अध्यायः 095

भीष्मेण युधिष्ठिरम्प्रति ब्राह्मणमहिमानुवर्णनम् ॥ 1 ॥

युधिष्ठिर उवाच । 001
यौ च स्यातां चरणेनोपपन्नौ यौ विद्यया सदृशौ जन्मना च । 001a
ताभ्यां दानं कतरस्मै विशिष्टमयाचमानाय च याचते च ॥ 001c
भीष्म उवाच । 002
श्रेयो वै याचतः पार्थ दानमाहुरयाचते । 002a
अर्हत्तमो वै धृतिमान्कृपणादकृतात्मनः ॥ 002c
क्षत्रियो रक्षणधृतिर्ब्राह्मणोऽनर्थनाधृतिः । 003a
ब्राह्मणो धृतिमान्विद्वान्देवान्प्रीणाति तुष्टिमान् ॥ 003c
याच्यमाहुरनीशस्य अतिहारं च भारत । 004a
उद्वेजयन्ति याचन्ति यदा भूतानि दस्युवत् ॥ 004c
म्रियते याचमानो वै तमनु म्रियतेऽददत् । 005a
ददत्सञ्जीवयत्येनमात्मानं च युधिष्ठिर ॥ 005c
आनृशंस्यं परो धर्मो याचते यत्प्रदीयते । 006a
अयाचतः सीदमानान्सर्वोपायैर्निमन्त्रयेत् ॥ 006c
यदि वै तादृशा राष्ट्रे वसेयुस्ते द्विजोत्तमाः । 007a
भस्मच्छन्नानिवाग्नींस्तान्बुध्येथास्त्वं प्रयत्नतः ॥ 007c
तपसा दीप्यमानास्ते दहेयुः पृथिवीमपि । 008a
अपूज्यमानाः कौरव्य पूजार्हास्तु तथाविधाः ॥ 008c
पूज्या हि ज्ञानविज्ञानतपोयोगसमन्विताः । 009a
तेभ्यः पूजां प्रयुञ्जीथा ब्राह्मणेभ्यः परन्तप॥ 009c
ददद्बहुविधान्देयानुपच्छन्दयते च तान् ॥ 010ac
यदग्निहोत्रे सुहुते सायम्प्रातर्भवेत्फलम् । 011a
विद्यावेदव्रतवति तद्दानफलमुच्यते ॥ 011c
विद्यावेदव्रतस्नाता न व्यपाश्रयजीविनः । 012a
गूढस्वाध्यायतपसो ब्राह्मणान्संशितव्रतान् ॥ 012c
कृतैरावसथैर्हृद्यैः सप्रेष्यैः सपरिच्छदैः । 013a
निमन्त्रयेथाः कौरव्य कामैश्चान्यैर्द्विजोत्तमान् ॥ 013c
अपि ते प्रतिगृह्णीयुः श्रद्धोपेतं युधिष्ठिर । 014a
कार्यमित्येव मन्वाना धर्मज्ञाः सूक्ष्मदर्शिनः ॥ 014c
अपि ते ब्राह्मणा भुक्त्वा गताः सोद्धरणान्गृहान् । 015a
येषां दाराः प्रतीक्षन्ते पर्जन्यमिव कर्षकाः ॥ 015c
अन्नानि प्रातःसवने नियता ब्रह्मचारिणः । 016a
ब्राह्मणास्तात भुञ्जानास्त्रेताग्निं प्रीणयन्त्युत ॥ 016c
माध्यन्दिनं ते सवनं ददतस्तात वर्तताम् । 017a
गोहिरण्यानि वासांसि तेनेन्द्रः प्रीयतां तव ॥ 017c
तृतीयं सवनं ते वै वैश्वदेवं युधिष्ठिर । 018a
यद्देवेभ्यः पितृभ्यश्च विप्रेभ्यश्च प्रयच्छसि ॥ 018c
अहिंसा सर्वभूतेभ्यः संविभागश्च सर्वशः । 019a
दमस्त्यागो धृतिः सत्यं भवत्यवभृथाय ते ॥ 019c
एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः । 020a
विशिष्टः सर्वयज्ञानां नित्यं तात प्रवर्तताम् ॥ 020c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चनवतितमोऽध्यायः ॥ 95 ॥

13-95-1 चरणेनाचरणेन ॥ 13-95-2 याचतः याचकात् तद्दानादित्यर्थः ॥ 13-95-3 अनर्थना अयाच्चा । 13-95-4 याच्यं याचनारूपं कर्म । अनीशस्य दरिद्रस्यातिहारं तिरस्कारमाहुः । यदा यतः याचन्ति याचमानानि भूतानि दस्युवल्लोकानुद्वेजयन्ति ॥ 13-95-10 उपच्छन्दयते उपच्छन्दयेत । ददद्बहुविधान्दायानुपागच्छन्नयाचतामिति झ.पाठः । अयाचतां अयाचमानानाम् । उपागच्छन्समीपमुपसर्पन् दायान्धनादीन्ददत् दाता भवेति शेषः ॥ 13-95-15 सोद्धरणान्स्वामिन्यागते दास्यामीति याचमानेभ्यो बालकेभ्य आशाप्रदर्शनमुद्धरणं तत्सहितान् ॥