अध्यायः 081

भीष्मेण युधिष्ठिरं प्रति स्त्रीणां प्रशंसनम् ॥ 1 ॥

भीष्म उवाच । 001
प्राचेतसस्य वचनं कीर्तयन्ति पुराविदः । 00a
यस्याः किञ्चिन्नाददते ज्ञातयो न स विक्रयः ॥ 001c
अर्हणं तत्कुमारीणामानृशंस्यं व्रतं च तत् । 002a
सर्वं च प्रतिदेयं स्यात्कन्यायै तदशेषतः ॥ 002c
पितृभिर्भ्रातृभिश्चापि श्वशुरैरथ देवरैः । 003a
पूज्या लालयितव्याश्च बहुकल्याणमीप्सुभिः ॥ 003c
यदि वै स्त्री न रोचेत पुमांसं न प्रमोदयेत् । 004a
अप्रमोदात्पुनः पुंसः प्रजनो न प्रवर्धते ॥ 004c
पूज्या लालयितव्याश्च स्त्रियो नित्यं जनाधिप । 005a
स्त्रियो यत्र च पूज्यन्ते रमन्ते तत्र देवताः ॥ 005c
अपूजिताश्च यत्रैताः सर्वास्तत्राफलाः क्रियाः । 006a
तदा चैतत्कुलं नास्ति यदा शोचन्ति जामयः ॥ 006c
जामीशप्तानि गेहानि निकृत्तानीव कृत्यया । 007a
नैव भान्ति न वर्धन्ते श्रिया हीनानि पार्थिव ॥ 007c
स्त्रियः पुंसां परिददौ मनुर्जिगमिषुर्दिवम् । 008a
अबलाः स्वल्पकौपीनाः सुहृदः सत्यजिष्णवः ॥ 008c
ईर्षवो मानकामाश्च चण्डाश्च सुहृदोऽबुधाः । 009a
स्त्रियस्तु मानमर्हन्ति ता मानयत मानवाः ॥ 009c
स्त्रीप्रत्ययो हि वै धर्मो रतिभोगाश्च केवलाः । 010a
परिचर्या नमस्कारास्तदायत्ता भवन्तु वः ॥ 010c
उत्पादनमपत्यस्य जातस्य परिपालनम् । 011a
प्रीत्यर्थं लोकयात्रायाः पश्यत स्त्रीनिबन्धनम् ॥ 011c
सम्मान्यमानाश्चैता हि सर्वकार्याण्यवाप्स्यथ । 012a
विदेहराजदुहिता चात्र श्लोकमगायत ॥ 012c
नास्ति यज्ञः स्त्रियाः कश्चिन्न श्राद्धं नोप्रवासकम् । 013a
धर्मः स्वभर्तृशुश्रूषा तया स्वर्गं जयन्त्युत ॥ 013c
पिता रक्षति कौमारे भर्ता रक्षति यौवने । 014a
पुत्राश्च स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥ 014c
श्रिय एताः स्त्रियो नाम सत्कार्या भूतिमिच्छता । 015a
लालिताऽनुगृहीता च श्रीः स्त्री भवति भारतः ॥ ॥ 015c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकाशीतितमोऽध्यायः ॥ 81 ॥

13-81-1 प्राचेतसस्य दक्षस्य । ज्ञातयः कन्यापक्षीयाः । स्वयं नाददतेऽथ च कन्यालङ्कारर्थमिच्छन्ति स विक्रयो न भवतीत्यर्थ ॥ 13-81-4 न रोचेत न कामयेत । न प्रमोदयेत्कामुकं न कुर्यात् । प्रजनः सन्ततिः ॥ 13-81-8 स्वल्प ईषदायासेन अपनेयः कौपीनो गुह्याच्छादनपटो यासाम् । सद्योहार्या इत्यर्थः । सुहृदः सौहार्दयुक्ताः ॥ 13-81-9 बुध्यन्त इत्यबुधाः ॥ 13-81-10 स्त्रीप्रत्ययः स्त्रीहेतुकः ॥ 13-81-12 अत्र स्त्रीधर्मविषये ॥ 0