अध्यायः 087

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति रामविश्वामित्रयोरुत्पत्तिप्रकारकथनारम्भः ॥ 1 ॥ च्यवनेन कुशिकराजमेत्य सभार्यं तम्प्रति स्वशुश्रूषाविधानम् ॥ 2 ॥ सभार्येण कुशिकेन एकविंशतिदिवसाननवरतमेकपार्श्वेन प्रसुप्तस्य च्यवनस्य पादसंवाहनेन पर्युपासनम् ॥ 3 ॥ ततः शयनादुत्थितेन मुनिना किञ्चिद्दूरं गत्वा पुनरन्तर्धानम् ॥ 4 ॥

युधिष्ठिर उवाच । 001
संशयो मे महाप्राज्ञ सुमहान्सागरोपम । 001a
तं मे शृणु महाबाहो श्रुत्वा व्याख्यातुमर्हसि ॥ 001c
कौतूहलं मे सुमहज्जामदग्न्यं प्रति प्रभो । 002a
रामं धर्मभृतां श्रेष्ठं तन्मे व्याख्यातुमर्हसि ॥ 002c
'ब्राह्मे बले सुपूर्णानामेतेषां च्यवनादिनाम् ।' 003a
कथमेष समुत्पन्नो रामः सत्यपराक्रमः । 003c
कथं ब्रह्मर्षिवंशोऽयं क्षत्रधर्मा व्यजायत ॥ 003e
तदस्य सम्भवं राजन्निखिलेनानुकीर्तय । 004a
कौशिकश्च कथं वंशात्क्षात्राद्वै ब्राह्मणोऽभवत् ॥ 004c
अहो प्रभावः सुमहानासीद्वै सुमहात्मनोः । 005a
रामस्य च नरव्याघ्र विश्वामित्रस्य चैव हि ॥ 005c
कथं पुत्रानतिक्रम्य तेषां नप्तृष्वथाभवत् । 006a
एष दोषो महाप्राज्ञ तत्त्वं व्याख्यातुमर्हसि ॥ 006c
भीष्म उवाच । 007
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 007a
च्यवनस्य च संवादं कुशिकस्य च भारत ॥ 007c
एतं दोषं पुरा दृष्ट्वा भार्गवश्च्यवनस्तदा । 008a
आगामिनं महाबुद्धिः स्ववंशे मुनिसत्तमः ॥ 008c
निश्चित्य मनसा सर्वं गुणदोषबलाबलम् । 009a
दग्धुकामः कुलं सर्वं कुशिकानां तपोधनः ॥ 009c
च्यवनस्तमनुप्राप्य कुशिकं वाक्यमब्रवीत् । 010a
वस्तुमिच्छा समुत्पन्ना त्वया सह ममानघ ॥ 010c
कुशिक उवाच । 011
भगवन्सहधर्मोऽयं पण्डितैरिह चर्यते । 011a
प्रदानकाले कन्यानामुच्यते च सदा बुधैः ॥ 011c
यत्तु तावदतिक्रान्तं धर्मद्वारं तपोधन । 012a
तत्कार्यं प्रकरिष्यामि तदनुज्ञातुमर्हसि ॥ 012c
भीष्म उवाच । 013
अथासनमुपादाय च्यवनस्य महामुनेः । 013a
कुशिको भार्यया सार्धमाजगाम यतो मुनिः ॥ 013c
प्रगृह्य राजा भृङ्गारं पाद्यमस्मै न्यवेदयत् । 014a
कारयामास सर्वाश्च क्रियास्तस्य महात्मनः ॥ 014c
ततः स राजा च्यवनं मधुपर्कं यथाविधि । 015a
ग्राहयामास चाव्यग्रो महात्मा नियतव्रतः ॥ 015c
सत्कृत्य तं तथा विप्रमिदं पुनरथाब्रवीत् । 016a
भगवन्परवन्तौ स्वो ब्रूहि किं करवावहे ॥ 016c
यदि राज्यं यदि धनं यदि गाः संशितव्रत । 017a
यज्ञदानानि च तथा ब्रूहि सर्वं ददामि ते ॥ 017c
इदं गृहमिदं राज्यमिदं धर्मासनं च ते । 018a
राजा त्वमसि शाध्युर्वीं भृत्योऽहं परवान्स्त्रिया ॥ 018c
एवमुक्ते ततो वाक्ये च्यवनो भार्गवस्तदा । 019a
कुशिकं प्रत्युवाचेदं मुदा परमया युतः ॥ 019c
न राज्यं कामये राजन्न धनं न च योषितः । 020a
न च गा न च वै देशान्न यज्ञं श्रूयतामिदम् ॥ 020c
नियमं किञ्चिदारप्स्ये युवयोर्यदि रोचते । 021a
परिचर्योस्मि यत्ताभ्यां युवाभ्यामविशङ्कया ॥ 021c
एवमुक्ते तदा तेन दम्पती तौ जहर्षतुः । 022a
प्रत्यब्रूतां च तमृषिमेवमस्त्विति भारत ॥ 022c
अथ तं कुशिको हृष्टः प्रावेशयदनुत्तमम् । 023a
गृहोद्देशं ततस्तस्य दर्शनीयमदर्शयत् ॥ 023c
इयं शय्या भगवतो यथाकाममिहोष्यताम् । 024a
प्रयतिष्यावहे प्रीतिमाहर्तुं ते तपोधन ॥ 024c
अथ सूर्योतिचक्राम तेषां संवदतां तथा । 025a
अथर्षिश्चोदयामास पानमन्नं तथैव च ॥ 025c
तमपृच्छत्ततो राजा कुशिकः प्रणतस्तदा । 026a
किमन्नजातमिष्टं ते किमुपस्थापयाम्यहम् ॥ 026c
ततः स परया प्रीत्या प्रत्युवाच नराधिपम् । 027a
औपपत्तिकमाहारं प्रयच्छस्वेति भारत ॥ 027c
तद्वचः पूजयित्वा तु तथेत्याह स पार्थिवः । 028a
यथोपपन्नमाहारं तस्मै प्रादाज्जनाधिप ॥ 028c
ततः स भुक्त्वा भगवन्दम्पती प्राह धर्मवित् । 029a
स्वप्तुमिच्छाम्यहं निद्रा बाधते मामिति प्रभो ॥ 029c
ततः शय्यागृहं प्राप्य भगवानृषिसत्तमः । 030a
संविवेश नरेशस्तु सपत्नीकः स्थितोऽभवत् ॥ 030c
न प्रबोध्योस्मि संसुप्त इत्युवाचाथ भार्गवः । 031a
संवाहितव्यौ मे पादौ जागर्तव्यं च वां निशि ॥ 031c
अविशङ्कस्तु कुशिकस्तथेत्येवाह धर्मवित् । 032a
न प्राबोधयतां तौ च दम्पती रजनीक्षये ॥ 032c
यथादेशं महर्षेस्तु शुश्रूषापरमौ तदा । 033a
बभूवतुर्महाराज प्रयतावथ दम्पती ॥ 033c
ततः स भगवान्विप्रः समादिश्य नराधिपम् । 034a
सुष्वापैकेन पार्श्वेन दिवसानेकविंशतिम् ॥ 034c
स तु राजा निराहारः सभार्यः कुरुनन्दन । 035a
पर्युपासत तं हृष्टश्च्यवनाराधने रतः ॥ 035c
भार्गवस्तु समुत्तस्थौ स्वयमेव तपोधनः । 036a
अकिञ्चिदुक्त्वा तु गृहान्निश्चक्राम महातपाः ॥ 036c
तमन्वगच्छतां तौ च क्षुधितौ श्रमकर्शितौ । 037a
भार्यापती मुनिश्रेष्ठस्तावेतौ नावलोकयत् ॥ 037c
तयोस्तु प्रेक्षतोऽरेव भार्गवाणां कुलोद्वहः । 038a
अन्तर्हितोभूद्राजेन्द्र ततो राजाऽपतत्क्षितौ ॥ 038c
ततो मुहूर्तादाश्वस्य सह देव्या महामुनेः । 039a
पुनरन्वेषणे यत्नमकरोत्स महीपतिः ॥ ॥ 039c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्ताशीतितमोऽध्यायः ॥ 87 ॥

13-87-11 अतिथिसेवाधर्म एव सहधर्मः स्त्रीसहितधर्मः ॥ 13-87-37 मुनिश्रेष्ठो नच तावभ्यवारयदिति ट.थ.ध.पाठः ॥