अध्यायः 096
भीष्मेणि युधिष्ठिरम्प्रति ब्राह्मणप्रशंसनपूर्वकं ब्राह्मणानां प्रजानां च रक्षणस्यावश्यकर्तव्यत्वकथनम् ॥ 1 ॥
युधिष्ठर उवाच । 001
दानं यज्ञः क्रिया चेह किंस्वित्प्रेत्य महाफलम् । 001a
कस्य ज्यायः फलं प्रोक्तं कीदृशेभ्यः कथं कदा ॥ 001c
एतदिच्छामि विज्ञातुं याथातथ्येनि भारत । 002a
विद्वञ्जिज्ञासमानाय दानधर्मान्प्रचक्ष्व मे ॥ 002c
अन्तर्वेद्यां च यद्दत्तं श्रद्धया चानृशंस्यतः । 003a
किंस्विन्नैःश्रेयसं तात तन्मे ब्रूहि पितामह ॥ 003c
भीष्म उवाच । 004
रौद्रं कर्म क्षत्रियस्य सततं तात वर्तते । 004a
नास्य वैतानिकफलं विना दानं सुपावनम् ॥ 004c
न तु पापकृतां राज्ञां याजका द्विजसत्तमाः ॥ 005a
धने सत्यप्रदातॄणां प्रतिगृह्णन्ति साधवः ॥ 005c
प्रतिगृह्णन्ति न तु चेद्यद्रोषादाप्तदक्षिणैः । 006a
एतस्मात्कारणाद्यज्ञैर्यजेद्राजाऽऽप्तदक्षिणैः ॥ 006c
अथ चेत्प्रतिगृह्णीयुर्दद्यादहरहर्नृपः । 007a
श्रद्धामास्थाय परमां पावनं ह्येतुदुत्तमम् ॥ 007c
ब्राह्मणांस्तर्पयन्द्रव्यैः स वै यज्ञोऽनुपद्रवः । 008a
मैत्रान्साधून्वेदविदः शीलवृत्ततपोर्जितान् ॥ 008c
यत्ते ते न करिष्यन्ति कृतं ते न भविष्यति । 009a
यज्ञान्साधय साधुभ्यः स्वाद्वन्नान्दक्षिणावतः ॥ 009c
इष्टं दत्तं च मन्येथा आत्मानं दानकर्मणा । 010a
पूजयेथा यायजूकांस्तवाप्यंशो भवेद्यथा ॥ 010c
'विद्वद्भ्यः सम्प्रदानेन तत्राप्यंशोऽस्य पूजया । 011a
यज्वभ्यश्चाथ विद्वद्भ्यो दत्त्वा लोकं प्रदापयेत् । 011c
प्रदद्याज्ज्ञानदातॄणां ज्ञानदानांशभाग्भवेत् ॥' 011e
प्रजावतो भरेथाश्च ब्राह्मणान्बहुभारिणः । 012a
प्रजावांस्तेन भवति यथा जनयिता तथा ॥ 012c
यावतः साधुधर्मान्वै सन्तः संवर्धयन्त्युत । 013a
सर्वस्वैश्चापि भर्तव्या नरा ये बहुकारिणः ॥ 013c
समृद्धः सम्प्रयच्छ त्वं ब्राह्म्णेभ्यो युधिष्ठिर । 014a
धेनूरनडुहोऽन्नानि च्छत्रं वासांस्युपानहौ ॥ 014c
आज्यानि यजमानेभ्यस्तथाऽन्नानि च भारत । 015a
अश्ववन्ति च यानानि वेश्मानि शयनानि च ॥ 015c
एते देयाः पुष्टिमद्भिर्लघूपायाश्च भारत । 016a
अजुगुप्सांश्च विज्ञाय ब्राह्मणान्वृत्तिकर्शितान् ॥ 016c
उपच्छन्नं प्रकाशं वा वृत्त्या तान्प्रतिपालय । 017a
राजसूयाश्वमेधाभ्यां श्रेयस्तत्क्षत्रियान्प्रति ॥ 017c
एवं पापैर्विनिर्मुक्तस्त्वं पूतः स्वर्गमाप्स्यसि । 018a
सञ्चयित्वा पुनः कोशं यद्राष्ट्रं पालयिष्यसि ॥ 018c
तेन त्वं ब्रह्मभूयत्वमवाप्स्यसि धनानि च । 019a
आत्मनश्च परेषां च वृत्तिं संरक्ष भारत ॥ 019c
पुत्रवच्चापि भृत्यान्स्वान्प्रजाश्च परिपालय । 020a
[योगः क्षेमश्च ते नित्यं ब्राह्मणेष्वस्तु भारत ॥ 020c
तदर्थं जीवितं तेऽस्तु मा तेभ्योऽप्रतिपालनम् । 021a
अनर्थो ब्राह्मणस्यैष यद्वित्तनिचयो महान् ॥ 021c
क्षिया ह्यभीक्ष्णं संवासो दर्पयेत्सम्प्रमोहयेत् । 022a
ब्राह्मणेषु प्रमूढेषु धर्मो विप्रणशेद्धुवम् । 022c
धर्मप्रणाशे भूतानामभावः स्यान्न संशयः ॥ 022e
यो रक्षिभ्यः सम्प्रदाय राजा राष्ट्रं विलुम्पति । 023a
यज्ञे राष्ट्राद्धनं तस्मादानयध्वमिति ब्रुवन् ॥ 023c
यच्चादाय तदाज्ञप्तं भीतं दत्तं सुदारुणम् । 024a
यजेद्राजा न तं यज्ञं प्रशंसन्त्यस्य साधवः ॥ 024c
अपीडिताः सुसंवृद्धा ये ददत्यनुकूलतः । 025a
तादृशेनाप्युपायेन यष्टव्यं नोद्यमाहृतैः ॥ 025c
यदा परिनिषिच्येत निहितो वै यथाविधि । 026a
तदा राजा महायज्ञैर्यजेत बहुदक्षिणैः ॥ 026c
वृद्धबालधनं रक्ष्यमन्धस्य कृपणस्य च । 027a
न खातपूर्वं कुर्वीत न रुदन्तीधनं हरेत् ॥ 027c
हृतं कृपणवित्तं हि राष्ट्रं हन्ति नृप श्रियम् । 028a
दद्याच्च महतो भोगान्क्षुद्भयं प्रणुदेत्सताम् ॥ 028c
येषां स्वादूनि भोज्यानि समवेक्ष्यन्ति बालकाः । 029a
नाश्नन्ति विधिवत्तानि किन्नु पापतरं ततः ॥ 029c
यदि ते तादृशो राष्ट्रे विद्वान्त्सीदेत्क्षुधा द्विजः । 030a
भ्रूणहत्यां च गच्छेथाः कृत्वा पापमिवोत्तमम् ॥ 030c
धिक्तस्य जीवितं राज्ञो राष्ट्रे यस्यावसीदति । 031a
द्विजोऽन्यो वा मनुष्योपि शिबिराह वचो यथा ॥ 031c
यस्य स्म विषये राज्ञः स्नातकः सीदति क्षुधा । 032a
अवृद्धिमेति तद्राष्ट्रं विन्दते सह राजकम् ॥ 032c
क्रोशन्त्यो यस्य वै राष्ट्राद्ध्रियन्ते तरसा स्त्रियः । 033a
क्रोशतां पतिपुत्राणां मृतोऽसौ न च जीवति] ॥ 033c
अरक्षितारं हर्तारं विलोप्तारमनायकम् । 034a
तं वै राजकलिं हन्युः प्रजाः सन्नह्य निर्घृणं ॥ 034c
अहं वो रक्षितेत्युक्त्वा यो न रक्षति भूमिपः । 035a
स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः ॥ 035c
पापं कुर्वन्ति यत्किञ्चित्प्रजा राज्ञा ह्यरक्षिताः । 036a
चतुर्थं तस्य पापस्य राजा विन्दति भारत ॥ 036c
अथाहुः सर्वमेवैति भूयोऽर्धमिति निश्चयः । 037a
चतुर्थं मतमस्माकं मनोः श्रुत्वानुशासनम् ॥ 037c
शुभं वा यच्च कुर्वन्ति प्रजा राज्ञा सुरक्षिताः । 038a
चतुर्थं तस्य पुण्यस्य राजा चाप्नोति भारत ॥ 038c
जीवन्तं त्वानुजीवन्तु प्रजाः सर्वा युधिष्ठिर । 039a
पर्जन्यमिव भूतानि महाद्रुममिवाण्डजाः ॥ 039c
कुबेरमिव रक्षांसि शतक्रतुमिवामराः । 040a
ज्ञातयस्त्वाऽनुजीवन्तु सुहृदश्च परन्तप ॥ ॥ 040c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षण्णवतितमोऽध्यायः ॥ 96 ॥
13-96-1 यज्ञः क्रिया यज्ञरूपा क्रियेत्यर्थः । कीदृशेभ्यो दानं कथं यज्ञक्रियेति । कदेत्युभयत्र सम्बन्धः ॥ 13-96-7 एतद्दानम् ॥ 13-96-9 यद्यदि ते ब्राह्मणास्ते तव न करिष्यन्ति प्रतिग्रहमिति शेषः । तर्हि कृतं सुकृतं ते तव न भविष्यति । तदा सुकृतोत्पत्त्यर्थं यज्ञान्साधय ॥ 13-96-10 दाने यज्ञादिकमन्तर्भवतीत्यर्थः ॥13-96-12 जनयिता प्रजापतिः ॥ 13-96-13 तस्य राज्ञस्ते सन्तो बहुकारिणोऽत्यन्तमुपकर्तारो भवन्ति । नरा ये बहुभाषिण इति त.थ.पाठः ॥ 13-96-19 ब्रह्मणो भूयं भावोऽस्यास्ति स ब्राह्मणो ब्रह्मभूयस्तस्य भावो ब्रह्मभूयत्वं ब्राह्मणत्वम् ॥ 13-96-23 यो राजा रक्षिभ्यः सङ्ग्रहपरेभ्यो धनं दत्त्वा यज्ञे यज्ञार्थं धनमानयध्वमिति ब्रुवन् यजेत् तर्हि राष्ट्रं विलुम्पति ॥ 13-96-24 यच्चासौ तद्धनिभिर्भीतं भययुक्तं यथास्यात्तथा दत्तं प्रजाभ्य आदाय सुदारुणं यथास्यात्तथा यजेत्तं यज्ञं न प्रशंसन्ति ॥ 13-96-25 उद्यमः प्रजापीडनात्मकोऽतियत्नः ॥ 13-96-26 निहितः प्रजानां नितरां हितो राजा यदा प्रजाभिर्निषिच्येत धनैरभिषिच्येत ॥ 13-96-27 स्वातपूर्वं धनं न कुर्वीत स्वाधीनं न कुर्वीतेत्यर्थः ॥ 13-96-29 समवेक्ष्यन्त्येव न तु लभन्ते ॥ 13-96-32 सहयुगपत् । राजकं राजसमूहं प्रतिपक्षभूतं विन्दते ॥ 13-96-37 सर्वं पापं एति राजानम् ॥