अध्यायः 098
भीष्मेण युधिष्ठिरम्प्रत्यन्नदानप्रशंसनपूर्वकं तत्फलकथनम् ॥ 1 ॥
युधिष्ठिर उवाच । 001
कानि दानानि लोकेऽस्मिन्दातुकामो महीपतिः । 001a
गुणाधिकेभ्यो विप्रेभ्यो दद्याद्भरतसत्तम ॥ 001c
केन तुष्यन्ति ते सद्यः किं तुष्टाः प्रदिशन्ति च । 002a
शंस मे तन्महाबाहो फलं पुण्यकृतं महत् ॥ 002c
दत्तं किं फलवद्राजन्निह लोके परत्र च । 003a
भवतः श्रोतुमिच्छामि तन्मे विस्तरतो वद ॥ 003c
भीष्म उवाच । 004
इममर्थं पुरा पृष्टो नारदो देवदर्शनः । 004a
यदुक्तवानसौ वाक्यं तन्मे निगदतः शृणु ॥ 004c
नारद उवाच । 005
अन्नमेव प्रशंसन्ति देवा ऋषिगणास्तथा । 005a
लोकतन्त्रं हि यज्ञाश्च सर्वमन्ने प्रतिष्ठितम् ॥ 005c
अन्नेन सदृशं दानं न भूतं न भविष्यति । 006a
तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः ॥ 006c
अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः । 007a
अन्नेन धार्यते सर्वं विश्वं जगदिदं प्रभो ॥ 007c
अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तापसास्तथा ॥ 008a
अन्नाद्भवन्ति वै प्राणाः प्रत्यक्षं नात्र संशयः ॥ 008c
कटुम्बिने सीदते च ब्राह्मणाय महात्मने । 009a
दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता ॥ 009c
ब्राह्मणायाभिरूपाय यो दद्यादन्नमर्थिने । 010a
निदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः ॥ 010c
श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितम् । 011a
अर्ययेद्भूतिमन्विच्छन्गृहस्थो गृहमागतम् ॥ 011c
क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः । 012a
अन्नदः प्राप्नुते राजन्दिवि चेह च यत्सुखम् ॥ 012c
नावमन्येदभिगतं न प्रणुद्यात्कदाचन । 013a
अपि श्वपाके शुनि वा नान्नदानं प्रणश्यति ॥ 013c
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते । 014a
आर्तायादृष्टपूर्वाय स महद्धर्ममाप्नुयात् ॥ 014c
पितॄन्देवानृषीन्विप्रानतिथींश्च जनाधिप । 015a
यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत् ॥ 015c
कृत्वाऽतिपातकं कर्म यो दद्यादन्नमर्थिने । 016a
ब्राह्मणाय विशेषेण न स पापेन मुह्यते ॥ 016c
ब्राह्मणेष्वक्षयं दानमन्नं शूद्रे महाफलम् । 017a
अन्नदानं हि शूद्रे च ब्राह्मणे च विशिष्यते ॥ 017c
न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेव च । 018a
भिक्षितो ब्राह्मणेनान्नं दद्यादेवाविचारतः ॥ 018c
अन्नदस्यान्नदा वृक्षाः सर्वकामफलप्रदाः । 019a
भवन्ति चेह चामुत्र नृपते नात्र संशयः ॥ 019c
आशंसन्ते हि पितरः सुवृष्टिमिव कर्षकाः । 020a
अस्माकमपि पुत्रो वा पौत्रो वाऽन्नं प्रदास्यति ॥ 020c
ब्राह्मणो हि महद्भूतं स्वयं देहीति याचते । 021a
अकामो वा सकामो वा दत्त्वा पुण्यमवाप्नुयात् ॥ 021c
ब्राह्मणः सर्वभूतानामतिथिः प्रसृताग्रभुक् । 022a
विप्रा यदधिगच्छन्ति भिक्षमाणा गृहं सदा ॥ 022c
सत्कताश्च निवर्तन्ते तदतीव प्रवर्धते । 023a
महाभागे कुले प्रेत्य जन्म चाप्नोति भारत ॥ 023c
दत्त्वा त्वन्नं नरो लोके तथा स्थानमनुत्तमम् । 024a
स्विष्टमृष्टान्नदायी तु स्वर्गे वसति सत्कृतः ॥ 024c
अन्नं प्राणा नराणां हि सर्वमन्ने प्रतिष्ठिम् । 025a
अन्नदः पशुमान्पुत्री धनवान्भोगवानपि ॥ 025c
प्राणवांश्चापि भवति रूपवांश्च तथा नृप । 026a
अन्नदः प्राणदो लोके सर्वदः प्रोच्यते तु सः ॥ 026c
अन्नं हि दत्त्वाऽतिथये ब्राह्मणाय यथाविधि । 027a
प्रदाता सुखमाप्नोति दैवतैश्चापि पूज्यते ॥ 027c
ब्राह्मणो हि महद्भूतं क्षेत्रभूतं युधिष्ठिर । 028a
उप्यते तत्र यद्बीजं तद्धि पुण्यफलं महत् ॥ 028c
प्रत्यक्षं प्रीतिजननं भोक्तुर्दातुर्भवत्युत । 029a
सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत ॥ 029c
अन्नाद्धि प्रसवं यान्ति रतिरन्नाद्धि भारत । 030a
धर्मार्थावन्नतो विद्धि रोगनाशं तथाऽन्नतः ॥ 030c
अन्नं ह्यमृतमित्याह पुरा कल्पे प्रजापतिः । 031a
अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितम् ॥ 031c
अन्नप्रणाशे भिद्यन्ते शरीरे पञ्च धातवः । 032a
बलं बलवतोपीह प्रणश्यत्यन्नहानितः ॥ 032c
आवाहाश्च विवाहाश्च यज्ञाश्चान्नमृते तथा । 033a
निवर्तन्ते नरश्रेष्ठ ब्रह्म चात्र प्रलीयते ॥ 033c
अन्नतः सर्वमेतद्धि यत्किञ्चित्स्थाणु जङ्गमम् । 034a
त्रिषु लोकेषु धर्मार्थमन्नं देयमतो बुधैः ॥ 034c
अन्नदस्य मनुष्यस्य बलमोजो यशांसि च । 035a
कीर्तिश्च वर्धते शश्वत्त्रिषु लोकेषु पार्थिव ॥ 035c
मेघेषूर्ध्वं सन्निधत्ते प्राणानां पवनः पतिः । 036a
तच्च मेघगतं वारि शक्रो वर्षति भारत ॥ 036c
आदत्ते च रसान्भौनानादित्यः स्वगभस्तिभिः । 037a
वायुरादित्यतस्तांश्च रसान्देवः प्रवर्षति ॥ 037c
तद्यदा मेघतो वारि पतितं भवति क्षितौ । 038a
तदा वसुमती देवी स्निग्धा भवति भारत ॥ 038c
ततः सस्यानि रोहन्ति येन वर्तयते जगत् । 039a
मांसमेदोस्थिशुक्राणां प्रादुर्भावस्ततः पुनः ॥ 039c
सम्भवन्ति ततः शुक्रात्प्राणिनः पृथिवीपते । 040a
अग्नीषोमौ हि तच्छुक्रं सृजतः पुष्यतश्च ह ॥ 040c
एवमन्नाद्धि सूर्यश्च पवनः शक्रमेव च । 041a
एक एव स्मृतो राशिस्ततो भूतानि जज्ञिरे ॥ 041c
प्राणान्ददाति भूतानां तेजश्च भरतर्षभ । 042a
गृहमभ्यागतायाथ यो दद्यादन्नमर्थिने ॥ 042c
भीष्म उवाच । 043
नारदेनैवमुक्तोऽहमन्नदानं सदा नृप । 043a
अनसूयुस्त्वमप्यन्नं तस्माद्देहि गतज्वरः ॥ 043c
दत्त्वाऽन्नं विधिवद्राजन्विप्रेभ्यस्त्वमपि प्रभो । 044a
यथावदनुरूपेभ्यस्ततः स्वर्गमवाप्स्यसि ॥ 044c
अन्नदानां हि ये लोकास्तांस्त्वं शृणु जनाधिप । 045a
भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् ॥ 045c
नानासंस्थानि रूपाणि नानास्तम्भान्वितानि च । 046a
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च ॥ 046c
तरुणादित्यवर्णानि स्थावराणि चराणि च । 047a
अनेकशतभौमानि सान्तर्जलचराणि च ॥ 047c
वैदूर्यार्कप्रकाशानि रौप्यरुक्ममयानि च । 048a
सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः ॥ 048c
वाप्यो वीथ्यः सभाः कूपा दीर्घिकाश्चैव सर्वशः । 049a
घोषवन्ति च यानानि युक्तान्यथ सहस्रशः ॥ 049c
भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च । 050a
क्षीरं स्रवन्ति सरितस्तथा चैवान्नपर्वताः ॥ 050c
प्रासादाः पाण्डुराभ्राभाः शय्याश्च कनकोञ्ज्वलाः । 051a
तान्यन्नदाः प्रपद्यन्ते तस्मादन्नप्रदो भव ॥ 051c
एते लोकाः पुण्यकृता अन्नदानां महात्मनाम् । 052a
तस्मादन्नं प्रयत्नेन दातव्यं मानवैर्भुवि ॥ ॥ 052c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टनवतितमोऽध्यायः ॥ 98 ॥
13-98-9 कुटुम्बं पीडयित्वापि ब्राह्मणायेति ट.ध.पाठः ॥ 13-98-19 अन्नदस्यान्नवृक्षाश्चेति झ.पाठः ॥ 13-98-28 क्षेत्र चरति पादवत् इति थ.ध.पाठः ॥ 13-98-33 ब्रह्म वेदः ॥ 13-98-36 मेघेषूदकमादत्ते प्राणानां पवनः शिव इति थ.पाठः ॥