अध्यायः 086
अथ दानधर्मपर्व ॥ 1 ॥
दाशैश्च्यवनवृत्तान्तं निवेदितेन नहुषेण तम्प्रति तदभीष्टकरणप्रतिज्ञानम् ॥ 1 ॥ च्यवनेन नहुषम्प्रति दाशेभ्यः स्वोचितमूल्यदानेनात्ममोचनचोदना ॥ 2 ॥ नहुषेण सम्पूर्णराज्यस्य मूल्यतापरिकल्पनेपि मुनिता तदनङ्गीकरणे गवि जातेन मुनिना गोः प्रतिनिधीकरणम् ॥ 3 ॥ च्यवनेन गोप्रतिग्रहणेन स्वसहवासिभिर्मत्स्यैः सह दाशानां स्वर्गप्रापणम् ॥ 4 ॥
भीष्म उवाच । 001
नहुषस्तु ततः श्रुत्वा च्यवनं तं तथाऽऽगतम् । 001a
त्वरितः प्रययौ तत्र सहामात्यपुरोहितः ॥ 001c
शौचं कृत्वा यथान्यायं प्राञ्जलिः प्रयतो नृपः । 002a
आत्मानमाचचक्षे च च्यवनाय महात्मने ॥ 002c
अर्चयामास तं चापि तस्य राज्ञः पुरोहितः । 003a
सत्यव्रतं महात्मानं देवकल्पं विशाम्पते ॥ 003c
नहुष उवाच । 004
करवाणि प्रियं किं ते तन्मे ब्रूहि द्विजोत्तम । 004a
सर्वं कर्ताऽस्मि भगवन्यद्यपि स्यात्सुदुष्करम् ॥ 004c
च्यवन उवाच । 005
श्रमेणि महता युक्ताः कैवर्ता मत्स्यजीविनः । 005a
मम मूल्यं प्रयच्छैभ्यो मत्स्यानां विक्रयैः सह ॥ 005c
नहुष उवाच । 006
सहस्रं दीयतां मूल्यं निषादेभ्यः पुरोहित । 006a
निष्क्रयार्थे भगवतो यथाऽऽह भृगुनन्दनः ॥ 006c
च्यवन उवाच । 007
आत्ममूल्यं च वक्तव्यं न तल्लोकः प्रशंसति । 007a
तस्मादहं प्रवक्ष्यामि न चात्मस्तुतिम्मवृतः ॥ 007c
सहस्रं नाहमर्हामि किं वा त्वं मन्यसे नृप । 008a
सदृशं दीयतां मूल्यं स्वबुद्ध्या निश्चयं कुरु ॥ 008c
नहुष उवाच । 009
सहस्राणां शतं विप्र निषोदेभ्यः प्रदीयताम् । 009a
स्यादिदं भगवन्मूल्यं किं वाऽन्यन्मन्यते भवान् ॥ 009c
च्यवन उवाच । 010
नाहं शतसहस्रेण निमेयः पार्थिवर्षभ । 010a
दीयतां सदृशं मूल्यममात्यैः सह चिन्तय ॥ 010c
नहुष उवाच । 011
कोटिः प्रदीयतां मूल्यं निषादेभ्यः पुरोहित । 011a
यदेतदपि नो मूल्यमतो भूयः प्रदीयताम् ॥ 011c
च्यवन उवाच । 012
राजन्नार्हाम्यहं कोटिं भूयो वाऽपि महाद्युते । 012a
सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिन्तय ॥ 012c
नहुष उवाच । 013
अर्दं राज्यं समग्रं वा निषादेभ्यः प्रदीयताम् । 013a
एतत्तुल्यमहं मन्ये किं वाऽन्यन्मन्यसे द्विज ॥ 013c
च्यवन उवाच । 014
अर्धं राज्यं समग्रं च मूल्यं नार्हामि पार्थिव । 014a
सदृशं दीयतां मूल्यमृषिभिः सह चिन्त्यताम् ॥ 014c
भीष्म उवाच । 015
महर्षेर्वचनं श्रुत्वा नहुषो दुःखकर्शितः । 015a
स चिन्तयामास तदा सहामात्यपुरोहितः ॥ 015c
तत्र त्वन्यो वनचरः कश्चिन्मूलफलाशनः । 016a
नहुषस्य समीपस्थो गविजातोऽभवन्मुनिः ॥ 016c
स तमाभाष्य राजानमब्रवीद्द्विजसत्तमः । 017a
तोषयिष्याम्यहं क्षिप्तं यथा तुष्टो भविष्यति ॥ 017c
नाहं मिथ्यावचो ब्रूयां खैरेष्वपि कुतोऽन्यथा । 018a
भवतो यदहं ब्रयां तत्कार्यमविशङ्कया ॥ 018c
नहुष उवाच । 019
व्रवीतु भगवान्मूल्यं महर्षेः सदृशं भृगोः । 019a
परित्रायस्व मामस्मद्विषयं च कुलं च मे ॥ 019c
हन्याद्धि भगवान्क्रुद्धस्त्रैलोक्यमपि केवलम् । 020a
किं पुनर्मां तपोहीनं बाहुवीर्यपरायणम् ॥ 020c
अगाधाम्भसि मग्नस्य सामात्यस्य सऋत्विजः । 021a
प्लवो भव महर्षे त्वं कुरु मूल्यविनिश्चयम् ॥ 021c
भीष्म उवाच । 022
नहुषस्य वचः श्रुत्वा गविजातः प्रतापवान् । 022a
उवाच हर्षयन्सर्वानमात्यान्पार्थिवं च तम् ॥ 022c
'ब्राह्मणानां गवां चैव कुलमेकं द्विधा कृतम् । 023a
एकत्र मन्त्रास्तिष्ठन्ति हविरन्यत्र तिष्ठति ॥' 023c
अनर्घेया महाराज द्विजा वर्णेषु चोत्तमाः । 024a
गावश्च पुरुषव्याग्र गौर्मूल्यं परिकल्प्यताम् ॥ 024c
नहुषस्तु ततः श्रुत्वा महर्षेर्वचनं नृप । 025a
हर्षेण महता युक्तः सहामात्यपुरोहितः ॥ 025c
अभिगम्य भृगोः पुत्रं च्यवनं संशितव्रतम् । 026a
इदं प्रोवाच नृपते वाचा सन्तर्पयन्निव ॥ 026c
उत्तिष्ठोत्तिष्ठ विप्रर्षे गवा क्रीतोसि भार्गव । 027a
एतन्मूल्यमहं मन्ये तव धर्मभृतांवर ॥ 027c
च्यवन उवाच । 028
उत्तिष्ठाम्येष राजेन्द्र सम्यक् क्रीतोस्मि तेऽनघ । 028a
गोभिस्तुल्यं न पश्यामि धनं किञ्चिदिहाच्युत ॥ 028c
कीर्तनं श्रवणं दानं दर्शनं चापि पार्थिव । 029a
गवां प्रशस्यते वीर सर्वपापहरं शिवम् ॥ 029c
गावो लक्ष्म्याः सदा मूलं गोषु पाप्मा न विद्यते । 030a
अन्नमेव सदा गावो देवानां परमं हविः ॥ 030c
स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ । 031a
गावो यज्ञस्य नेत्र्यो वै तथा यज्ञस्य ता मुखम् ॥ 031c
अमृतं ह्यव्ययं दिव्यं क्षरन्ति च वहन्ति च । 032a
अमृतायतनं चैताः सर्वलोकनमस्कृताः ॥ 032c
तेजसा वपुषा चैव गावो वह्निसमा भुवि । 033a
गावो हि सुमहत्तेजः प्राणिनां च सुखप्रदाः ॥ 033c
निविष्टं गोकुलं यत्र श्वासं मुञ्चति निर्भयम् । 034a
विराजयति तं देशं पापं चास्यापकर्षति ॥ 034c
गावः स्वर्गस्य सोपानं गावः स्वर्गेऽपि पूजिताः । 035a
गावः कामदुहो देव्यो नान्यत्किञ्चित्परं स्मृतम् ॥ 035c
इत्येतद्गोषु मे प्रोक्तं महात्म्यं भरतर्षभ । 036a
गुणैकदेशवचनं शक्यं पारायणं न तु ॥ 036c
निषादा ऊचुः । 037
दर्शनं कथनं चैव सहास्माभिः कृतं मुने । 037a
सतां साप्तपदं मैत्रं प्रसादं नः कुरु प्रभो ॥ 037c
हवींषि सर्वाणि यथा ह्युपभुङ्क्ते हुताशनः । 038a
एवं त्वमपि धर्मात्मन्पुरुषाग्निः प्रतापवान् ॥ 038c
प्रसादयामहे विद्वन्भवन्तं प्रणता वयम् । 039a
अनुग्रहार्थमस्माकमियं गौः प्रतिगृह्यताम् ॥ 039c
'अत्यन्तापदि शक्तानां परित्राणं हि कुर्वताम् । 040a
या गतिर्विदिता त्वद्य नरके शरणं भवान् ॥ 040c
च्यवन उवाच । 041
कृपणस्य च यच्चक्षुर्मुनेराशीविषस्य च । 041a
नरं समूलं दहति कक्षमग्निरिव ज्वलन् ॥ 041c
प्रतिगृह्णामि वो धेनुं कैवर्ता मुक्तकिल्बिषाः । 042a
दिवं गच्छत वै क्षिप्रं मत्स्यैर्जालोद्धृतैः सह ॥ 042c
भीष्म उवाच । 043
ततस्तस्य प्रभावात्ते महर्षेर्भावितात्मनः । 043a
निषादास्तेन वाक्येन सह मत्स्यैर्दिवं ययुः ॥ 043c
ततः स राजा नहुषो विस्मितः प्रेक्ष्य धीवरान् । 044a
आरोहमाणांस्त्रिदिवं मत्स्यांश्च भरतर्षभ ॥ 044c
ततस्तौ गविजश्चैव च्यवनश्च भृगूद्वहः । 045a
वराभ्यामनुरूपाभ्यां छन्दयामासतुर्नृपम् ॥ 045c
ततो राजा महावीर्यो नहुषः पृथिवीपतिः । 046a
परमित्यब्रवीत्प्रीतस्तदा भरतसत्तम ॥ 046c
ततो जग्राह धर्मे स स्थितिमिन्द्रनिभो नृपः । 047a
तथेति चोदितः प्रीतस्तावृषी प्रत्यपूजयत् ॥ 047c
समाप्तदीक्षश्च्यवनस्ततोऽगच्छत्स्वमाश्रमम् । 048a
गविजश्च महातेजाः स्वमाश्रमपदं ययौ ॥ 048c
निषादाश्च दिवं जग्मुस्ते च मत्स्या जनाधिप । 049a
नहुषोपि वरं लब्ध्वा प्रविवेश स्वकं पुरम् ॥ 049c
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि । 050a
दर्शने यादृशः स्नेहः संवासे वा युधिष्ठिर ॥ 050c
महाभाग्यं गवां चैव तथा धर्मविनिश्चयम् । 051a
किं भूयः कथ्यतां वीर किं ते हृदि विवक्षितम् ॥ ॥ 051c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षडशीतितमोऽध्यायः ॥ 86 ॥