अध्यायः 093

भीष्मेण युधिष्ठिरम्प्रति तटाकादिप्रतिष्ठाया वृक्षाद्यारोपणस्य च फलनिरूपणम् ॥ 1 ॥

युधिष्ठिर उवाच । 001
आरामाणां तटाकानां यत्फलं कुरुपुङ्गव । 001a
तदहं श्रोतुमिच्छामि त्वत्तोऽद्य भरतर्षभ ॥ 001c
भीष्म उवाच । 002
सुप्रदर्शा बलवती चित्रा धातुविभूषिता । 002a
उपेता सर्वभूतैश्च श्रेष्ठा भूमिरिहोच्यते ॥ 002c
तस्याः क्षेत्रविशेषाश्च तटाकानां च बन्धनम् । 003a
औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः ॥ 003c
तटाकानां च वक्ष्यामि कृतानां चापि ये गुणाः । 004a
त्रिषु लोकेषु सर्वत्र पूजनीयस्तटाकवान् ॥ 004c
अथवा मित्रसदनं मैत्रं मित्रविवर्धनम् । 005a
कीर्तिसञ्जननं श्रेष्ठं तटाकानां निवेशनम् ॥ 005c
धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः । 006a
तटाकसुकृतं देशे क्षेत्रमेकं महाश्रयम् ॥ 006c
चतुर्विधानां भूतानां तटाकमुपलक्षयेत् । 007a
तटाकानि च सर्वाणि दिशन्ति श्रियमुत्तमाम् ॥ 007c
देवा मनुष्यगन्धर्वाः पितरोरगराक्षसाः । 008a
स्थावराणि च भूतानि संश्रयन्ति जलाशयम् ॥ 008c
तस्मात्तांस्ते प्रवक्ष्यामि तटाके ये गुणाः स्मृताः । 009a
या च तत्र फलावाप्तिर्ऋषिभिः समुदाहृताः ॥ 009c
वर्षाकाले तटाके तु सलिलं यस्य तिष्ठति । 010a
अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः ॥ 010c
शरत्काले तु सलिलं तटाके यस्य तिष्ठति । 011a
गोसहस्रस्य स प्रेत्य लभते फलमुत्तमम् ॥ 011c
हेमन्तकाले सलिलं तटाके यस्य तिष्ठति । 012a
स वै बहुसुवर्णस्य यज्ञस्य लभते फलम् ॥ 012c
यस्य वै शैशिरे काले तटाके सलिलं भवेत् । 013a
तस्याग्निष्टोमयज्ञस्य फलमाहुर्मनीषिणः ॥ 013c
तटाकं सुकृतं यस्य वसन्ते तु महाश्रयम् । 014a
अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते ॥ 014c
निदाघकाले पानीयं तटाके यस्य तिष्ठति । 015a
वाजिमेधफलं तस्य फलं वै मुनयो विदुः ॥ 015c
स कुलं तारयेत्सर्वं यस्य खाते जलाशये । 016a
गावः पिबन्ति सलिलं साधवश्च नराः सदा ॥ 016c
तटाके यस्य गावस्तु पिबन्ति तृषिता जलम् । 017a
मृगपक्षिमनुष्याश्च सोऽश्वमेधफलं लभेत ॥ 017c
यत्पिबन्ति जलं तत्र स्नायन्ते विश्रमन्ति च । 018a
तटाके यस्य तत्सर्वं प्रेत्यानन्त्याय कल्पते ॥ 018c
दुर्लभं सलिलं तात विशेषेण परत्र वै । 019a
पानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती ॥ 019c
तिलान्ददत पानीयं दीपान्ददत जागृत । 020a
ज्ञातिभिः सह मोदध्वमेतत्प्रेत्य सुदुर्लभम् ॥ 020c
सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते । 021a
पानीयं नरशार्दूल तस्माद्दातव्यमेव हि ॥ 021c
एवमेतत्तटाकस्य कीर्तितं फलमुत्तमम् । 022a
अत ऊर्ध्वं प्रवक्ष्यामि वृक्षाणामवरोपणम् ॥ 022c
स्थावराणां च भूतानां जातयः षट् प्रकीर्तिताः । 023a
वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः ॥ 023c
एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे । 024a
कीर्तिश्च मानुषे लोके प्रेत्य चैव फलं शुभम् ॥ 024c
लभते नाम लोके च पितृभिश्च महीयते । 025a
देवलोके गतस्यापि नाम तस्य न नश्यति ॥ 025c
अतीतानागते चोभे पितृवंशं च भारत । 026a
तारयेद्वृक्षरोपी च तस्माद्वृक्षांश्च रोपयेत् ॥ 026c
तस्य पुत्रा भवन्त्येते पादपा नात्र संशयः । 027a
परलोकगतः स्वर्गं लोकांश्चाप्नोति सोऽव्ययान् ॥ 027c
पुष्पैः सुरगणान्वृक्षाः फलैश्चापि तथा पितॄन् । 028a
छायया चातिथिं तात पूजयन्ति महीरुहः ॥ 028c
किन्नरोरगरक्षांसि देवगन्धर्वमानवाः । 029a
तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान् ॥ 029c
पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् । 030a
वृक्षदं पुत्रवद्वृक्षास्तारयन्ति परत्र तु ॥ 030c
तस्मात्तटाके सद्वृक्षा रोप्याः श्रेयोर्थिना सदा । 031a
पुत्रवत्परिपाल्याश्च पुत्रास्ते धर्मतः स्मृताः ॥ 031c
तटाककृद्वृक्षरोपी इष्टयज्ञश्च यो द्विजः । 032a
एते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः ॥ 032c
तस्मात्तटाकं कुर्वीत आरामांश्चैव रोपयेत् । 033a
यजेच्च विविधैर्यज्ञैः सत्यं च सततं वदेत् ॥ ॥ 033c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिनवतितमोऽध्यायः ॥ 93 ॥

13-93-2 बलवती बहुसस्योत्पादिका ॥ 13-93-4 औदकानि खातानि तटाकानि ॥ 13-93-4 तटाकवान् तटाककृत् ॥ 13-93-5 मित्राणां सदनमिवोपकारकं सस्योत्पादनादिना । मैत्रं मित्रस्य सूर्यस्येदं प्रीतिकरम् । मित्राणां देवानां विवर्धनं पोषकम् ॥