अध्यायः 089
अथ दानधर्मपर्व ॥ 1 ॥
परेद्युः प्रभाते सभार्येण कुशिकेन च्यवनावलोकनाय वनप्रवेशः ॥ 1 ॥ च्यवनेन कुशिकम्प्रति स्वयोगप्रभावसृष्टस्वर्गप्रदर्शनपूर्वकमभिमतवरवरणप्रेरणा ॥ 2 ॥
भीष्म उवाच । 001
ततः स राजा रात्र्यन्ते प्रतिबुद्धो महामनाः । 001a
कृतपूर्वाह्णिकः प्रायात्सभार्यस्तद्वनं प्रति ॥ 001c
ततो ददर्श नृपतिः प्रासादं सर्वकाञ्चनम् । 002a
मणिस्तम्भसहस्राढ्यं गन्धर्वनगरोपमम् । 002c
तत्र दिव्यानभिप्रायान्ददर्श कुशिकस्तदा ॥ 002e
पर्वतान्रूप्यसानूंश्च नलिनीश्च सपङ्कजाः । 003a
चित्रशालाश्च विविधास्तोरणानि च भारत । 003c
शाद्वलोपचितां भूमिं तथा काञ्चनकुट्टिमाम् ॥ 003e
सहकारान्प्रफुल्लांश्च केतकोद्दालकान्वरान् । 004a
अशोकान्सहकुन्दांश्च फुल्लांश्चैवातिमुक्तकान् ॥ 004c
चम्पकांस्तिलकान्भव्यान्पनसान्वञ्जुलानपि । 005a
पुष्पितान्कर्णिकारांश्च तत्रतत्र ददर्श ह ॥ 005c
श्यामान्वारणपुष्पांश्च तथाऽष्टपदिका लताः । 006a
तत्रतत्र परिक्लृप्ता ददर्श स महीपतिः ॥ 006c
रम्यान्पद्मोत्पलधरान्सर्वर्तुकुसुमांस्तथा । 007a
विमानप्रतिमांश्चापि प्रासादाञ्शैलसन्निभान् ॥ 007c
शीतलानि च तोयानि क्वचिदुष्णानि भारत । 008a
आसनानि विचित्राणि शयनप्रवराणि च ॥ 008c
पर्यङ्कान्रत्नसौवर्णान्परार्ध्यास्तरणास्तृतान् । 009a
भक्ष्यं भोज्यमनन्तं च तत्रतत्रोपकल्पितम् ॥ 009c
वाणीवादाञ्छुकांश्चैव शारिका भृङ्गराजकान् । 010a
कोकिलाञ्छतपत्रांश्च सकोयष्टिककुक्कुभान् ॥ 010c
मयूरान्कुक्कुटांश्चापि दात्यूहाञ्जीवजीवकान् । 011a
चकोरान्वानरान्हंसान्सारसांश्चक्रसाह्वयान् ॥ 011c
समन्ततः प्रणदतो ददर्श सुमनोहरान् । 012a
क्वचिदप्सरसां सङ्घान्गन्धर्वाणां च पार्थिव ॥ 012c
कान्ताभिरपरांस्तत्र परिष्वक्तान्ददर्श ह । 013a
न ददर्श च तान्भूयो ददर्श च पुनर्नृपः ॥ 013c
गीतध्वनिं सुमधुरं तथैवाध्ययनध्वनिम् । 014a
हंसान्सुमधुरांश्चापि तत्र शुश्राव पार्थिवः ॥ 014c
तं दृष्ट्वाऽत्यद्भुतं राजा मनसाऽचिन्तयत्तदा । 015a
स्वप्नोऽयं चित्तविभ्रंश उताहो सत्यमेव तु ॥ 015c
अहो सह शरीरेण प्राप्तोस्मि परमां गतिम् । 016a
उत्तरान्वा कुरून्पुण्यानथवाऽप्यमरावतीम् ॥ 016c
किञ्चेदं महदाश्चर्यं सम्पश्यामीत्यचिन्तयत् । 017a
एवं सञ्चिन्तयन्नेव ददर्श मुनिपुङ्गवम् ॥ 017c
तस्मिन्विमाने सौवर्णे मणिस्तम्भसमाकुले । 018a
महार्हे शयने दिव्ये शयानं भृगुनन्दनम् ॥ 018c
तमभ्ययात्प्रहर्षेण नरेन्द्रः सह भार्यया । 019a
अन्तर्हितस्ततो भूयश्च्यवनः शयनं व तत् ॥ 019c
ततोऽन्यस्मिन्वनोद्देशे पुनरेव ददर्श तम् । 020a
कौश्यां बृस्यां समासीनं जपमानं महाव्रतम् ॥ 020c
एवं योगबलाद्विप्रो मोहयामास पार्थिवम् ॥ 021ac
क्षणेन तद्वनं चैव ते चैवाप्सरसां गणाः । 022a
गन्धर्वाः पादपाश्चैव सर्वमन्तरधीयत ॥ 022c
निःशब्दमभवच्चापि गङ्गाकूलं पुनर्नृप । 023a
कुशवल्मीकभूयिष्ठं बभूव च यथा पुरा ॥ 023c
ततः स राजा कुशिकः सभार्यस्तेन कर्मणा । 024a
विस्मयं परमं प्राप्तस्तद्दृष्ट्वा महदद्भुतम् ॥ 024c
ततः प्रोवाच कुशिको भार्यां हर्षसमन्वितः । 025a
पश्य भद्रे यथाभावाश्चित्रा दृष्टाः सुदुर्लभाः । 025c
प्रसादाद्भृगुमुख्यस्य किमन्यत्र तपोबलात् ॥ 025e
तपसा तदवाप्यं हि यन्न शक्यं मनोरथैः । 026a
त्रैलोक्यराज्यादपि हि तप एव विशिष्यते ॥ 026c
तपसा हि सुतप्तेनि क्रीडत्येष तपोधनः । 027a
अहो प्रभावो ब्रह्मर्षेश्च्यवनस्य महात्मनः ॥ 027c
इच्छयैष तपोवीर्यादन्याल्ँलोकान्सृजेदपि । 028a
ब्राह्मणा एव जायेरन्पुण्यवाग्बुद्धिकर्मणा ॥ 028c
उत्सहेदिह कृत्वैव कोऽन्यो वै च्यवनादृते । 029a
ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः ॥ 029c
ब्राह्मण्यस्य प्रभावाद्धि रथे युक्तौ स्वधुर्यवत् । 030a
इत्येवं चिन्तयानः स विदितश्च्यवनस्य वै ॥ 030c
सम्प्रेक्ष्योवाच नृपतिं क्षिप्रमागम्यतामिति । 031a
इत्युक्तः सहभार्यस्तु सोभ्यगच्छन्महामुनिम् ॥ 031c
शिरसा वन्दनीयं तमवन्दत च पार्थिवः । 032a
तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम् । 032c
निषीदेत्यब्रवीद्धीमान्सान्त्वयन्पुरुषर्षभः ॥ 032e
ततः प्रकृतिमापन्नो भार्गवो नृपते नृपम् । 033a
उवाच श्लक्ष्णया वाचा तर्पयन्निव भारत ॥ 033c
राजन्सम्यग्जितानीह पञ्चपञ्च स्वयं त्वया । 034a
मनःषष्ठानीन्द्रियाणि कृच्छ्रान्मुक्तोसि तेन वै ॥ 034c
सम्यगाराधितः पुत्र त्वयाऽहं वदतांवर । 035a
न हि ते वृजिनं किञ्चित्सुसूक्ष्ममपि दृश्यते ॥ 035c
अनुजानीहि मां राजन्गमिष्यामि यथागतम् । 036a
प्रीतोस्मि तव राजेन्द्र वरश्च प्रतिगृह्यताम् ॥ 036c
कुशिक उवाच । 037
अग्निमध्ये गतेनेव भगवन्सन्निधौ मया । 037a
वर्तितं भृगुशार्दूल यन्न दग्धोस्मि तद्बहु ॥ 037c
एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन । 038a
यत्प्रीतोसि ममाचारैः कुलं त्रातं च मेऽनघ ॥ 038c
एष मेऽनुग्रहो विप्र जीविते च प्रयोजनम् । 039a
एतद्राज्यफलं चैव तपसश्च फलं मम ॥ 039c
यदि त्वं प्रीतिमान्विप्र मयि वै भृगुनन्दन । 040a
अस्ति मे संशयः कश्चित्तन्मे व्याख्यातुमर्हसि ॥ ॥ 040c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोननवतितमोऽध्यायः ॥ 89 ॥
13-89-29 उत्साहमिह कृत्वेदं कोऽन्यो वै च्यवनादृते । ब्राह्मण्यं दुर्लभं लोके तल्लब्ध्वा दुर्लभं तपः । सिद्धिस्तत्रापि दुष्प्रापा सिद्धेरपि परा गतिः इति ध.पाठः ॥