अध्यायः 085

भीष्मेण युधिष्ठिरम्प्रति महद्दर्शनसहवासयोर्गवां च प्रभावबोधनाय च्यवनोपाख्यानकथनारम्भः ॥ 1 ॥ गङ्गायमुना सङ्गमेऽन्तर्जले निमज्य तपस्यतश्च्यवनस्य दाशैर्जालेन जलचरैः सह कूलप्रापणम् ॥ 2 ॥ दाशैः प्रार्थितेन तेन तान्प्रति मत्स्यै सह स्वस्य प्राणजालान्यतरस्मान्मोचनचोदना ॥ 3 ॥

युधिष्ठिर उवाच । 001
दर्शने कीदृशः स्नेहः संवासे च पितामह । 001a
महाभाग्यं गवां चैव तन्मे व्याख्यातुमर्हसि ॥ 001c
भीष्म उवाच । 002
हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते । 002a
नहुषस्य च संवादं महर्षेश्च्यवनस्य च ॥ 002c
पुरा महर्षिश्च्यवनो भार्गवो भरतर्षभ । 003a
उदवासकृतारम्भो बभूव स महाव्रतः ॥ 003c
निहत्य मानं क्रोधं च प्रहर्षं शोकमेव च । 004a
वर्षाणि द्वादश मुनिर्जलवासे धृतव्रतः ॥ 004c
आदधत्सर्वभूतेषु विस्रम्यं परमं शुभम् । 005a
जलेचरेषु सर्वेषु शीतरश्मिरिव प्रभुः ॥ 005c
स्थाणुभूतः शुचिर्भूत्वा दैवतेभ्यः प्रणम्य च । 006a
गङ्गायमुनयोर्मध्ये जलं सम्प्रविवेश ह ॥ 006c
गङ्गायमुनयोर्वेगं सुभीमं भीमनिःस्वनम् । 007a
प्रतिजग्राह शिरसा वातवेगसमं जवे ॥ 007c
गङ्गा च यमुना चैव सरितश्च सरांसि च । 008a
प्रदक्षिणमृषिं चक्रुर्न चैनं पर्यपीडयन् ॥ 008c
अन्तर्जलेषु सुष्वाप काष्ठभूतो महामुनिः । 009a
ततश्चोर्ध्वस्थितो धीमानभवद्भरतर्षभ ॥ 009c
जलौकसां ससत्वानां बभूव प्रियदर्शनः । 010a
उपाजिघ्रन्त च तदा मत्स्यास्तं हृष्टमानसाः । 010c
तत्र तस्यासतः कालः समतीतोऽभवन्महान् ॥ 010e
ततः कदाचित्समये कस्मिंश्चिन्मत्स्यजीविनः । 011a
तं देशं समुपाजग्मुर्जालहस्ता महाद्युते ॥ 011c
निषादा बहवस्तत्र मत्स्योद्धरणनिश्चयाः । 012a
व्यायता बलिनः शूराः सलिलेष्वनुवर्तिनः । 012c
अभ्याययुश्च तं देशं निश्चिता जालकर्मणि ॥ 012c
जालं ते योजयामासुर्नवसूत्रकृतं दृढम् । 013a
मत्स्योद्धरणमाकर्षस्तदा भरतसत्तम ॥ 013c
ततस्ते बहुभिर्योगैः कैवर्ता मत्स्यकाङ्क्षिणः । 014a
गङ्गायमुनयोर्वारि जालेनावकिरन्ति ते ॥ 014c
जालं सुविततं तेषां नवसूत्रकृतं तथा । 015a
विस्तारायामसम्पन्नं यत्तत्र सलिले क्षमम् ॥ 015c
ततस्ते सुमहच्चैव बलवच्च सुवर्तितम् । 016a
अवतीर्य ततः सर्वे जालं चकृषिरे तदा ॥ 016c
अभीतरूपाः संहृष्टा अन्योन्यवशवर्तिनः । 017a
बबन्धुस्तत्र मत्स्यांश्च तथाऽन्याञ्जलचारिणः ॥ 017c
तथा मत्स्यैः परिवृतं च्यवनं भृगुनन्दनम् । 018a
आकर्षयन्महाराज जालेनाथ यदृच्छया ॥ 018c
नदीशैवलदिग्धाङ्गं हरिश्मश्रुजटाधरम् । 019a
लग्नैः शङ्खनखैर्गात्रे क्रोडैश्चित्रैरिवार्पितम् । 019c
तं जालेनोद्धृतं दृष्ट्वा ते तदा वेदपारगम् । 020a
सर्वे प्राञ्जलयो दाशाः शिरोभिः प्रापतन्भुवि ॥ 020c
परिखेदपरित्रासाज्जालस्याकर्षणेन च । 021a
मत्स्या बभूवुर्व्यापन्नाः स्थलसंस्पर्शनेन च ॥ 021c
स मुनिस्तत्तदा दृष्ट्वा मत्स्यानां कदनं कृतम् । 022a
बभूव कृपयाविष्टो निःश्वसंश्च पुनःपनः ॥ 022c
निषादा ऊचुः । 023
अज्ञानाद्यत्कृतं पापं प्रसादं तत्र नः कुरु । 023a
करवाम प्रिय किं ते तन्नो ब्रूहि महामुने ॥ 023c
इत्युक्तो मत्स्यमध्यस्थश्च्यवनो वाक्यमब्रवीत् । 024a
यो मेऽद्य परमः कामस्तं शृणुध्वं समाहिताः ॥ 024c
प्राणोत्सर्गं विसर्गं वा मत्स्यैर्यास्याम्यहं सह । 025a
संवासान्नोत्सहे त्यक्तुं सलिलेऽध्युपितानहम् ॥ 025c
इत्युक्तास्ते निषादास्तु सुभृशं भयकम्पिताः । 026a
सर्वे विवर्णवदना नहुषाय न्यवेदयन् ॥ ॥ 026c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पश्चाशीतितमोऽध्यायः ॥ 85 ॥

13-85-1 परपीडादर्शने परैः सह संवासे च कीदृशः स्नेह आतृशंस्यं च कर्तव्यम् । गवां माहात्म्यं च ब्रूहीति प्रश्नद्वयम् ॥ 13-85-8 सरितश्च तथानुगा इति ट.थ.ध.पाठः ॥ 13-85-9 ऊर्ध्वस्थितः उपविष्टः ॥ 13-85-10 आसतः आसीनस्य ॥ 13-85-19 शङ्खानां जलजन्तुविशेषाणां नखानि तैः ॥