अध्यायः 082
भीष्मेण युधिष्ठिरं प्रति ब्राह्मणादीनां दायविभजनविधिनिरूपणम् ॥ 1 ॥
युधिष्ठिर उवाच । 001
सर्वशास्त्रविधानज्ञ राजधर्मविदुत्तम । 001a
अतीव संशयच्छेत्ता भवान्वै प्रथितः क्षितौ ॥ 001c
कश्चित्तु संशयो मेऽस्ति तन्मे ब्रूहि पितामह । 002a
'अस्यामापदि कष्टायामन्यं पृच्छाम कं वयम्' ॥ 002c
जातेऽस्मिन्संशये राजन्नान्यं पृच्छेम कञ्चन ॥ 002e
यथा नरेण कर्तव्यं धर्ममार्गानुवर्तिना । 003a
एतत्सर्वं महाबाहो भवान्व्याख्यातुमर्हति ॥ 003c
चतस्रो विहिता भार्या ब्राह्मणस्य पितामह । 004a
ब्राह्मणी क्षत्रिया वैश्या शूद्रा च रतिमिच्छतः ॥ 004c
तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम । 005a
आनुपूर्व्येण कस्तेषां पित्र्यं दायाद्यमर्हति ॥ 005c
केन वा किं ततो हार्यं पितृवित्तात्पितामह । 006a
एतदिच्छामि कथितं विभागस्तेषु कः स्मृतः ॥ 006c
भीष्म उवाच । 007
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः । 007a
एतेषु विहितो धर्मो ब्राह्मणस्य युधिष्ठिर ॥ 007c
वैषम्यादथवा लोभात्कामाद्वाऽपि परन्तप । 008a
ब्राह्मणस्य भवेच्छूद्रा न तु दृष्टा न तु स्मृता ॥ 008c
शूद्रां शयनमारोप्य ब्राह्मणि यात्यधोगतिम् । 009a
प्रायश्चित्तीयते चापि विधिदृष्टेन कर्मणा ॥ 009c
तत्र जातेष्वपत्येषु द्विगुणं स्याद्युधिष्ठिर । 010a
अतस्ते नियमं वित्ते सम्प्रवक्ष्यामि भारत ॥ 010c
लक्षण्यं गोवृषो यानं यत्प्रधानतमं भवेत् । 011a
ब्राह्मण्यास्तद्धरेत्पुत्र एकांशं वै पितुर्धनात् ॥ 011c
शेषं तु दशधा कार्यं ब्राह्मणस्वं युधिष्ठिर । 012a
तत्र तेनैव हर्तव्याश्चत्वारोंशाः पितुर्धनात् ॥ 012c
क्षत्रियायास्तु यः पुत्रो ब्राह्मणः सोप्यसंशयः । 013a
स तु मातुर्विशेषेण त्रीनंशान्हर्तुमर्हति ॥ 013c
वर्णे तृतीये जातस्तु वैश्यायां ब्राह्मणादपि । 014a
द्विरंशस्तेन हर्तव्यो ब्राह्मणस्वाद्युधिष्ठिर ॥ 014c
शूद्रायां ब्राह्मणाज्जातो नित्यादेयधनः स्मृतः । 015a
अल्पं चापि प्रदातव्यं शूद्रापुत्राय भारत ॥ 015c
दशधा प्रविभक्तस्य धनस्यैव भवेत्क्रमः । 016a
सवर्णासु तु जातानां समान्भागान्प्रकल्पयेत् ॥ 016c
अब्राह्मणं तु मन्यन्ते शूद्रापुत्रमनैपुणात् । 017a
त्रिषु वर्णेषु जातो हि ब्राह्मणाद्ब्राह्मणो भवेत् ॥ 017c
स्मृताश्च वर्णाश्चत्वारः पञ्चमो नाधिगम्यते । 018a
हरेच्च दशमं भागं शूद्रापुत्रः पितुर्धनात् ॥ 018c
तत्तु दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति । 019a
अवश्यं हि धनं देयं शूद्रापुत्राय भारत ॥ 019c
आनृशंस्यं परो धर्म इति तस्मै प्रदीयते । 020a
यत्र तत्र समुत्पन्नं गुणायैवोपपद्यते ॥ 020c
यद्यप्येष सुपुत्रः स्यादपुत्रो यदि वा भवेत् । 021a
नाधिकं दशमाद्दद्याच्छूद्रापुत्राय भारत ॥ 021c
'स्मृत एकश्चतुर्भागः कन्याभागस्तु धर्मतः । 022a
अभ्रातृका समग्राहा चार्धास्येत्यपरे विदुः ॥' 022c
त्रैवार्षिकाद्यदा भक्तादधिकं स्याद्द्विजस्य तु । 023a
यजेत तेन द्रव्येण न वृथा साधयेद्धनम् ॥ 023c
त्रिसहस्रपरो दायः स्त्रियै देयो धनस्य वै । 024a
भर्त्रा तच्च धनं दत्तं यथार्हं भोक्तुमर्हति ॥ 024c
स्त्रीणां तु पतिदायाद्यमुपभोगफलं स्मृतम् । 025a
नापहारं स्त्रियः कुर्युः पितृवित्तात्कथञ्चन ॥ 025c
स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं युधिष्ठिर । 026a
ब्राह्मण्यास्तद्धरेत्कन्या यथा पुत्रस्तथाऽस्य सा ॥ 026c
सा हि पुत्रसमा राजन्विहिता कुरुनन्दन । 027a
एवमेव समुद्दिष्टो धर्मो वै भरतर्षभ । 027c
एवं धर्ममनुस्मृत्य न वृथा साधयेद्धनम् ॥ 027e
युधिष्ठिर उवाच । 028
शूद्रायां ब्राह्मणाज्जातो यद्यदेयधनः स्मृतः । 028a
केन प्रतिविशेषेण दशमोऽप्यस्य दीयते ॥ 028c
ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न संशयः । 029a
क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि ॥ 029c
कस्मात्तु विषमं भागं भजेरन्नृपसत्तम । 030a
यदा सर्वे त्रयो वर्णास्त्वयोक्ता ब्राह्मणा इति ॥ 030c
भीष्म उवाच । 031
दारा इत्युच्यते लोके नाम्नैकेन परन्तप । 031a
प्रोक्तेन चैव नाम्नाऽयं विशेषः सुमहान्भवेत् ॥ 031c
तिस्रः कृत्वा पुरो भार्याः पश्चाद्विन्देत ब्राह्मणीम् । 032a
सा ज्येष्ठा सा च पूज्या स्यात्सा च ताभ्यो गरीयसी 032c
स्नानं प्रसाधनं भर्तुर्दन्तधावनमुञ्जनम् । 033a
हव्यं कव्यं च यच्चान्यद्धर्मयुक्तं गृहे भवेत् ॥ 033c
न तस्यां जातु तिष्ठन्त्यामन्या तत्कर्तुमर्हति । 034a
ब्राह्मणीत्वेव कुर्याद्वा ब्राह्मणस्य युधिष्ठिर ॥ 034c
अन्नं पानं च माल्यं च वासांस्याभरणानि च । 035a
ब्राह्मण्यैतानि देयानि भर्तुः सा हि गरीयसी ॥ 035c
मनुनाऽभिहितं शास्त्रं यच्चापि कुरुनन्दन । 036a
तत्राप्येष महाराज दृष्टो धर्मः सनातनः ॥ 036c
अथ चेदन्यथा कुर्याद्यदि कामाद्युधिष्ठिर । 037a
यथा ब्राह्मणचाण्डालः पूर्वदृष्टस्तथैव सः ॥ 037c
ब्राह्मण्याः सदृशः पुत्रः क्षत्रियायाश्च यो भवेत् । 038a
राजन्विशेषो यस्त्वत्र वर्णयोरुभयोरपि ॥ 038c
न तु जात्या समा लोके ब्राह्मण्याः क्षत्रिया भवेत् । 039a
ब्राह्मण्याः प्रथमः पुत्रो भूयान्स्याद्राजसत्तम ॥ 039c
भूयो भूयोपि संहार्यः पितृवित्ताद्युधिष्ठिर । 040a
यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत् ॥ 040c
क्षत्रियायास्तथा वैश्या न जातु सदृशी भवेत् । 041a
श्रीश्च राज्यं च कोशश्च क्षत्रियाणां युधिष्ठिर ॥ 041c
विहितं दृश्यते राजन्सागरान्तां च मेदिनीम् । 042a
क्षत्रियो हि स्वधर्मेण श्रियं प्राप्नोति भूयसीम् । 042c
राजा दण्डधरो राजन्रक्षा नान्यत्र क्षत्रियात् ॥ 042e
ब्राह्मणा हि महाभाग देवानामपि देवताः । 043a
तेषु राजा प्रवर्तेत पूजया विधिपूर्वकम् ॥ 043c
प्रणीतमृषिभिर्ज्ञात्वा धर्मं शाश्वतमव्ययम् । 044a
लुप्यमानं स्वधर्मेण क्षत्रियो रक्षति प्रजाः ॥ 044c
दस्युभिर्ह्रियमाणं च धनं दारांश्च सर्वशः । 045a
सर्वेषामेव वर्णानां त्राता भवति पार्थिवः ॥ 045c
भूयान्स्यात्क्षत्रियापुत्रो वैश्यापुत्रान्न संशयः । 046a
भूयस्तेनापि हर्तव्यं पितृवित्ताद्युधिष्ठिर ॥ 046c
युधिष्ठिर उवाच । 047
उक्तं ते विधिवद्राजन्ब्राह्मणस्य पितामह । 047a
इतरेषां तु वर्णानां कथं वै नियमो भवेत् ॥ 047c
भीष्म उवाच । 048
क्षत्रियस्यापि भार्ये द्वे विहिते कुरुनन्दन । 048a
तृतीया च भवेच्छूद्रा न तु दृष्टा न तु स्मृता ॥ 048c
एष एव क्रमो हि स्यात्क्षत्रियाणां युधिष्ठिर । 049a
अष्टधा तु भवेत्कार्यं क्षत्रियस्वं जनाधिप ॥ 049c
क्षत्रियाया हरेत्पुत्रश्चतुरोंशान्पितुर्धनात् । 050a
युद्धावहारिकं यच्च पितुः स्यात्स हरेत्तु तत् ॥ 050c
वैश्यापुत्रस्तु भागांस्त्रीञ्शूद्रापुत्रस्तथाष्टमम् । 051a
सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति ॥ 051c
एकैव हि भवेद्भार्या वैश्यस्य कुरुनन्दन । 052a
द्वितीया तु भवेच्छूद्रा न तु दृष्टा न तु स्मृता ॥ 052c
वैश्यस्य वर्तमानस्य वैश्यायां भरतर्षभ । 053a
शूद्रायां चापि कौन्तेय तयोर्विनियमः स्मृतः ॥ 053c
पञ्चधा तु भवेत्कार्यं वैश्यस्वं भरतर्षभ । 054a
तयोरपत्ये वक्ष्यामि विभागं च जनाधिप ॥ 054c
वैश्यापुत्रेण हर्तव्याश्चत्वारोंशाः पितुर्धनात् । 055a
पञ्चमस्तु स्मृतो भागः शूद्रापुत्राय भारत ॥ 055c
सोपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति । 056a
त्रिभिर्वर्णैः सदा जातः शूद्रो देयधनो भवेत् ॥ 056c
शूद्रस्य स्यात्सवर्णैव भार्या नान्या कथञ्चन । 057a
समभागाश्च पुत्राः स्युर्यदि पुत्रशतं भवेत् ॥ 057c
जातानां समवर्णायाः पुत्राणामविशेषतः । 058a
सर्वेषामेव वर्णानां समभागो धनात्स्मृतः ॥ 058c
ज्येष्ठस्य भागो ज्येष्ठः स्यादेकांशो यः प्रधानतः । 059a
एष दायविधिः पार्थ पूर्वमुक्तः स्वयम्भुवा ॥ 059c
समवर्णासु जातानां विशेषोऽस्त्यपरो नृप । 060a
विवाहवैशिष्ट्यकृतः पूर्वपूर्वो विशिष्यते ॥ 060c
हरेज्ज्येष्ठः प्रधानांशमेकभार्यासुतेष्वपि । 061a
मध्यमो मध्यमं चैव कनीयांस्तु कनीयसम् ॥ 061c
एवं जातिषु सर्वासु सवर्णः श्रेष्ठतां गतः । 062a
महर्षिरपि चैतद्वै मारीचः काश्यपोऽब्रवीत् ॥ ॥ 062c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्व्यशीतितमोऽध्यायः ॥ । 82 ॥
13-82-3 एवमृत्विगात्मस्त्रीशुद्धिमुक्त्वा धनशुद्ध्यर्थं दायविभागं प्रस्तौति ॥ 13-82-4 रतिमिच्छत एव विहिता नतु धर्मम् ॥ 13-82-6 किं कियत्प्रमाणम् ॥ 13-82-9 प्रायश्चित्तमात्मन इच्छति प्रायश्चित्तीयते ॥ 13-82-10 द्विगुणं प्रायश्चित्तम् ॥ 13-82-11 एकांशं मुख्यांशम् ॥ 13-82-12 तेनैव ब्राह्मणीपुत्रेणैव ॥ 13-82-20 समुत्पन्नं आनृशंस्यम् ॥ 13-82-23 वृथा यज्ञादिप्रयोजनं विना न साधयेत् ॥ 13-82-24 स्त्रियोऽधिको दायो न देय इत्यर्थः । तच्चतुर्धा धनं दत्तं नादत्तं भोक्तुमर्हतीति थ.ध. पाठः ॥ 13-82-25 कुर्युः पुत्रा इति शेषः । पतिवित्तात्कथञ्चनेति झ.पाठः । पतिवितात्पत्या दत्ताद्वित्तात् ॥ 13-82-27 धर्मो विभागप्रकारः । वृथा अन्यायेन ॥ 13-82-31 आद्रियन्ते त्रिवर्गार्थिभिरिति दारपदप्रवृत्तिनिमित्तमादरः । यतश्च भर्त्रा आदरस्तासु वर्णक्रमेण यथायोग्यं तारतम्यक्रमेण क्रियत इति तात्पुत्राणां भागवैषम्यं चास्तीत्यभिप्रायः ॥ 13-82-40 भूयो भूयोपि अधिकमधिकम् ॥ 13-82-47 उक्तं दायविभागादि ॥ 13-82-50 युद्धेऽवहियते तद्रथगजायुधकवचादिकं युद्धावहारिकम् ॥ 13-82-53 सवर्णाज्येष्ठतां गतेति थ.ध.पाठः ॥