अध्यायः 094
भीष्मेण युधिष्ठिरम्प्रति ब्राह्मणप्रशंसनपूर्वकं तदाराधनविधानम् ॥ 1 ॥
युधिष्ठिर उवाच । 001
यानीमानि बहिर्वेद्यां दानानि परिचक्षते । 001a
तेभ्यो विशिष्टं किं दानं मतं ते कुरुपुङ्गव ॥ 001c
कौतूहलं हि परमं तत्र मे विद्यते प्रभो । 002a
दातारं दत्तमन्वेति यद्दानं तत्प्रचक्ष्व मे ॥ 002c
भीष्म उवाच । 003
अभयं सर्वभूतेभ्यो व्यसने चाप्यनुग्रहः । 003a
यच्चाभिलषितं दद्यात्तृषितायाभियाचते ॥ 003c
भरणे पुत्रदाराणां तद्दानं श्रेष्ठमुच्यते । 004a
दत्तं दातारमन्वेति तद्दानं भरतर्षभ ॥ 004c
हिरण्यदानं गोदानं पृथिवीदानमेव च । 005a
एतानि वै पवित्राणि तारयन्त्यपि दुष्कृतात् ॥ 005c
एतानि पुरुषव्याघ्र साधुभ्यो देहि नित्यदा । 006a
दानानि हि नरं पापान्मोक्षयन्ति न संशयः ॥ 006c
यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे । 007a
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥ 007c
प्रियाणि लभते नित्यं प्रियदः प्रियकृत्तथा । 008a
प्रियो भवति भूतानामिह चैव परत्र च ॥ 008c
याचमानमभीमानादनासक्तमकिञ्चनम् । 009a
यो नार्चति यथाशक्ति स नृशंसो युधिष्ठिर ॥ 009c
अमित्रमपि चेद्दीनं शरणैषिणमागतम् । 010a
व्यसने योऽनुगृह्णाति स वै पुरुषसत्तमः ॥ 010c
कृशाय कृतविद्याय वृत्तिक्षीणाय सीदते । 011a
अपहन्यात्क्षुधां यस्तु न तेन पुरुषः समः ॥ 011c
क्रियानियमितान्साधुन्पुत्रदारैश्च कर्शितान् । 012a
अयाचमानान्कौन्तेय सर्वोपायैर्निमन्त्रयेत् ॥ 012c
आशिषं ये न देवेषु न च मर्त्येषु कुर्वते । 013a
अर्हन्तो नित्यसत्वस्था यथालब्धोपजीविनः ॥ 013c
आशीविषसमेभ्यश्च तेभ्यो रक्षस्व भारत । 014a
तान्युक्तैरुपजिज्ञास्य भोगैर्निर्वप रक्ष च ॥ 014c
कृतैरावसथैर्नित्यं सप्रेष्यैः सपरिच्छदैः । 015a
निमन्त्रयेथाः कौरव्य सर्वभूतसुखावहैः ॥ 015c
यदि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर । 016a
कार्यमित्येव मन्वाना धार्मिकाः पुण्यकर्मिणः ॥ 016c
विद्यास्नाता व्रतस्नाता धर्ममाश्रित्य जीविनः । 017a
गूढस्वाध्यायतपसो ब्राह्म्णाः संशितव्रताः ॥ 017c
तेषु शुद्धेषु दान्तेषु स्वदारनिरतेषु च । 018a
यत्करिष्यसि कल्याणं तत्ते लोके युधाम्पते ॥ 018c
यथाऽग्निहोत्रं सुहुतं सायम्प्रातर्द्विजातिना । 019a
तथा भवति दत्तं वै विद्वद्भ्यो यत्कृतात्मना ॥ 019c
एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः । 020a
विशिष्टः सर्वयज्ञेभ्यो ददतस्तात वर्तताम् ॥ 020c
निवापो दानसदृशः सदृशेषु युधिष्ठिर । 021a
निवेदयन्पूजयन्वै तेष्वानृण्यं निगच्छति ॥ 021c
य एवं नैव कुप्यन्ते न लुभ्यन्ति तृणेष्वपि । 022a
त एव नः पूज्यतमा ये चापि प्रियवादिनः ॥ 022c
ये नो न बहुमन्यन्ते न प्रवर्तन्ति याचने । 023a
पुत्रवत्परिपाल्यास्ते नमस्तेभ्यस्तथाऽभयम् ॥ 023c
ऋत्विक्पुरोहिताचार्या मृदुधर्मपरा हि ये । 024a
क्षात्रेणापि हि संसृष्टं तेजः शाम्यति तेष्वपि ॥ 024c
ईश्वरो बलवानस्मि राजाऽस्मीति युधिष्ठिर । 025a
ब्राह्मणान्मास्म पर्यासीर्वासोभिरशनेन च ॥ 025c
यच्छोभार्थं बलार्तं वा वित्तमस्ति तवानघ । 026a
तेन ते ब्राह्मणाः पूज्याः स्वधर्ममनुतिष्ठता ॥ 026c
नमस्कार्यास्तथा विप्रा वर्तमाना यथातथम् । 027a
यथासुखं यथोत्साहं ललन्तु त्वयि पुत्रवत् ॥ 027c
को ह्यक्षयप्रसादानां सुहृदामल्पतोषिणाम् । 028a
वृत्तिमर्हत्युपक्षेप्तुं त्वदन्यः कुरुसत्तम ॥ 028c
यथाऽपत्याश्रयो धर्मः स्त्रीणां लोके सनातनः । 029a
सदैव सा गतिर्नान्या तथाऽस्माकं द्विजातयः ॥ 029c
यदि नो ब्राह्मणास्तात सन्त्यजेयुरपूजिताः । 030a
पश्यन्तो दारुणं कर्म सततं क्षत्रिये स्थितम् ॥ 030c
अवेदानामकीर्तीनामलोकानामयज्विनाम् । 031a
को नु स्याज्जीवितेनार्थस्तद्धिनो ब्राह्मणाश्रयम् ॥ 031c
अत्र ते वर्तयिष्यामि यथा धर्मं सनातनम् । 032a
राजन्यो ब्राह्मणान्राजन्पुरा परिचचार ह । 032c
वैश्यो राजन्यमित्येव शूद्रो वैश्यमिति श्रुतिः ॥ 032e
दूराच्छूद्रेणोपचर्यो ब्राह्मणोऽग्निरिव ज्वलन् । 033a
संस्पर्शपरिचर्यस्तु वैश्येन क्षत्रियेण च ॥ 033c
मृदुभावान्सत्यशीलान्सत्यधर्मानुपालकान् । 034a
आशीविषानिव क्रुद्धांस्तानुपाचरत द्विजान् ॥ 034c
अपरेषां परेषां च परेभ्यश्चापि ये परे । 035a
क्षत्रियाणां प्रतपतां तेजसा च बलेन च । 035c
ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च तपांसि च ॥ 035e
न मे पिता प्रियतरो न त्वं तात तथा प्रियः । 036a
न मे पितुः पिता राजन्न चात्मा न च जीवितम् ॥ 036c
त्वत्तश्च मे प्रियतरः पृथिव्यां नास्ति कश्चन । 037a
त्वत्तोऽपि मे प्रियतरा ब्राह्मणा भरतर्षभ ॥ 037c
ब्रवीमि सत्यमेतच्च यथाऽहं पाण्डुनन्दन । 038a
तेन सत्येन गच्छेयं लोकान्यत्र स शान्तनुः ॥ 038c
पश्येयं च सतां लोकाञ्छुचीन्ब्रह्मपुरस्कृतान् । 039a
तत्र मे तात गन्तव्यमह्नाय च चिराय च ॥ 039c
सोहमेतादृशान्लोकान्दृष्ट्वा भरतसत्तम । 040a
यन्मे कृतं ब्राह्मणेषु न तप्ये तेन पार्थिव ॥ ॥ 040c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुर्नवतितमोऽध्यायः ॥ 94 ॥
13-94-9 अभीमानादतिसमर्थोऽयमित्यभिमानं स्वमनस्येव कृत्वा याचमानम् । याचमानावमानाच्च आशावन्तमकिञ्चनमिति थ.ध.पाठः ॥ 13-94-11 कृशायेत्यादिचतुर्थी षष्ठ्यर्थे । कृशाय ह्रीमते तातेति ट.थ.ध.पाठः ॥ 13-94-12 क्रियानियमितान् स्वधर्मयन्त्रितान् । ह्रिया तु नियतानिति थ.ध.पाठ ॥ 13-94-16 धर्मार्थमेव धर्मं कुर्वन्ति न तु फलान्तरार्थमिति भावः ॥ 13-94-20 ददतः दातुस्तव वर्ततां सर्वदास्तु ॥ 13-94-21 निवापः पितृतर्पणम् । दानसदृशः इत्यत्र दानं महादानम् ॥ 13-94-26 ते त्वया ॥ 13-94-27 ललन्तु रमन्ताम् ॥ 13-94-28 उपक्षेप्तुं समर्पितुम् ॥ 13-94-31 अवेदानामिति । तर्हि ब्राह्मणैरस्मत्त्यागे तत एव अवेदादीनामस्माकं जीवितेन को Sर्थः । तत् जीवितं ॥ 13-94-35 क्षत्रियाणां प्रभावं च तेजांसि च तपांसि च । ब्राह्मणेष्वेव मन्यन्ते श्रीरायुर्बलमेव चेति ट.थ.ध.पाठः ॥