अध्यायः 083
भीष्मेण युधिष्ठिरं प्रति सङ्करजातीनां शीलविभागादिनिरूपणम् ॥ 1 ॥
युधिष्ठिर उवाच । 001
अर्थाश्रयाद्वा कामाद्वा वर्णानां चाप्यनिश्चयात् । 001a
अज्ञानाद्वापि वर्णानां जायते वर्णसङ्करः ॥ 001c
तेषामेतेन विधिना जातानां वर्णसङ्करे । 002a
को धर्मः कानि कर्माणि तन्मे ब्रूहि पितामह ॥ 002c
भीष्म उवाच । 003
चातुर्वर्ण्यस्य कर्माणि चातुर्वर्ण्यं च केवलम् । 003a
असृजत्स हि यज्ञार्थे पूर्वमेव प्रजापतिः ॥ 003c
भार्याश्चतस्रो विप्रस्य द्वयोरात्मा प्रजायते । 004a
आनुपूर्व्याद्द्वयोर्हीनौ मातृजात्यौ प्रसूयतः ॥ 004c
परं शवाद्ब्राह्मणस्यैव पुत्रः शूद्रापुत्रं पारशवं तमाहुः । 005a
शुश्रूषकः स्वस्य कुलस्य स स्यात्स्वचारित्रं नित्यमथो न जह्यात् ॥ 005c
सर्वानुपायानथ सम्प्रधार्य समुद्धरेत्स्वस्य कुलस्य तन्त्रम् । 006a
ज्येष्ठो यवीयानपि यो द्विजस्यशुश्रूषया दानपरायणः स्यात् ॥ 006c
तिस्रः क्षत्रियसम्बन्धाद्द्वयोरात्माऽस्य जायते । 007a
हीनवर्णास्तृतीयायां शूद्रा उग्रा इति स्मृतिः ॥ 007c
द्वे चापि भार्ये वैश्यस्य द्वयोरात्माऽस्य जायते । 008a
शूद्रा शूद्रस्य चाप्येका शूद्रमेव प्रजायते ॥ 008c
अतोऽविशिष्टस्त्वधमो गुरुदारप्रधर्षकः । 009a
ब्राह्यं वर्णं जनयति चातुर्वर्ण्यविगर्हितम् ॥ 009c
अयाज्यं क्षत्रियो व्रात्यं सूतं स्तोत्रक्रियापरम् । 010a
वैश्यो वैदेहकं चापि मौद्गल्यमपवर्जितम् ॥ 010c
शूद्रश्चण्डालमत्युग्रं वध्यघ्नं बाह्यवासिनम् । 011a
ब्राह्मण्यां सम्प्रजायन्त इत्येते कुलपांसनाः । 011c
एते मतिमतांश्रेष्ठ वर्णसङ्करजाः प्रभो ॥ 011e
बन्दी तु जायते वैश्यान्मागधो वाक्यजीवनः । 012a
शूद्रान्निषादो मत्स्यघ्नः क्षत्रियायां व्यतिक्रमात् ॥ 012c
शूद्रादायोगवश्चापि वैश्यायां ग्राम्यधर्मिणः । 013a
ब्राह्मणैरप्रतिग्राह्यस्तक्षा स्वधनजीवनः ॥ 013c
एतेऽपि सदृशान्वर्णाञ्जनयन्ति स्वयोनिषु । 014a
मातृजात्या प्रसूयन्ते ह्यवरा हीनयोनिषु ॥ 014c
यथा चतुर्षु वर्णेषु द्वयोरात्माऽस्य जायते । 015a
आनन्तर्यात्प्रजायन्ते यथा बाह्या प्रधानतः ॥ 015c
ते चापि सदृशं वर्णं जनयन्ति स्वयोनिषु । 016a
परस्परस्य दारेषु जनयन्ति विगर्हितान् ॥ 016c
यथा शूद्रोऽपि ब्राह्मण्यां जन्तुं बाह्यं प्रसूयते । 017a
एवं बाह्यतराद्बाह्यश्चातुर्वर्ण्यात्प्रजायते ॥ 017c
प्रतिलोमं तु वर्धन्ते बाह्योद्बाह्यतरात्पुनः । 018a
हीनाद्धीनाः प्रसूयन्ते वर्णाः पञ्चदशैव तु ॥ 018c
अगम्यागमनाच्चैव जायते वर्णसङ्करः । 019a
बाह्यानामनुजायन्ते सैरन्ध्र्यां मागधेषु च । 019c
प्रसाधनोपचारज्ञमदासं दासजीवनम् ॥ 019e
क्षत्रा ह्यायोगवं सूते वागुराबन्धजीवनम् । 020a
मैरेयकं च वैदेहः सम्प्रसूतेऽथ माधुकम् ॥ 020c
निषादो मद्गुरं सूते दासं नावोपजीविनम् । 021a
मृतपं चापि चाण्डालः श्वपाकमिति विश्रुतम् 021c
चतुरो मागधी सूते क्रूरान्मायोपजीविनः । 022a
मांसं स्वादुकरं क्षौद्रं सौगन्धमिति विश्रुतम् ॥ 022c
वैदेहकाच्च पापिष्ठा क्रूरं मायोपजीविनम् । 023a
निषादान्मद्रनाभं च खरयानप्रयायिनम् ॥ 023c
चण्डालात्पुल्कसं चापि खराश्वगजभोजिनम् । 024a
भृतचैलप्रतिच्छन्नं भिन्नभाजनभोजिनम् ॥ 024c
आयोगवीषु जायन्ते हीनवर्णास्तु ते त्रयः । 025a
क्षुद्रो वैदेहकादन्धो बहिर्ग्रामप्रतिश्रयः ॥ 025c
कारावरो निषाद्यां तु चर्मकारः प्रसूयते । 026a
चाण्डालात्पाण्डुसौपाकस्त्वक्सारव्यवहारवान् ॥ 026c
आहिण्डको निषादेन वैदेह्यां सम्प्रसूयते । 027a
चण्डालेन तु सौपाकश्चण्डालसमवृत्तिमान् ॥ 027c
निषादी चापि चण्डालात्पुत्रमन्तेवसायिनम् । 028a
श्मशानगोचरं सूते बाह्यैरपि बहिष्कृतम् ॥ 028c
इत्येते सङ्करे जाताः पितृमातृव्यतिक्रमात् । 029a
प्रच्छन्नान्वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥ 029c
चतुर्णामेव वर्णानां धर्मो नान्यस्य विद्यते । 030a
वर्णानां धर्महीनेषु सङ्ख्या नास्तीह कस्यचित् ॥ 030c
यदृच्छयोपसम्पन्नैर्यज्ञसाधुबहिष्कृतैः । 031a
बाह्या बाह्यैश्च जायन्ते यथावृत्ति यथाश्रयम् ॥ 031c
चतुष्पथश्मशानानि शैलांश्चान्यान्वनस्पतीन् । 031e
कार्ष्णायसमलङ्कारं परिगृह्य च नित्यशः । 032a
वसेयुरेते विज्ञाता वर्तयन्तः स्वकर्मभिः ॥ 032c
युञ्जन्तो वाऽप्यलङ्कारांस्तथोपकरणानि च । 033a
गोब्राह्मणाय साहय्यं कुर्वाणा वै न संशयः ॥ 033c
आनृशंस्यमनुक्रोशः सत्यवाक्यं तथा क्षमा । 034a
स्वशरीरैरपि त्राणं बाह्यानां सिद्धिकारणम् । 034c
भवन्ति मनुजव्याघ्र तत्र मे नास्ति संशयः ॥ 034e
यथोपदेशं परिकीर्तितासु नरः प्रजायेत विचार्य बुद्धिमान् । 035a
निहीनयोनिर्हि सुतोऽवसादये-त्तितीर्षमाणं हि यथोपलो जले ॥ 035c
अविद्वांसमलं लोके विद्वांसमपि वा पुनः । 036a
नयन्ति ह्यपथं नार्यः कामक्रोधवशानुगम् ॥ 036c
स्वभावश्चैव नारीणां नराणामिह दूषणम् । 037a
अत्यर्थं न प्रसज्जन्ते प्रमदासु विपश्चितः ॥ 037c
युधिष्ठिर उवाच । 038
वर्णापेतमविज्ञाय नरं कलुषयोनिजम् । 038a
आर्यरूपमिवानार्यं कथं विद्यामहे वयम् ॥ 038c
भीष्म उवाच । 039
योनिसङ्कलुषे जातं नानाभावसमन्वितम् । 039a
कर्मभिः सज्जनाचीर्णैर्विज्ञेयाः शुद्धयोनिकाः ॥ 039c
अनार्यत्वमनाचारः क्रूरत्वं निष्क्रियात्मता । 040a
पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥ 040c
पित्र्यं वा भजते शीलं मातृजं वा तथोभयम् । 041a
न कथञ्चन सङ्कीर्णः प्रवृतिं स्वां नियच्छति ॥ 041c
यथैव सदृसो रूपे मातावित्रोर्हि जायते । 042a
व्याघ्रबिन्दोस्तथा योनिं पुरुषः स्वां नियच्छति ॥ 042c
कुले स्रोतसि सञ्च्छन्ने यस्य स्याद्योनिसङ्करः । 043a
संश्रयत्येव तच्छीलं नरोऽल्पमथवा बहु ॥ 043c
आर्यरूपसमाचारं चरन्तं कृतके पथि । 044a
सवर्णमन्यवर्णं वा स्वशीलं शास्ति निश्चये ॥ 044c
नानावृत्तेषु भूतेषु नानाक्रमरतेषु च । 045a
जन्मवृत्तसमं लोके सुश्लिष्टं न विरज्यते ॥ 045c
शरीरमिह सत्वेन न तस्य परिकृष्यते । 046a
ज्येष्ठमध्यावरं सत्वं तुल्यसत्वं प्रमोदते ॥ 046c
ज्यायांसमपि शीलेन विहीनं नैव पूजयेत् । 047a
अपि शूद्रं च धर्मज्ञं सद्वृत्तमभिपूजयेत् ॥ 047c
आत्मानमाख्याति हि कर्मभिर्नरः सुशीलचारित्रकुलैः शुभाशुभैः । 048a
प्रनष्टमप्यात्मकुलं तथा नरः पुनः प्रकाशं कुरुते स्वकर्मतः ॥ 048c
योनिष्वेतासु सर्वासु सङ्कीर्णास्वितरासु च । 049a
यत्रात्मानं न जनयेद्बुधस्तां परिवर्जयेत् ॥ ॥ 049c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्र्यशीतितमोऽध्यायः ॥ 83 ॥
13-83-2 एतेन उक्तेन । विधिना प्रकारेण ॥ 13-83-3 शूद्राणां सेवाद्वारा यज्ञार्थत्वं न तु साक्षात् ॥ 13-83-4 मातृजात्यौ वैश्यायां वैश्योऽम्बष्ठो नाम । शूद्रायां शूद्रो निषादो नाम पारशवाख्यो भवति ॥ 13-83-5 शवस्थानतुल्याच्छूद्रात्परमुत्कृष्टम् । परोंशभाग्ब्राह्मणस्यैव पुत्र इति थ.ध.पाठः ॥ 13-83-6 तन्त्रमुपकरणम् । वयसा ज्येष्ठोऽपि पारशवो द्विजस्य त्रिवर्णजस्य यवीयान् कनीयानेवेति सम्बन्धः ॥ 13-83-9 अतः स्वपितुरविशिष्ठो नाधिकः सन्नधमः शूद्रो गुरूणां ब्राह्मणादीनां दारप्रधर्षकश्चेत् बाह्यं चाण्डालादिम् ॥ 13-83-10 विप्रायां क्षत्रियो बाह्यं सूतं स्तोमक्रियापरमिति झ.पाठः ॥ 13-83-11 वध्यानां चोरादीनां शिरश्छेदादिकार्यकारिणं वद्यघ्नम् ॥ 13-83-30 चातुर्वर्ण्यस्यैव धर्माः शास्त्रे विहिताः इतरेषां इतरेषां तु जातिभेदानां धर्मनियम इयत्ता च नास्ति ॥ 13-83-35 निहीनासु रेतःसेक न कुर्यादिति भावः ॥ 13-83-38 कलुषयोनिजं सङ्करयोनिजम् ॥ 13-83-39 नानाभावैरार्येभ्यः पृथग्भूताभिश्चेष्टाभिः समन्वितं नरं सङ्करयोनिजं जानीयात् ॥ 13-83-41 प्रकृतिं योनिम् । नियच्छति गूहितुं न शक्नोतीत्यर्थः ॥ 13-83-42 यथा तिर्यक्स्थावरादिकं बीजगुणं न त्यजत्येवं मनुष्योऽपीत्यर्थः ॥ 13-83-43 सञ्चन्ने सुगुप्तेऽपि यस्य जन्मनीति शेषः । सः तच्छीलं सङ्करकर्तुः स्वभावम् ॥ 13-83-46 तस्य सङ्करजस्य शरीरं सत्वेन शास्त्रीयबुद्ध्या न परिकृष्यते न नीचमार्गादपकृष्यते । बीजगुणस्य प्राबल्यात् ॥