अध्यायः 079

भीष्मेण युधिष्ठिरं प्रति विवाहविभागकथनम् ॥ 1 ॥ तथा कन्यानां भार्यात्वप्रापकविध्यादिनिरूपणम् ॥ 2 ॥

युधिष्ठिर उवाच । 001
यन्मूलं सर्वधर्माणां प्रजनस्य गृहस्य च । 001a
पितृदेवातिथीनां च तन्मे ब्रूहि पितामह ॥ 001c
अयं हि सर्वधर्माणां धर्मश्चिन्त्यतमो मतः । 002a
कीदृशाय प्रदेया स्यात्कन्येति वसुधाधिप ॥ 002c
भीष्म उवाच । 003
शीलवृत्ते समाज्ञाय विद्यां योनिं च कर्म च । 003a
अद्भिरेव प्रदातव्या कन्या गुणवते भवेत् । 003c
ब्राह्मणानां सतामेष नित्यं धर्मो युधिष्ठिर ॥ 003e
आवाह्यमावहेदेवं यो दद्यादनुकूलतः । 004a
शिष्टानां क्षत्रियाणां च धर्म एष सनातनः ॥ 004c
आत्माभिप्रेतमुत्सृज्य कन्याभिप्रेत एष यः । 005a
अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर । 005c
गान्धर्वमिति तं धर्मं प्राहुर्वेदविदो जनाः ॥ 005e
धनेन बहुधा क्रीत्वा सम्प्रलोभ्य च बान्धवान् । 006a
असुराणां नृपैतं वै धर्ममाहुर्मनीषिणः ॥ 006c
हत्वा छित्त्वा च शीर्षाणि रुदतां रुदतीं गृहात् । 007a
प्रसह्य हरणं तात राक्षसो विधिरुच्यते ॥ 007c
'सुप्तां मत्तां प्रमत्तां वा रहो रात्रौ च गच्छति । 008a
स पापिष्ठो विवाहानां पैशाचः कथितोऽधमः ॥ 008c
पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ युधिष्ठिर । 009a
पैशाचश्चासुरश्चैव न कर्तव्यौ कथञ्चन ॥ 009c
ब्राह्मः क्षात्रोऽथ गान्धर्व एते धर्म्या नरर्षभ । 010a
पृथग्वा यदि वा मिश्राः कर्तव्या नात्र संशयः ॥ 010c
तिस्त्रो भार्या ब्राह्मणस्य द्वे भार्ये क्षत्रियस्य तु । 011a
वैश्यः स्वजात्यां विन्देत तास्वपत्यं हिताय हि ॥ 011c
द्विजस्य ब्राह्मणी श्रेष्ठा क्षत्रिया क्षत्रियस्य तु । 012a
रत्यर्थमपि शूद्रा स्यान्नेत्याहुरपरे जनाः ॥ 012c
अपत्यजन्म शूद्रायां न प्रशंसन्ति साधवः । 013a
शूद्रायां जनयविन्प्रः प्रायश्चित्ती विधीयते ॥ 013c
'नातिबालां वहन्त्यन्ते अनित्यत्वात्प्रजार्थिनः । 014a
वहन्ति कर्मिणस्तस्यामन्तः शुद्धिव्यपेक्षया ॥ 014c
अपरान्वयसम्भूतां संस्वप्नादिविवर्जिताम् । 015a
कामो यस्यां निषिद्धश्च केचिदिच्छन्ति चापदि ॥ 015c
त्रिंशद्वर्षो दशवर्षां भार्यां विन्देत नग्निकाम् । 016a
एकविंशतिवर्षो वा सप्तवर्षामवाप्नुयात् ॥ 016c
यस्यास्तु न भवेद्भ्राता पिता वा भरतर्षभ । 017a
नोपयच्छेत तां जातु पुत्रिकाधर्मिणी हि सा ॥ 017c
त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती । 018a
चतुर्थेऽत्वथ सम्प्राप्ते स्वयं भर्तारमर्जयेत् ॥ 018c
प्रजा न हीयते तस्या रतिश्च भरतर्षभ । 019a
अतोऽन्यथा वर्तमाना भवेद्वाच्या प्रजापतेः ॥ 019c
असपिण्डा च या मातुरसगोत्रा च या पितुः । 020a
इत्येतामुपयच्छेत तं धर्मं मनुरब्रवीत् ॥ 020c
युधिष्ठिर उवाच । 021
शुल्कमन्येन दत्तं स्याद्ददानीत्याह चापरः । 021a
बलादन्यः प्रभाषेत धनमन्यः प्रदर्शयेत् ॥ 021c
पाणिग्रहीता चान्यः स्यात्कस्य भार्या पितामह । 022a
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ॥ 022c
भीष्म उवाच । 023
यत्किञ्चित्कर्म मानुष्यं संस्थानाय प्रदृश्यते । 023a
मन्त्रवन्मन्त्रितं तस्य मृषावादस्तु पातकः ॥ 023c
भार्यापत्यृत्विगाचार्याः शिष्योपाध्याय एव च । 024a
मृषोक्ते दण्डमर्हन्ति नेत्याहुरपरे जनाः ॥ 024c
नह्यकामेन संवादं मनुरेवं प्रशंसति । 025a
अयशस्यमधर्म्यं च यन्मृषा धर्मगोपनम् ॥ 025c
नैकान्तो दोष एकस्मिंस्तदा केनोपपद्यते । 026a
धर्मतो यां प्रयच्छन्ति यां च क्रीणन्ति भारत ॥ 026c
बन्धुभिः समनुज्ञाते मन्त्रहोमौ प्रयोजयेत् । 027a
तथा सिध्यन्ति ते मन्त्रा नादत्तायाः कथञ्चन ॥ 027c
यस्त्वत्र मन्त्रसमयो भार्यापत्योर्मिथः कृतः । 028a
तमेवाहुर्गरीयांसं यश्चासौ ज्ञातिभिः कृतः ॥ 028c
देवदत्तां पतिर्भार्यां वेत्ति धर्मस्य शासनात् । 029a
स दैवीं मानुषीं वाचमनृतां पर्युदस्यति ॥ 029c
युधिष्ठिर उवाच । 030
कन्यायां प्राप्तसुल्कायां ज्यायांश्चेदाव्रजेद्वरः । 030a
धर्मकामार्थसम्पन्नो वाच्यमत्रानृतं न वा ॥ 030c
तस्मिन्नुभयतो दोषे कुर्वञ्श्रेयः समाचरेत् । 031a
अयं नः सर्वधर्माणां धर्मश्चिन्त्यतमो मतः ॥ 031c
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् । 032a
तदेतत्सर्वमाचक्ष्व न हि तृप्यामि कथ्यताम् ॥ 032c
भीष्म उवाच । 033
नैव निष्ठाकरं शुल्कं ज्ञात्वाऽऽसीत्तेन नानृतम् । 033a
न हि शुल्कपराः सन्तः कन्यां ददति कर्हिचित् । 033c
अन्यैर्गुणैरुपेतं तु शुल्कं याचन्ति बान्धवाः ॥ 033e
अलङ्कृत्वा वहस्वेति यो दद्यादनुकूलतः । 034a
यच्च तां च ददत्येवं न शुल्कं विक्रयो न सः । 034c
प्रतिगृह्य भवेद्देमेव धर्मः सनातनः ॥ 034e
दास्यामि भवते कन्यामिति पूर्वं न भाषितम् । 035a
ये चाहुर्ये च नाहुर्ये ये चावश्यं वदन्त्युत ॥ 035c
तस्मादाग्रहणात्पाणेर्याचयन्ति परस्परम् । 036a
कन्यावरः पुरा दत्तो मरुद्भिरिति नः श्रुतम् ॥ 036c
नानिष्टाय प्रदातव्या कन्या इत्यृषिचोदितम् । 037a
तन्मूलं काममूलस्य प्रजनस्येति मे मतिः ॥ 037c
समीक्ष्य च बहून्दोषान्संवासाद्विद्धि पाणयोः । 038a
यथा निष्ठाकरं शुल्कं न जात्वासीत्तथा शृणु ॥ 038c
अहं विचित्रवीर्यस्य द्वे कन्ये समुदावहम् । 039a
जित्वाऽङ्गमागधान्सर्वान्काशीनथ च कोसलान् ॥ 039c
गृहीतपाणिरेकाऽऽसीत्प्राप्तशुल्काऽपराऽभवत् । 040a
कन्याऽगृहीता तत्रैव विसर्ज्या इति मे पिता । 040c
अब्रवीदितरां कन्यामावहेति स कौरवः ॥ 040e
अप्यन्याननुपप्रच्छ शङ्कमानः पितुर्वचः । 041a
अतीव ह्यस्य धर्मेच्छा पितुर्मेऽभ्यधिकाऽभवत् ॥ 041c
ततोहमब्रवं राजन्नाचारेप्सुरिदं वचः । 042a
आचारं तत्त्वतो वेत्तुमिच्छामि च पुनः पुनः ॥ 042c
ततो मयैवमुक्ते तु वाक्ये धर्मभृतांवरः ॥ 043a
पिता मम महाराज बीह्लीको वाक्यमब्रवीत् ॥ 043c
यदि व शुल्कतो निष्ठा न पाणिग्रहणात्तथा । 044a
लाजान्तरमुपासीत प्राप्तशुल्क इति स्मृतिः ॥ 044c
न हि धर्मविदः प्राहुः प्रमाणं वाक्यतः स्मृतम् । 045a
येषां वै शुल्कतो निष्ठा न पाणिग्रहणात्तथा ॥ 045c
प्रसिद्धं भाषितं दाने नैषां प्रत्यायकं पुनः । 046a
ये मन्यन्ते क्रयं शुल्कं न ते धर्मविदो नराः ॥ 046c
न चैतेभ्यः प्रदातव्या न वोढव्या तथा विधा । 047a
न ह्येव भार्या क्रेतव्या न विक्रय्यां कथञ्चन ॥ 047c
ये च क्रीणन्ति दासीवद्विक्रीणन्ति तथैव च । 048a
भवेत्तेषां तथा निष्ठा लुब्धानां पापचेतसाम् ॥ 048c
अस्मिन्नर्थे सत्यवन्तं पर्यपृच्छन्त वै जनाः । 049a
कन्यायाः प्राप्तशुल्कायाः शुल्कदः प्रशमं गतः ॥ 049c
पाणिग्रहीता वाऽन्यः स्यादत्र नो धर्मसंशयः । 050a
तन्नश्छिन्धि महाप्राज्ञ त्वं हि वै प्राज्ञसम्मतः ॥ 050c
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् । 051a
तानेवं ब्रुवतः सर्वान्सत्यवान्वाक्यमब्रवीत् ॥ 051c
यत्रेष्टं तत्र देया स्यान्नात्र कार्या विचारणा । 052a
कुर्वते जीवतोप्येवं मृते नैवास्ति संशयः ॥ 052c
देवरं प्रविशेत्कन्या तप्येद्वाऽपि तपः पुनः । 053a
तमेवानुगता भूत्वा पाणिग्राहस्य नाम सा ॥ 053c
लिखन्त्येव तु केषाञ्चिदपरेषां शनैरपि । 054a
इति ये संवदन्त्यत्र त एतं निश्चयं विदुः ॥ 054c
तत्पाणिग्रहणात्पूर्वमन्तरं यत्र वर्तते । 055a
सर्वमङ्गलमन्त्रं वै मृषावादस्तु पातकः ॥ 055c
पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे । 056
पाणिग्रहस्य भार्या स्याद्यस्य चाद्भिः प्रदीयते ॥ 056
इति देयं वदन्त्यत्र त एतं निश्चयं विदुः । 057
अनुकूलामनुवशां भ्रात्रा दत्तामुपाग्निकाम् । 057
परिक्रम्य यथान्यायं भार्यां विन्देद्द्विजोत्तमः ॥ ॥ 057

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनाशीतितमोऽध्यायः ॥

13-79-3 योनि मातृतः पितृतश्च शुद्धिम् । अयं ब्राह्मः प्रथमो विवाहः ॥ 13-79-4 एवं उक्तगुणवन्तं आवाह्यं विवाहयोग्यं आवहेत् आकारयेत् । ततश्च अनुकूलतो धनदानादिना अभिमुखीकृताय दद्यात् । अयं प्राजापत्यो नाम द्वितीयो विप्राणां क्षत्रियाणां च प्रशस्ततरः ॥ 13-79-6 आसुरं चतुर्थमाह धनेनेति ॥ 13-79-7 हत्वेति राक्षसः पञ्चमः । अत्रैव प्रमत्तानां बन्धूनां कन्याहरणात् पैशाचो हरणसामान्यादन्तर्भवति ॥ 13-79-13 नग्निकां एकवाससम् । अजातस्त्रीव्यञ्जनामिति यावत् ॥ 13-79-17 पुत्रिकाधर्मिणी यस्याः पिता इयमेव दुहिता मम पुत्रस्थाने इत्यभिप्रायवान्न वेति न ज्ञायते सा ॥ 13-79-19 वाच्या निन्द्या । प्रजनो हीयते इति ध. पाठः ॥ 13-79-23 संस्थानाय व्यवस्थार्थं मन्त्रवन्मन्त्रितं विचारवद्भिः सर्वैरेकीभूय मन्त्रितमियमस्मै देयेति विचारितम् । तस्य मृषाकरणं पातकः पातयितुं भवतीत्यर्थः । मृषावादस्त्वपातकमिति थ. ध. पाठः ॥ 13-79-25 तत्र नेति पक्षं निन्दति नहीति ॥ 13-79-28 यद्यपि ज्ञातिभिः कृतः समयो गुरुस्तथापि मन्त्रपूर्वकः समयो गुरुतर इत्यर्थः ॥ 13-79-29 देवः प्राक्कर्म ईश्वरो वा । वेत्ति लभते ॥ 13-79-31 दोषे सति कुर्वन् कर्ता श्रेयः प्रशस्ततरं किं समाचरेदित्यध्याहृत्य योज्यम् ॥ 13-79-32 कथ्यतामित्यादरसूचनार्था पुनरुक्तिः ॥ 13-79-33 गुणैर्वयोधिकत्वादिभिः ॥ 13-79-34 कन्यार्थालङ्कारग्रहणे न दोषोऽस्तीत्याह अलङ्कृत्वेति ॥ 13-79-35 नभाषितमित्येकपदम् । ये पूर्वं दास्यामीत्याहुर्ये च नदास्यामीत्याहुर्ये च अवश्यं दास्यामीति वदन्ति तत्सर्वं नभाषितं अनुक्तवदेवेत्यर्थः ॥ 13-79-36 यस्मादेवं तस्मात् आपाणिग्रहणात्कन्यां याचेतेति मरुतां वरस्तेन ततः पूर्वं विशिष्टवरार्थमपहारेपि न दोष इति भावः ॥ 13-79-37 तत्कन्या कामो मूलं यस्य । तस्मादुत्तमदौहित्रार्थिना श्रेयसे एव कन्या प्रदेयेति भावः ॥ 13-79-38 संवासाच्चिरपरिचयात् । पाणयोः क्रयविक्रययोः संवादे विद्विषाणयोरिति ध.पाठः ॥ 13-79-39 वीर्यमपि शुल्कं भवतीत्यभिप्रायेणाह अहमिति । अम्बिकाम्बालिकयोरेकत्वविवक्षयां द्वे इत्युक्तम् ॥ 13-79-40 प्राप्तशुल्का वीर्येण निर्जितापि कन्या अगृहीता अप्राप्तपाणिग्रहेयं अम्बा विसर्ज्या उत्स्रष्टुं योग्या इति पिता पितृव्यो बाह्लीकोऽब्रवीत् ॥ 13-79-41 अनुपप्रच्छ अनुपृष्टवानहम् ॥ 13-79-44 प्राप्तं शुल्कं येन । पाठान्तरे यस्याः सा । कन्यापिता कन्या वा लाजान्तरं वरान्तरमुपासीत इति या स्मृतिस्तर्हि बाध्येतेत्यध्याहृत्य योजना । लाजा विद्यन्ते ह्यौम्यद्रव्यमस्य स इति लाजशब्दोऽर्शआद्यच्प्रत्ययान्तः । लाजोप्तारमुपासीतेति थ.ध.पाठः ॥ 13-79-45 येषां शुल्कतो निष्ठा तेषां वाक्यतो वाक्यं प्रमाणं स्मृतमिति धर्मविदो नह्याहुरित्यन्वयः 13-79-46 लोकविरोधमप्याहार्धेन । प्रसिद्धमिति कन्याया दानमित्येवोच्यते नतु क्रयो जयो वेति । एषां शुल्कवादिनां प्रत्यायकं भार्यात्वज्ञापकं किमपि नास्ति । परिणयनादेव भार्या भवति न शुल्कमात्रादिति लोकव्यवहारस्य स्पष्टत्वादित्यर्थः ॥ 13-79-52 जीवत इत्यनादरे षष्ठी । जीवन्तमपि शुल्कदमनादृत्य शिष्टा एवं यथेष्टदानं कुर्वत इत्यर्थः ॥ 13-79-53 देवरमिति युगान्तरधर्मः ॥ 13-79-54 केषाञ्ञ्चिन्मते देवरादयः अलिखितां भ्रातृभार्या लिखन्त्येव सुरतेन योजयन्त्येव । अपरेषां मते शनैर्मन्थरा इयं प्रवृत्तिः । ऐच्छिकी नतु वैधीत्यर्थः ॥ 13-79-55 सङ्कल्पपूर्वकं दत्ताया अपि कन्याया योऽपहारस्तज्जन्यो मृषावादः पातको भवति दातुर्नतु तावन्मात्रेण तस्यां भार्यात्वमुत्पन्नमित्यर्थः ॥