अध्यायः 090
अथ दानधर्मपर्व ॥ 1 ॥
च्यवनेन कुशिकम्प्रति स्वस्य तद्गृहे निवासादेः कारणकथनम् ॥ 1 ॥ तथा तस्य ब्राह्मण्यप्राप्तीच्छावगमेन तत्पौत्रादेस्तल्लाभवरदानम् ॥ 2 ॥
च्यवन उवाच । 001
वरश्च गृह्यतां मत्तो यश्च ते संशयो हृदि । 001a
तं प्रब्रूदि नरश्रेष्ठ सर्वं सम्पादयामि ते ॥ 001c
कुशिक उवाच । 002
यदि प्रीतोसि भगवंस्ततो मे वद भार्गव । 002a
कारणं श्रोतुमिच्छमि मद्गृहे वासकारितम् ॥ 002c
शयनं चैकपार्श्वेन दिवसानेकविंशतिम् । 003a
न किञ्चिदुक्त्वा गमनं बहिश्च मुनिपुङ्गवः ॥ 003c
अन्तर्धानमकस्माच्च पुनरेव च दर्शनम् । 004a
पुनश्च शयनं विप्र दिवसानेकविंशतिम् ॥ 004c
तैलाभ्यक्तस्य गमनं भोजनं च गृहे मम । 005a
समुपानीय विविधं यद्दग्धं जातवेदसा ॥ 005c
निर्याणां च रथेनाशु सहसा यत्कृतं त्वया । 006a
धनानां च विसर्गश्च वनस्यापि च दर्शनम् ॥ 006c
प्रासादानां बहूनां च काञ्चनानां महामुने । 007a
मणिविद्रुमपादानां पर्यङ्काणां च दर्शनम् ॥ 007c
पुनश्चादर्शनं तस्य श्रोतुमिच्छामि कारणम् । 008a
अतीव ह्यत्र मुह्यामि चिन्तयानो भृगूद्वह ॥ 008c
न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चयम् । 009a
एतदिच्छामि कार्त्स्न्येन सत्यं श्रोतुं तपोधन ॥ 009c
च्यवन उवाच । 010
शृणु सर्वमशेषेणि यदिदं येन हेतुना । 010a
न हि शक्यमनाख्यातुमेवं पृष्टेन पार्थिव ॥ 010c
पितामहस्य वदतः पुरा देवसमागमे । 011a
श्रुतवानस्मि यद्राजंस्तन्मे निगदतः शृणु ॥ 011c
ब्रह्मक्षत्रविरोधेन भविता कुलसङ्करः । 012a
पौत्रस्ते भविता राजंस्तेजोवीर्यसमन्वितः ॥ 012c
ततः स्वकुलरक्षार्थमहं त्वां समुपागतः । 013a
चिकीर्षन्कुशिकोच्छेदं सन्दिधक्षुः कुलं तव ॥ 013c
ततोऽहमागम्य पुरे त्वामवोचं महीपते । 014a
नियमं कञ्चिदारप्सये शुश्रूषा क्रियतामिति ॥ 014c
न च ते दुष्कृतं किञ्चिदहमासादयं गृहे । 015a
तेन जीवसि राजर्षे न भवेथास्त्वमन्यथा ॥ 015c
एवं बुद्धिं समास्थाय दिवसानेकविंशतिम् । 016a
सुप्तोस्मि यदि मां कश्चिद्बोधयेदिति पार्थिव ॥ 016c
यदा त्वया सभार्येण संसुप्तो न प्रबोधितः । 017a
अहं तदैव ते प्रीतो मनसा राजसत्तम ॥ 017c
उत्थाय चास्मि निष्क्रान्तो यदि मां त्वं महीपते । 018a
पृच्छेः क्व यास्यसीत्येवं शपेयं त्वामिति प्रभो ॥ 018c
अन्तर्हितः पुनश्चास्मि पुनरेव च ते गृहे । 019a
योगमास्थाय संसुप्तो दिवसानेकविंशतिम् ॥ 019c
क्षुधितौ मामसूयेथां श्रमाद्वेति नराधिप । 020a
एतां बुद्धिं समास्थाय कर्शितौ वां क्षुधा मया ॥ 020c
न च तेऽभूत्सुसूक्ष्मोपि मन्युर्मनसि पार्थिव । 021a
सभार्यस्य नरश्रेष्ठ तेन ते प्रीतिमानहम् ॥ 021c
भोजनं च समानाय्य यत्तदादीपितं मया । 022a
क्रुध्येथा यदि मात्सर्यादिति तन्मर्षितं च मे ॥ 022c
ततोऽहं रथमारुह्य त्वामवोचं नराधिप । 023a
सभार्यो मां वहस्वेति तच्च त्वं कृतवांस्तथा ॥ 023c
अविशङ्को नरपते प्रीतोऽहं चापि तेन ह । 024a
धनोत्सर्गेऽपि च कृते न त्वां क्रोधोप्यधर्षयत् ॥ 024c
ततः प्रीतेन ते राजन्पुनरेतत्कृतं तव । 025a
सभार्यस्य वनं भूयस्तद्विद्धि मनुजाधिप ॥ 025c
प्रीत्यर्थं तव चैतन्मे स्वर्गसन्दर्शनं कृतम् । 026a
यत्ते वनेऽस्मिन्नृपते दृष्टं दिव्यं सुदर्शनम् ॥ 026c
स्वर्गोद्देशस्त्वया राजन्सशरीरेण पार्थिव । 027a
मुहूर्तमनुभूतोऽसौ सभार्येण नृपोत्तम ॥ 027c
निदर्शनार्थं तपसो धर्मस्य च नराधिप । 028a
तत्र नासीत्स्पृहा राजंस्तच्चापि विदितं मया ॥ 028c
ब्राह्मण्यं काङ्क्षसे हि त्वं तपश्च पृथिवीपते । 029a
अवमत्य नरेन्द्रत्वं देवेन्द्रत्वं च पार्थिव ॥ 029c
एवमेतद्यथातत्वं ब्राह्मण्यं तात दुर्लभम् । 030a
ब्राह्मण्ये सति चर्षित्वमृषित्वे च तपस्विता ॥ 030c
भविष्यत्येष ते कामः कुशिकात्कौशिको द्विजः ॥ 031ac
तृतीयं पुरुषं प्राप्य ब्राह्मणत्वं गमिष्यति । 032a
वंशस्ते पार्थिवश्रेष्ठ भृगूणामेव तेजसा ॥ 032c
पौत्रस्ते भविता विप्रस्तपस्वी पावकद्युतिः । 033a
'जमदग्नौ महाभाग तपसा भावितात्मनि ॥' 033c
यः स देवमनुष्याणां भयमुत्पादयिष्यति । 034a
त्रयाणामेव लोकानां सत्यमेतद्ब्रवीमि ते ॥ 034c
वरं गृहाण राजर्षे यस्ते मनसि वर्तते । 035a
तीर्थयात्रां गमिष्यामि पुरा कालोऽतिवर्तते ॥ 035c
कुशिक उवाच । 036
एष एव वरो मेऽद्य यत्त्वं प्रीतो महामुने । 036a
भवत्वेतद्यथार्थत्वं भवेत्पौत्रो ममानघ ॥ 036c
ब्राह्मण्यं मे कुलस्यास्तु भगवन्नेष मे वरः । 037a
पुनश्चाख्यातुमिच्छामि भगवन्विस्तरेण वै ॥ 037c
कथमेष्यति विप्रत्वं कुलं मे भृगुनन्दन । 038a
कश्चासौ भविता बन्धुर्मम कश्चापि सम्मतः ॥ ॥ 038c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि नवतितमोऽध्यायः ॥ 90 ॥