अध्यायः 100
भीष्मेण युधिष्ठिरम्प्रति जलादिदानफलप्रतिपादनम् ॥ 1 ॥
भीष्म उवाच । 001
सर्वान्कामान्प्रयच्छन्ति ये प्रयच्छन्ति काञ्चनम् । 001a
इत्येवं भगवानत्रिः पितामहसुतोऽब्रवीत् ॥ 001c
पवित्रं शुच्यथायुष्यं पितृणामक्ष्यं च तत् । 002a
सुवर्णं मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम् ॥ 002c
पानीयपरमं दानं दानानां मनुरब्रवीत् । 003a
तस्मात्कूपांश्च वापीश्च तटाकानि च खानयेत् ॥ 003c
सर्वं विनाशयेत्पापं पुरुषस्येह कर्मणः । 004a
कूपः प्रवृत्तपानीयः सुप्रवृत्तश्च नित्यशः ॥ 004c
सर्वं तारयते वंशं यस्य खाते जलाशये । 005a
गावः पिबन्ति विप्राश्च साधवश्च नराः सदा ॥ 005c
निदाघकाले पानीयं यस्य तिष्ठत्यवारितम् । 006a
स दुर्गं विषमं कृत्स्नं न कदाचिदवाप्नुते ॥ 006c
बृहस्पतेर्भगवतः पूष्णश्चैव भगस्य च । 007a
अश्विनोश्चैव वह्नेश्च प्रीतिर्भवति सर्पिषा ॥ 007c
परमं भेषजं ह्येतद्यज्ञानामेतदुत्तमम् । 008a
रसानामुत्तमं चैतत्फलानां चैतदुत्तमम् ॥ 008c
फलकामो यशस्कामः पुष्टिकामश्च नित्यदा । 009a
घृतं दद्याद्द्विजातिभ्यः पुरुषः शुचिरात्मवान् ॥ 009c
घृतं मासे आश्वयुजि विप्रभ्यो यः प्रयच्छति । 010a
तस्मै प्रयच्छतो रूपं प्रीतौ देवाविहाश्विनौ ॥ 010c
पायसं सर्पिषा मिश्रं द्विजेभ्यो यः प्रयच्छति । 011a
गृहं तस्य न रक्षांसि धर्षयन्ति कदाचन ॥ 011c
पिपासया न म्रियते सोपच्छन्दश्च जायते । 012a
न प्राप्नुयाच्च व्यसनं करकान्यः प्रयच्छति ॥ 012c
प्रयतो ब्राह्मणाग्रे यः श्रद्धया परया युतः । 013a
उपस्पर्शनषड्भागं लभते पुरुषः सदा ॥ 013c
यः साधनार्थं काष्ठानि ब्राह्मणेभ्यः प्रयच्छति । 014a
प्रतापनार्थं राजेन्द्र वृत्तवद्भ्यः सदा नरः ॥ 014c
सिद्ध्यन्त्यर्थाः सदा तस्य कार्याणि विविधानि च । 015a
उपर्युपरि शत्रूणां वपुषा दीप्यते च सः ॥ 015c
भगवांश्चापि सम्प्रीतो वह्निर्भवति नित्यशः । 016a
न तं त्यजन्ति पशवः सङ्ग्रामे च जयत्यपि ॥ 016c
पुत्राञ्श्रियं च लभते यश्छत्रं सम्प्रच्छति । 017a
न चक्षुर्व्याधिं लभते यज्ञभागमथाश्नुते ॥ 017c
निदाघकाले वर्षे वा यश्छत्रं सम्प्रयच्छति । 018a
नास्य कश्चिन्मनोदाहः कदाचिदपि जायते । 018c
कृच्छ्रात्स विषमाच्चैव क्षिप्रं मोक्षमवाप्नुते ॥ 018e
प्रदानं सर्वदानानां शकटस्य विशाम्पते । 019a
एवमाह महाभागः शाण्डिल्यो भगवानृषिः ॥ ॥ 019c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि शततमोऽध्यायः ॥ 100 ॥
13-100-12 सोपच्छन्दः सोपकरणः । करकान्पात्रविशेषान् ॥ 13-100-13 अग्रं वृत्तिक्षेत्रादि तदर्थम् । उत्कोचं विना । उपस्पर्शनं दानम् ॥