अध्यायः 084

भीष्मेण युधिष्ठिरम्प्रत्यौरसादिपुत्रनिरूपणम् ॥ 1 ॥

युधिष्ठिर उवाच । 001
ब्रूहि तात कुरुश्रेष्ठ वर्णानां त्वं पृथक् पृथक् । 001a
कीदृश्यां कीदृशाश्चापि पुत्राः कस्य च के च ते ॥ 001c
विप्रवादाः सुबहवः श्रूयन्ते पुत्रकारिणाम् । 002a
अत्र नो मुह्यतां राजन्संशयं छेत्तुमर्हसि ॥ 002c
भीष्म उवाच । 003
'आत्मा पुत्रस्तु विज्ञेयः प्रथमो बहुधा परे ॥ 003ac
स्वे क्षेत्रे संस्कृते यस्तु पुत्रमुत्पादयेत्स्वयम् । 004a
तमौरसं विजानीयात्पुत्रं प्रथमकल्पितम् ॥ 004c
अग्निं प्रजापतिं चेष्ट्वा वराय प्रतिपादिता । 005a
पुत्रिका स्याद्दुहितरि सङ्कल्पे वाऽपि वा सुतः ॥ 005c
तल्पे जातः प्रमीतस्य क्लीबस्य पतितस्य वा । 006a
स्वधर्मेण नियुक्तो यः स पुत्रः क्षेत्रजः स्मृतः ॥ 006c
माता पिता च दद्यातां यमद्भिः पुत्रमापदि । 007a
सदृशप्रीतिसंयुक्तो विज्ञेयो दत्रिमः सुतः ॥ 007c
सदृशं तु प्रकुर्याद्यं गुणदोषविचक्षणम् । 008a
पुत्रं पुत्रगुणैर्युक्तं विज्ञेयः स तु कृत्रिमः ॥ 008c
उत्पद्यते यस्य गूढं न च ज्ञायेत कस्यचित् । 009a
स भवेद्गूढजो नाम तस्य स्याद्यस्य तल्पतः ॥ 009c
मातापितृभ्यामुत्सृष्टस्तयोरन्यतरेण वा । 010a
यं पुत्रं प्रतिगृह्णीयादपविद्धः स उच्यते ॥ 010c
पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः । 011a
तं कानीनं वदन्नाम्ना वोढुः कन्यासमुद्भवे ॥ 011c
या गर्भिणी संस्क्रियते ज्ञाताऽज्ञातापि वा सती । 012a
वोढुः स गर्भो भवति सहोढ इति उच्यते ॥ 012c
क्रीणीयाद्यस्त्वपर्यार्थं मातापित्रोर्यमन्तिकात् । 013a
स क्रीतकः सुतस्तस्य सदृशोऽसदृशोपि वा ॥ 013c
या पत्या वा परित्यक्ता विधवा वा स्वकेच्छया । 014a
उत्पादयति पुनर्भूत्वा स पौनर्भव उच्यते ॥ 014c
सा चेदक्षतयोनिः स्याद्गतप्रत्याङ्गताऽपि वा । 015a
पौनर्भवेन भर्त्रा सा पुनसंस्कारमर्हति ॥ 015c
मातापितृहनो यः स्यात्त्यक्तो वा स्यादकारणम् । 016a
आत्मानं स्पर्शयेद्यस्तु स्वयन्दत्तस्तु स स्मृतः ॥ 016c
यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत्सुतम् । 017a
स पावयन्नेव शवस्तस्मात्पारशवः स्मृतः ॥ 017c
दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत् । 018a
सोऽनुज्ञातो हरेदंशमिति धर्मो व्यवस्थितः ॥ 018c
क्षेत्रजादीन्सुतानेतानेकादश यथोदितान् । 019a
पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः ॥ 019c
भ्रातॄणामेकजातानामेकश्चेत्पुत्रवान्भवेत् । 020a
सर्वांस्तांस्तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥ 020c
सर्वासामेकपत्नीनामेका चेत्पुत्रिणी भवेत् । 021a
सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतीर्मनुः ॥ 021c
आत्मा पुत्रश्च विज्ञेयस्तस्यानन्तरजश्च यः । 022a
निरुक्तजश्च विज्ञेयः सुतः प्रसृतजस्तथा ॥ 022c
पतितस्य तु भार्याया भर्त्रा सुसमवेतया । 023a
तथा दत्तकृतौ पुत्रावध्यूढश्च तथाऽपरः ॥ 023c
षडपध्वंसजाश्चापि कानीनापसदास्तथा । 024a
इत्येते वै समाख्यातास्तान्विजानीहि भारत ॥ 024c
युधिष्ठिर उवाच । 025
षडपध्वंसजाः के स्युः के वाऽप्यपसदास्तथा । 025a
एतत्सर्वं यथातत्त्वं व्याख्यातुं मे त्वमर्हसि ॥ 025c
भीष्म उवाच । 026
त्रिषु वर्णेषु ये पुत्रा ब्राह्मणस्य युधिष्ठिर । 026a
वर्णयोश्च द्वयोः स्यातां यौ राजन्यस्य भारत ॥ 026c
एको द्विवर्ण एवाथ तथाऽत्रैवोपलक्षितः । 027a
षडपध्वंसजास्ते हि तथैवापसदाञ्शृणु ॥ 027c
चाण्डालो व्रात्यवर्णौ तु ब्राह्मण्यां क्षत्रियासु च । 028a
वैश्यायां चैव शूद्रस्य लक्ष्यास्तेऽपसदास्त्रयः ॥ 028c
मागधो वामकश्चैव द्वौ वैश्यस्योपलक्षितौ । 029a
ब्राह्मण्यां क्षत्रियायां च क्षत्रियस्यैक एव तु ॥ 029c
ब्राह्मण्यां लक्ष्यते सूत इत्येतेऽपसदाः स्मृताः । 030a
पुत्रा ह्येते न शक्यन्ते मिथ्या कर्तुं नराधिप ॥ 030c
युधिष्ठिर उवाच । 031
क्षेत्रजं केचिदेवाहुः सुतं केचित्तु शुक्रजम् । 031a
तुल्यावेतौ सुतौ कस्य तन्मे ब्रूहि पितामह ॥ 031c
भीष्म उवाच । 032
रेतजो वा भवेत्पुत्रः पुत्रो वा क्षत्रेजो भवेत् । 032a
अध्यूढः समयं भित्त्वेत्येतदेव निबोध मे ॥ 032c
युधिष्ठिर उवाच । 033
रेतजं विद्म वै पुत्रं क्षत्रेजस्यागमः कथम् । 033a
अध्यूढं विद्म वै पुत्रं भित्त्वा तु समयं कथम् ॥ 033c
भीष्म उवाच । 034
आत्मजं पुत्रमुत्पाद्य यस्त्यजेत्कारणान्तरे । 034a
न तत्र कारणं रेतः स क्षेत्रस्वामिनो भवेत् ॥ 034c
पुत्रकामो हि पुत्रार्थे यां वृणीते विशाम्पते । 035a
तत्र क्षेत्रं प्रमाणं स्यान्न वै तत्रात्मजः सुतः ॥ 035c
अन्यत्र क्षेत्रजः पुत्रो लक्ष्यते भरतर्षभ । 036a
न ह्यात्मा शक्यते हन्तुं दृष्टान्तोपगतो ह्यसौ ॥ 036c
क्वचिच्च कुतकः पुत्रः सङ्ग्रहादेव लक्ष्यते । 037a
न तत्र रेतः क्षेत्रं वा प्रमाणं स्याद्युधिष्ठिर ॥ 037c
युधिष्ठिर उवाच । 038
कीदृशः कृतकः पुत्रः सङ्ग्रहादेव लक्ष्यते । 038a
शुक्रं क्षेत्रं प्रमाणं वा यत्र लक्ष्यं न भारत ॥ 038c
भीष्म उवाच । 039
मातापितृभ्यां यस्त्यक्तः पथि यस्तं प्रकल्पयेत् । 039a
न चास्य मातापितरौ ज्ञायेतां स हि कृत्रिमः ॥ 039c
अस्वामिकस्य स्वामित्वं यस्मिन्सम्प्रतिलक्ष्यते । 040a
यो वर्णः पोषयेत्तं च तद्वर्णस्तस्य जायते ॥ 040c
युधिष्ठिर उवाच । 041
कथमस्य प्रयोक्तव्यः संस्कारः कस्य वा कथम् । 041a
देया कन्या कथं चेति तन्मे ब्रूहि पितामह ॥ 041c
भीष्म उवाच । 042
आत्मवत्तस्य कुर्वीत संस्कारं स्वामिवत्तथा । 042a
त्यक्तो मातापितृभ्यां यः सवर्णं प्रतिपद्यते ॥ 042c
तद्गोत्रबन्धुजं तस्य कुर्यात्संस्कारमच्युत । 043a
अथ देया तु कन्या स्यात्तद्वर्णस्य युधिष्ठिर ॥ 043c
संस्कर्तुं वर्णगोत्रं च मातृवर्णविनिश्चये । 044a
कानीनाध्यूढजौ वाऽपि विज्ञेयौ पुत्रकिल्बिषौ ॥ 044c
तावपि स्वाविव सुतौ संस्कार्याविति निश्चयः । 045a
क्षेत्रजो वाऽप्यपसदो येऽध्यूढास्तेषु चाप्युत ॥ 045c
आत्मवद्वै प्रयुञ्जीरन्संस्कारान्ब्राह्मणादयः । 046a
'स्वं जन्मे मातृगोत्रेण संस्कारं ब्राह्मणादयः ॥ 046c
'धर्मशास्त्रेषु वर्णानां निश्चयोऽयं पदृश्यते । 047a
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ ॥ 047c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुरशीतितमोऽध्यायः ॥ 84 ॥

13-84-2 विप्रवादाः विविधाः प्रवादः पूर्वोक्ता एव ॥ 13-84-6 तल्पे कलत्रे ॥ 13-84-22 अनन्तरजः औरसः निरुक्तजः स्वक्षेत्रेऽन्यो रेतःसेकार्थमुक्तस्तज्जः । प्रसृतोऽनिरुक्तोऽपि यो लौल्यात्परक्षेत्रे रेतः सिञ्चति तज्जः प्रसृतजः ॥ 13-84-23 तथा पतितात्स्वभार्यायामेव जातः । भार्यायाः तृतीयार्थे षष्ठी । दत्तः पञ्चमः । कृतः क्रीतः स्वयमुपायगम्यो वा षष्ठः । अध्यूढः यस्य माता गर्भवत्येव ऊढा तादृशः सप्तमः ॥ 13-84-24 षडपध्वंसजा वक्ष्यमाणाः । कानीनः कन्यायां विवाहात् प्रागुत्पन्नश्चतुर्दशः । अपसदा वक्ष्यमाणाः षट् । एते विंशतिः । तान्सर्वान् पुत्रानिति विजानीहि ॥ 13-84-34 कारणान्तरे लोकापवादादिभये सति ॥ 13-84-35 यां गर्भवती कन्यां वृणीते तत्र स पुत्रो वोढुरेव क्षेत्रजो न तु सेक्तुरात्मज ॥