अध्यायः 099
भीष्मेण युधिष्ठिरम्प्रत्यश्विन्यादिनक्षत्रयोगेऽन्नदानफलप्रतिपादकनारददेवकीसंवादानुवादः ॥ 1 ॥
युधिष्ठिर उवाच । 001
श्रुतं मे भवतो वाक्यमन्नदानस्य यो विधिः । 001a
नक्षत्रयोगस्येदानीं दानकल्पं ब्रवीहि मे ॥ 001c
भीष्म उवाच । 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
देवक्याश्चैव संवादं महर्षेर्नारदस्य च ॥ 002c
द्वारकामनुसम्प्राप्तं नारदं देवदर्शनम् । 003a
पप्रच्छेदं वचः प्रश्नं देवकी धर्मदर्शिनी ॥ 003c
तस्याः सम्पृच्छमानाया देवर्षिर्नारदस्ततः । 004a
आचष्ट विधिवत्सर्वं तच्छृणुष्व विशाम्पते ॥ 004c
नारद उवाच । 005
कृत्तिकासु महाभागे पायसेन ससर्पिषा । 005a
सन्तर्प्य ब्राह्मणान्साधूल्ँलोकानाप्नोत्यनुत्तमान् ॥ 005c
रोहिण्यां प्रसृतैर्मार्गैर्मांसैरन्नेन सर्पिषा । 006a
पयोऽन्नपानं दातव्यमनृणार्थं द्विजातये ॥ 006c
दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते । 007a
गच्छन्ति मानुषाल्लोकात्स्वर्गलोकमनुत्तमम् ॥ 007c
आर्द्रायां कृसरं दत्त्वा तिलमिश्रमुपोषितः । 008a
नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान् ॥ 008c
पूपान्पुनर्वसौ दत्त्वा तथैवान्नानि शोभने । 009a
यशस्वी रूपसम्पन्नो बह्वन्नो जायते कुले ॥ 009c
पुष्येण कनकं दत्त्वा कृतं वाऽकृतमेव च । 010a
अनालोकेषु लोकेषु सोमवत्स विराजते ॥ 010c
आश्लेषायां तु यो रूप्यमृषभं वा प्रयच्छति । 011a
स सर्पभयनिर्मुक्तः सम्भवानधितिष्ठति ॥ 011c
मघासु तिलपूर्णानि वर्धमानानि मानवः । 012a
प्रदाय पुत्रपशुमानिह प्रेत्य च मोदते ॥ 012c
फल्गुनीपूर्वसमये ब्राह्मणानामुपोषितः । 013a
भक्ष्यान्फाणितसंयुक्तान्दत्त्वा सौभाग्यमृच्छति ॥ 013c
घृतक्षीरसमायुक्तं विधिवत्षष्टिकौदनम् । 014a
उत्तराविषये दत्त्वा स्वर्गलोके महीयते ॥ 014c
यद्यत्प्रदीयते दानमुत्तराविषये नरैः । 015a
महाफलमनन्तं तद्भवतीति विनिश्चयः ॥ 015c
हस्ते हस्तिरथं दत्त्वा चतुर्युक्तमुपोषितः । 016a
प्राप्नोति परमाल्ँलोकान्पुण्यकामसमन्वितान् ॥ 016c
चित्रायां वृषभं दत्त्वा पुण्यगन्धांश्च भारत । 017a
चरन्त्यप्सरसां लोके रमन्ते नन्दने तथा ॥ 017c
स्वात्यामथ धनं दत्त्वा यदिष्टतममात्मनः । 018a
प्राप्नोति लोकान्स शुभानिह चैव महद्यशः ॥ 018c
विशाखायामनड्वाहं धेनुं दत्त्वा च दुग्धदाम् । 019a
सप्रासङ्गं च शकटं सधान्यं वस्त्रसंयुतम् ॥ 019c
पितॄन्देवांश्च प्रीणाति प्रेत्य चानन्त्यमश्नुते । 020a
न च दुर्गाण्यवाप्नोति स्वर्गलोकं च गच्छति ॥ 020c
दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिमिष्टां स विन्दति । 021a
नरकादींश्च सङ्क्लेशान्नाप्नोतीति विनिश्चयः ॥ 021c
अनुराधासु प्रावारं वरान्नं समुपोषितः । 022a
दत्त्वा युगशतं चापि नरः स्वर्गे महीयते ॥ 022c
कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम् । 023a
ज्येष्ठायामृद्धिमिष्टां वै गतिमिष्टां स गच्छति ॥ 023c
मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः । 024a
पितॄन्प्रीणयते चापि गतिमिष्टां च गच्छति । 024c
अथ पूर्वास्वषाढासु दधिपात्राण्युपोषितः । 025a
कुलवृत्तोपसम्पन्ने ब्राह्मणे वेदपारगे ॥ 025c
प्रदाय जायते प्रेत्य कुले सुबहुगोधने । 026a
उदमन्थं ससर्पिष्कं प्रभूतमधुफाणितम् ॥ 026c
दत्त्वोत्तरास्वषाढासु सर्वकामानवाप्नुयात् । 027a
दुग्धं त्वभिजिते योगे दत्त्वा मधुघृतप्लुतम् । 027c
धर्मनित्यो मनीषिभ्यः स्वर्गलोके महीयते ॥ 027e
श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव वा । 028a
श्वेतेन याति यानेन स्वर्गलोकानसंवृतान् ॥ 028c
गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः । 029a
वस्त्रराशिधनं सद्यः प्रेत्य राज्यं प्रपद्यते ॥ 029c
गन्धाञ्शतभिषग्योगे दत्त्वा सागरुचन्दनान् । 030a
प्राप्नोत्यप्सरसां सङ्घान्प्रेत्य गन्धांश्च शाश्वतान् 030c
पूर्वप्रोष्ठपदायोगे राजमाषान्प्रदाय तु । 031a
सर्वभक्षफलोपेतः स वै प्रेत्य सुखी भवेत् ॥ 031c
औरभ्रमुत्तरायोगे यस्तु मांसं प्रयच्छति । 032a
स पितॄन्प्रीणयति वै प्रेत्य चानन्त्यमश्नुते ॥ 032c
कांस्योपदोहनां धेनु रेवत्यां यः प्रयच्छति । 033a
सा प्रेत्य कामानादाय दातारमुपतिष्ठति ॥ 033c
रथमश्वसमायुक्तं दत्त्वाऽश्विन्यां नरोत्तमः । 034a
हस्त्यश्वरथसम्पन्ने वर्चस्वी जायते कुले ॥ 034c
भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै । 035a
गाः सुप्रभूताः प्राप्नोति नरः प्रेत्य यशस्तथा ॥ 035c
भीष्म उवाच । 036
इत्येष लक्षणोद्देशः प्रोक्तो नक्षत्रयोगतः । 036a
देवक्या नारदेनेह सा स्नुषाभ्योऽब्रवीदिदम् ॥ ॥ 036c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनशततमोऽध्यायः ॥ 99 ॥
13-99-6 मार्गैर्मृगसम्बन्धिभिः ॥ 13-99-7 सौम्यनक्षत्रे मृगशिरसि ॥ 13-99-9 पूपान् पिष्टमयान् घृतपाचितपिण्डान् ॥ 13-99-10 अनालोकेष आलोकान्तरवर्जितेषु स्वयम्प्रकाशेष्वित्यर्थः ॥ 13-99-13 फाणितं गोरसविकारः ॥ 13-99-19 प्रासङ्गो धान्यादिपिधानयोग्यं चतुरश्रम् ॥ 13-99-23 उदमन्धं उदकुम्भयुक्तं सक्तुविकारम् ॥ 13-99-31 पूर्वप्रोष्टपदायोगे छागमांसमिति थ.पाठः ॥ 13-99-32 उरभ्रः पशुविशेष अजो वा ॥