c
इत्येतद्भूमिदानस्य फलमुक्तं विशाम्पते । 036a
अतः परं तु गोदानं कीर्तयिष्यामि तेऽनघ ॥ 036c
गावोऽधिकास्तपस्विभ्यो यस्मात्सर्वेभ्य एव च । 037a
तस्मान्महेश्वरो देवस्तपस्ताभिः सहास्थितः ॥ 037c
ब्राह्मे लोके वसन्त्येताः सोमेन सह भारत । 038a
यां तां ब्रह्मर्षयः सिद्धाः प्रार्थयन्ति परां गतिम् ॥ 038c
पयसा हविषा दध्ना शकृता चाथ चर्मणा । 039a
अस्थिभिश्चोपकुर्वन्ति शृङ्गैर्वालैश्च भारत ॥ 039c
नासां शीतातपौ स्यातां सदैताः कर्म कुर्वते । 040a
न वर्षविषयं वाऽपि दुःखमासां भवत्युत ॥ 040c
ब्राह्मणैः सहिता यान्ति तस्मात्पारमकं पदम् । 041a
एकं गोब्राह्मणं तस्मात्प्रवदन्ति मनीषिणः ॥ 041c
रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताः । 042a
अतश्चर्मण्वती राजन्गोचर्मभ्यः प्रवर्तिता । 042c
पशुत्वाच्च विनिर्मुक्ताः प्रदानायोपकल्पिताः ॥ 042e
ता इमा विप्रमुख्येभ्यो यो ददाति महीपते । 043a
निस्तरेदापदं कृच्छ्रां विषमस्थोऽपि पार्थिव ॥ 043c
गवां सहस्रदः प्रेत्य नरकं न प्रपद्यते । 044a
सर्वत्र विजयं चापि लभते मनुजाधिप ॥ 044c
अमृतं वै गवां क्षीरमित्याह त्रिदशाधिपः । 045a
तस्माद्ददाति यो धेनुममृतं स प्रयच्छति ॥ 045c
अग्नीनामव्ययं ह्येतद्धौम्यं वेदविदो विदुः । 046a
तस्माद्ददाति यो धेनुं स हौम्यं सम्प्रयच्छति ॥ 046c
स्वर्गो वै मूर्तिमानेष वृषभं यो गवां पतिम् । 047a
विप्रे गुणयुते दद्यात्स वै स्वर्गे महीयते ॥ 047c
प्राणा वै प्राणिनामेते प्रोच्यन्ते भरतर्षभ । 048a
तस्माद्ददाति यो धेनुं प्राणानेष प्रयच्छति ॥ 048c
गावः शरण्या भूतानामिति वेदविदो विदुः । 049a
तस्माद्ददाति यो धेनुं शरणं सम्प्रयच्छति ॥ 049c
न वधार्थं प्रदातव्या न कीनाशे न नास्तिके । 050a
गोजीविने न दातव्या तथा गौर्भरतर्षभ । 050c
'गोरसानां न विक्रेतू रसं च यजनस्य च ॥' 050e
ददत्स तादृशानां वै नरो गां पापकर्मणाम् । 051a
अक्षयं नरकं यातीत्येवमाहुर्महर्षयः ॥ 051c
न कृशां नापवत्सां वा वन्ध्यां रोगान्वितां तथा । 052a
न व्यङ्गां न परिश्रान्तां दद्याद्गां ब्राह्मणाय वै ॥ 052c
दशगोसहस्रदः सम्यक् शक्रेण सह मोदते । 053a
अक्षयाल्ँलभते लोकान्नरः शतसहस्रशः ॥ 053c
इत्येतद्गोप्रदानं च तिलदानं च कीर्तितम् । 054a
तथा भूमिप्रदानं च शृणुष्वान्ने च भारत ॥ 054c
अन्नदानं प्रधानं हि कौन्तेय परिचक्षते । 055a
अन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः ॥ 055c
श्रान्ताय क्षुधितायान्नं यः प्रयच्छति भूमिप । 056a
स्वायम्भुवं महत्स्थानं स गच्छति नराधिप ॥ 056c
न हिरण्यैर्न वासोभिर्नान्यदानेन भारत । 057a
प्राप्नुवन्ति नराः श्रेयो यथा ह्यन्नप्रदाः प्रभो ॥ 057c
अन्नं वै प्रथमं द्रव्यमन्नं श्रीश्च परा मता । 058a
अन्नात्प्राणः प्रभवति तेजो वीर्यं बलं तथा ॥ 058c
सद्यो ददाति यश्चान्नं सदैकाग्रमना नरः । 059a
न स दुर्गाण्यवाप्नोतीत्येवमाह पराशरः ॥ 059c
अर्चयित्वा यथान्यायं देवेभ्योऽन्नं निवेदयेत् । 060a
यदन्ना हि नरा राजंस्तदन्नास्तस्य देवताः ॥ 060c
कौमुद्यां शुक्लपक्षे तु योऽन्नदानं करोत्युत । 061a
स सन्तरति दुर्गाणि प्रेत्य चानन्त्यमश्नुते ॥ 061c
अभुक्त्वाऽतिथये चान्नं प्रयच्छेद्यः समाहितः । 062a
स वै ब्रह्मविदां लोकान्प्राप्नुयाद्भरतर्षभ ॥ 062c
सुकृच्छ्रामापदं प्राप्तश्चान्नदः पुरुषस्तरेत् । 063a
पापं तरति चैवेह दुष्कृतं चापकर्षति ॥ 063c
इत्येतदन्नदानस्य तिलदानस्य चैव ह । 064a
भूमिदानस्य च फलं गोदानस्य च कीर्तितम् ॥ 064c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकाधिकशततमोऽध्यायः ॥ 101 ॥
7-101-7 वै पुण्यं पितृलोके महीयते इति ध. पाठः ॥ 7-101-9 सर्वकामैश्च जयति यस्तिलैरिति नच कामेन दातव्यमिति च ध. पाठः ॥ 7-101-22 इमं हिमवत्सन्निहितम् ॥ 7-101-27 प्रतिश्रयो वासार्थं स्थलम् ॥ 7-101-33 तद्भूमिं परकीयां भूमिं वा यो निर्वपेत् पितृभिः पितृभ्यो दद्यात्तर्हि तच्छ्राद्धं तद्भूमिदानाख्यं कर्म चोभयं विहन्यते वृथा भवति ॥ 7-101-34 तस्यां क्रीतायाम् ॥ 7-101-46 आकुञ्चितमपि ह्येतद्धव्यं वेदविदो विदुरिति ध. पाठः ॥ 7-101-56 स्वयम्भुवं महाभागं स पश्यति नराधिपेति ध. पाठः ॥ 7-101-58 अन्नं वै परमं दैवमिति ध. पाठः ॥