अध्यायः 088
अथ दानधर्मपर्व ॥ 1 ॥
पूर्वमन्तर्हितेन च्यवनेन कुशिकम्प्रति पुनः शयने प्रस्वपत आत्मनः प्रदर्शनम् ॥ 1 ॥ पुनरुत्थितेन मुनिना राजानम्प्रति आत्मनस्तैलाभ्यञ्जननियोजनेन स्नानशालायां पुनरन्तर्धानम् ॥ 2 ॥ पुनराविष्कृतात्मना तेन सभार्यस्य राज्ञो रथधुरि संयोजनपूर्वकं याचकेभ्यस्तदीयवित्तादिवितरणेन वीथ्यां रथेन निर्गमनम् ॥ 3 ॥ स्वीयप्रतोदताडनेऽप्यविकृतमानसे सभार्ये कुशिके प्रसीदता मुनिना वरदानेन तस्य स्वगृहप्रेषणम् ॥ 4 ॥
युधिष्ठिर उवाच । 001
तस्मिन्नन्तर्हिते विप्रे राजा किमकरोत्तदा । 001a
भार्या चास्य महाभागा तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच । 002
अदृष्ट्वा स महीपालस्तमृषिं सह भार्यया । 002a
परिश्रान्तो निववृते व्रीडितो नष्टचेतनः ॥ 002c
स प्रविश्य पुरीं दीनो नाभ्यभाषत किञ्चन । 003a
तदेव चिन्तयामास च्यवनस्य विचेष्टितम् ॥ 003c
अथ शून्येन मनसा प्रविवेश गृहं नृपः । 004a
ददर्श शयने तस्मिञ्शयानं भृगुनन्दनम् ॥ 004c
विस्मितौ तमृषिं दृष्ट्वा तदाश्चर्यं विचिन्त्य च । 005a
दर्शनात्तस्य तु तदा विश्रान्तौ सम्बभूवतुः ॥ 005c
यथास्थानं ततो गत्वा तत्पादौ संववाहतुः । 006a
अथापरेण पार्श्वेन सुष्वाप स महामुनिः ॥ 006c
तेनैव च स कालेन प्रत्यबुद्ध्यत वीर्यवान् । 007a
न च तौ चक्रतुः किञ्चिद्विकारं भयशङ्कितौ ॥ 007c
प्रतिबुद्धस्तु स मुनिस्तौ प्रोवाच विशाम्पते । 008a
तैलाभ्यङ्गो दीयतां मे स्नास्येऽहमिति भारत ॥ 008c
तौ तथेति प्रतिश्रुत्य क्षुधितौ श्रमकर्शितौ । 009a
शतपाकेन तैलेन महार्हेणोपतस्थतुः ॥ 009c
ततः सुखासीनमृषिं वाग्यतौ संववाहतुः । 010a
न च पर्याप्तमित्याह भार्गवः सुमहातपाः ॥ 010c
यदा तौ निर्विकारौ तु लक्षमायास भार्गवः । 011a
तत उत्थाय सहसा स्नानशालां विवेश ह ॥ 011c
क्लृप्तमेव तु तत्रासीत्स्नानीयं पार्थिवोचितम् । 012a
असत्कृत्य च तत्सर्वं तत्रैवान्तरधीयत ॥ 012c
स मुनिः पुनरेवाथ नृपतेः पश्यतस्तदा । 013a
नासूयां चक्रतुस्तौ च दम्पती भरतर्षभ ॥ 013c
अथ स्नातः स भगवान्सिंहासनगतः प्रभुः । 014a
दर्शयामास कुशिकं सभार्यं कुरुनन्दन ॥ 014c
संहृष्टवदनो राजा सभार्यः कुशिको मुनिम् । 015a
सिद्धमन्नमिति प्रह्वो निर्विकारो न्यवेदयत् ॥ 015c
आनीयतामिति मुनिस्तं चोवाच नराधिपम् । 016a
स राजा समुपाजह्रे तदन्नं सह भार्यया ॥ 016c
मांसप्रकारान्विविधाञ्शाकानि विविधानि च । 017a
लेह्यपिष्टविकारांश्च पानकानि लघूनि च ॥ 017c
रसालापूपकांश्चित्रान्मोदकानथ षड्रसान् । 018a
रसान्नानाप्रकारांश्च वन्यं च मुनिभोजनम् ॥ 018c
फलानि च विचित्राणि राजभोज्यानि भूरिशः । 019a
बदरेङ्गुदकाश्मर्यभल्लातकफलानि च ॥ 019c
गृहस्थानां च यद्भोज्यं यच्चापि वनवासिनाम् । 020a
सर्वमाहारयामास राजा शापभयान्मुनेः ॥ 020c
अथ सर्वमुपन्यस्तमग्रतश्च्यवनस्य तत् । 021a
ततः सर्वं समानीय तच्च शय्यासनं मुनिः ॥ 021c
वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सह । 022a
सर्वमादीपयामास च्यवनो भृगुनन्दनः ॥ 022c
न च तौ चक्रतुः क्रोधं दम्पती सुमहाव्रतौ । 023a
तयोः सम्प्रेक्षतोरेव पुनरन्तर्हितोऽभवत् ॥ 023c
तथैव च स राजर्षिस्तस्थौ तां रजनीं तदा । 024a
सभार्यो वाग्यतः श्रीमान्न चकोपं समाविशत् ॥ 024c
नित्यसंस्कृतमन्नं तु विविधं राजवेश्मनि । 025a
शयनानि च मुख्यानि परिषेकाश्च पुष्कलाः ॥ 025c
वस्त्रं च विविधाकारमभवत्समुपार्जितम् । 026a
न शशाक ततो द्रष्टमन्तरं च्यवनस्तदा ॥ 026c
पुनरेव च विप्रर्षिः प्रोवाच कुशिकं नृपम् । 027a
सभार्यो मां रथेनाशु वह यत्र ब्रवीम्यहम् ॥ 027c
तथेति च प्राह नृपो निर्विशङ्कस्तपोधनम् । 028a
क्रीडारथोस्तु भगवन्नुत साङ्ग्रामिको रथः ॥ 028c
इत्युक्तः स मुनी राज्ञा तेन हृष्टेन तद्वचः । 029a
च्यवनः प्रत्युवाचेदं हृष्टः परपुरञ्जयम् ॥ 029c
सज्जीकुरु रथं क्षिप्रं यस्ते साङ्ग्रामिको मतः । 030a
सायुधः सपताकश्च शक्तीकनकयष्टिमान् ॥ 030c
किङ्किणीस्वननिर्घोषो युक्तस्तोरणकल्पनैः । 031a
गदास्वङ्गनिबद्धश्च परमेषुशतान्वितः ॥ 031c
ततः स तं तथेत्युक्त्वा कल्पयित्वा महारथम् । 032a
भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा ॥ 032c
त्रिदण्डं वज्रसूच्यग्रं प्रतोदं तत्र चादधत् । 033a
सर्वमेतत्तथा दत्त्वा नृपो वाक्यमऽथाब्रवीत् ॥ 033c
भगवन्क्व रथो यातु ब्रवीतु भृगुनन्दन । 034a
यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः ॥ 034c
एवमुक्तस्तु भगवान्प्रत्युवाचाथ तं नृपम् । 035a
इतः प्रभृति यातव्यं पदकम्पदकं शनैः ॥ 035c
श्रमो मम यथा न स्यात्तथा मच्छन्दचारिणौ । 036a
सुसुखं चैव वोढव्यो जनः सर्वश्च पश्यतु ॥ 036c
नोत्सार्याः पथिकाः केचित्तेभ्योदास्ये वसु ह्यहम् । 037a
ब्राह्मणेभ्यश्च ये कामानर्थयिष्यन्ति मां पथि ॥ 037c
सर्वान्दास्याम्यशेषेण धनं रत्नानि चैव हि । 038a
क्रियतां निखिलेनैतन्मा विचारय पार्थिव ॥ 038c
तस्य तद्वचनं श्रुत्वा राजा भृत्यांस्तथाऽब्रवीत् । 039a
यद्यद्ब्रूयान्मुनिस्तत्तत्सर्वं देयमशङ्कितैः ॥ 039c
ततो रत्नान्यनेकानि स्त्रियो युग्यमजाविकम् । 040a
कृताकृतं च कनकं गजेन्द्राश्चाचलोपमाः ॥ 040c
अन्वगच्छन्त तमृषिं राजामात्याश्च सर्वशः । 041a
हाहाभूतं च तत्सर्वमासीन्नगरमार्तवत् ॥ 041c
तौ तीक्ष्णाग्रेण सहसा प्रतोदेन प्रतोदितौ । 042a
पृष्ठे विद्धौ कटे चैव निर्विकारौ तमूहतुः ॥ 042c
वेपमानौ निराहारौ पञ्चाशद्रात्रकर्शितौ । 043a
कथञ्चिदूहतुर्धैर्याद्दम्पती तं रथोत्तमम् ॥ 043c
बहुशो भृशविद्धौ तौ क्षरमाणौ क्षतोद्भवम् । 044a
ददृशाते महाराज पुष्पिताविव किंशुकौ ॥ 044c
तौ दृष्ट्वा पौरवर्गस्तु भृशं शोकसमाकुलः । 045a
अभिशापभयत्रस्तो न तं किञ्चिदुवाच ह ॥ 045c
द्वन्द्वशश्चाब्रुवन्सर्वे पश्यध्वं तपसो बलम् । 046a
क्रुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नेह शुक्नुमः ॥ 046c
अहो भगवतो वीर्यं महर्षेर्भावितात्मनः । 047a
राज्ञश्चापि सभार्यस्य धैर्यं पश्यत यादृशम् ॥ 047c
श्रान्तावपि हि कच्छ्रेण रथमेनं समूहतुः । 048a
न चैतयोर्विकारं वै ददर्श भृगुनन्दनः ॥ 048c
भीष्म उवाच । 049
ततः स निर्विकारौ तु दृष्ट्वा भृगुकुलोद्वहः । 049a
वसु विश्राणयामास यथा वैश्रवणस्तथा ॥ 049c
तत्रापि राजा प्रीतात्मा यथादिष्टमथाकरोत् । 050a
ततोऽस्य भगवान्प्रीतो बभूव मुनिसत्तमः ॥ 050c
अवतीर्य रथश्रेष्ठाद्दम्पती तौ मुमोच ह । 051a
विमोच्य चैतौ विधिवत्ततो वाक्यमुवाच ह ॥ 051c
स्निग्धगम्भीरया वाचा भार्गवः सुप्रसन्नया । 052a
ददामि वां वरं श्रेष्ठं तं ब्रूतामिति भारत ॥ 052c
सुकुमारौ च तौ विद्धौ कराभ्यां मुनिसत्तमः । 053a
पस्पर्शामृतकल्पाभ्यां स्नेहाद्भरतसतम ॥ 053c
अथाब्रवीन्नृपो वाक्यं श्रमो नास्त्यावयोरिह । 054a
विश्रान्तौ स्वः प्रभावात्ते ध्यानेनैवेह भार्गव ॥ 054c
अथ तौ भगवान्प्राह प्रहृष्टश्च्यनस्तदा । 055a
न वृथा व्याहृतं पूर्वं यन्मया तद्भविष्यति ॥ 055c
रमणीयः समुद्देशो गङ्गातीरमिदं शुभम् । 056a
किञ्चित्कालं व्रतपरो निवत्स्यामीह पार्थिव ॥ 056c
गम्यतां स्वपुरं पुत्र विश्रान्तः पुनरेष्यसि । 057a
इहस्थं मां सभार्यस्त्वं द्रष्टासि श्वो नराधिप ॥ 057c
न च मन्युस्त्वया कार्यः श्रेयस्त्वां समुपस्थितम् । 058a
यत्काङ्क्षितं हृदिस्थं ते तत्सर्वं हि भविष्यति ॥ 058c
इत्येवमुक्तः कुशिकः प्रहृष्टेनान्तरात्मना । 059a
प्रोवाच मुनिशार्दूलमिदं वचनमर्थवत् ॥ 059c
न मे मन्युर्महाभाग पूतौ स्वो भगवंस्त्वया । 060a
संवृतौ यौवनस्थौ स्वो वपुष्मन्तौ बलान्वितौ ॥ 060c
प्रतोदेन व्रणा ये मे सभार्यस्य त्वया कृताः । 061a
तान्न पश्यामि गात्रेषु स्वस्थोस्मि सह भार्यया ॥ 061c
इमां च देवीं पश्यामि वपुषाऽप्सरसोपमाम् । 062a
श्रिया परमया युक्ता तथा दृष्टा पुरा मया ॥ 062c
तव प्रसादसंवृत्तमिदं सर्वं महामुने । 063a
नैतच्चित्रं तु भगवंस्त्वयि सत्यपराक्रम ॥ 063c
इत्युक्तः प्रत्युवाचैनं कुशिकं च्यवनस्तदा । 064a
आगच्छेथाः सभार्यश्च त्वमिहेति नराधिप ॥ 064c
इत्युक्तः समनुज्ञातो राजर्षिरभिवाद्य तम् । 065a
प्रययौ वपुषा युक्तो नगरं देवराजवत् ॥ 065c
तत एनमुपाजग्मुरमात्याः सपुरोहिताः । 066a
बलस्था गणिकायुक्ताः सर्वाः प्रकृतयस्तथा ॥ 066c
तैर्वृतः कुशिको राजा श्रिया परमया ज्वलन् । 067a
प्रविवेश पुरं हृष्टः पूज्यमानोऽथ बन्दिभिः ॥ 067c
ततः प्रविश्य नगरं कृत्वा पौर्वाह्णिकीः क्रियाः । 068a
भुक्त्वा सभार्यो रजनीमुवास स महाद्युतिः ॥ 068c
ततस्तु तौ नवमभिवीक्ष्य यौवनं परस्परं विगतजराविवामरौ । 069a
ननन्दतुः शयनगतौ वपुर्धरौ श्रिया युतौ द्विजवरदत्तया तदा ॥ 069c
अथाप्युषिर्भृगुकुलकीर्तिवर्धनस्तपोधनो वनमभिराममृद्धिमत् । 070a
मनीषया बहुविधरत्नभूषितं ससर्ज यन्न पुरि शतक्रतोरपि ॥ ॥ 070c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टाशीष्टितमोऽध्यायः ॥ 88 ॥