अध्यायः 091
च्यवनेन कुशिकम्प्रति स्वकुले जनिष्यत ऋचीकस्यानुभावेन तद्भार्याश्वश्र्वो कुशिकपौत्रस्य गाधेः पुत्रीपत्र्योः क्रमेण पौत्रपुत्रभावेन परशुरामविश्वामित्रयोर्जन्मकथनम् ॥ 1 ॥
च्यवन उवाच । 001
अवश्यं कथनीयं मे तवैतन्नरपुङ्गव । 001a
यदर्थं त्वाहमुच्छेत्तुं सम्प्राप्तो मनुजाधिप ॥ 001c
भृगूणां क्षत्रिया याज्या नित्यमेतज्जनाधिप । 002a
ते च भेदं गमिष्यन्ति दैवयुक्तेन हेतुना ॥ 002c
क्षत्रियाश्च भृगून्सर्वान्वधिष्यन्ति नराधिप । 003a
आगर्भादनुकृन्तन्तो दैवदण्डनिपीडिताः ॥ 003c
तत उत्पत्स्यतेऽस्माकं कुले गोत्रविवर्धनः । 004a
और्वो नाम महातेजा ज्वलितार्कसमद्युतिः ॥ 004c
स त्रैलोक्यविनाशाय कोपाग्निं जनयिष्यति । 005a
महीं सपर्वतवनां यः करिष्यति भस्मसात् ॥ 005c
कञ्चित्कालं तु वह्निं च स एव शमयिष्यति । 006a
समुद्रे वडवावक्त्रे प्रक्षिप्य मुनिसत्तमः ॥ 006c
पुत्रं तस्य महाराज ऋचीकं भृगुनन्दनम् । 007a
साक्षात्कृत्स्नो धनुर्वेदः समुपस्थास्यतेऽनघ ॥ 007c
क्षत्रियाणामभावाय दैवयुक्तेनु हेतुना । 008a
स तु तं प्रतिगृह्यैव पुत्रे सङ्क्रामयिष्यति ॥ 008c
जमदग्नौ महाभागे तपसा भावितात्मनि । 009a
स चापि भृगुशार्दूलस्तं वेदं धारयिष्यति ॥ 009c
कुलात्तु तव धर्मात्मन्कन्यां सोऽधिगमिष्यति । 010a
उद्भावनार्थं भवतो वंशस्य भरतर्षभ ॥ 010c
'क्षत्रहन्ता भवेद्धिंस्र इति दैवं सनातनम् । 011a
नारायणमुपास्यास्य वरात्तं पुत्रमृच्छति ॥' 011c
गाधेर्दुहितरं प्राप्य पौत्रीं तव महातपाः । 012a
ब्राह्मणं क्षत्रधर्माणं पुत्रमुत्पादयिष्यति ॥ 012c
क्षत्रियं विप्रधर्माणं बृहस्पतिमिवौजसा । 013a
विश्वामित्रं तव कुले गाधेः पुत्रं सुधार्मिकम् । 013c
तपसा महता युक्तं प्रदास्यति महाद्युते ॥ 013e
स्त्रियौ तु कारणं तत्र परिवर्ते भविष्यतः । 014a
पितामहनियोगाद्वै नान्यथैतद्भविष्यति ॥ 014c
तृतीये पुरुषे तुभ्यं ब्राह्मणत्वमुपैष्यति । 015a
भविता त्वं च सम्बन्धी भृगूणां भावितात्मनाम् ॥ 015c
भीष्म उवाच । 016
कुशिकस्तु मुनेर्वाक्यं च्यवनस्य महात्मनः । 016a
श्रुत्वा हृष्टोऽभवद्राजा वाक्यं चेदमुवाच ह । 016c
एवमस्त्विति धर्मात्मा तदा भरतसत्तम ॥ 016e
च्यवनस्तु महातेजाः पुनरेव नराधिपम् । 017a
वरार्थं चोदयामास तमुवाच स पार्थिवः ॥ 017c
बाढमेवं ग्रहीष्यामि कामांस्त्वत्तो महामुने । 018a
ब्रह्मभूतं कुलं मेऽस्तु धर्मे चास्य मनो भवेत् ॥ 018c
एवमुक्तस्तथेत्येवं प्रत्युक्त्वा च्यवनो मुनिः । 019a
अभ्यनुज्ञाय नृपतिं तीर्थयात्रां ययौ तदा ॥ 019c
एतत्ते कथितं सर्वमशेषेण मया नृप । 020a
भृगूणां कुशिकानां च अभिसम्बन्धकारणम् ॥ 020c
यथोक्तमृषिणा चापि तदा तदभवन्नृप । 021a
जन्म रामस्य च मुनेर्विश्वामित्रस्य चैव हि ॥ ॥ 021c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकनवतितमोऽध्यायः ॥ 91 ॥
13-91-15 तुभ्यं तव । ब्राह्मणत्वं कर्तृ ॥