अध्यायः 078

देवशर्मणा स्वशिष्यं विपुलं प्रति तद्दृष्टानां मिथुनानां षट्पुरुषाणां च क्रमेणाहोरात्रऋत्वभिमानिदवतात्वकथनम् ॥ 1 ॥ तथा स्वस्मिन्स्वदाररक्षणाय योगेन तच्छरीरप्रवेशानिवेदनस्य दुर्गतिहेतुत्वकथनम् ॥ 2 ॥ तथा तत्कृतस्वदाररक्षमपरितोषेण तद्दुरितदूरीकरणपूर्वकं तेन स्वभार्यया च सह स्वर्गे सुखविहरणम् ॥ 3 ॥

भीष्म उवाच । 001
तमागतमभिप्रेक्ष्य शिष्यं वाक्यमथाब्रवीत् । 001a
देवशर्मा महातेजा यत्तच्छृणु जनाधिप ॥ 001c
देवशर्मोवाच । 002
किं त्वया मिथुनं दृष्टं तस्मिञ्शिष्य महावने । 002a
ते त्वां जानन्ति निपुणा आत्मा च रुचिरेव च ॥ 002c
विपुल उवाच । 003
ब्रह्मर्षे मिथुनं किं तत्के च षट्पुरुषा विभो । 003a
ये मां जानन्ति तत्त्वेन यन्मां त्वं परिपृच्छसि ॥ 003c
देवशर्मोवाच । 004
यद्वै तन्मिथुनं ब्रह्मिन्नहोरात्रं हि विद्धि तत् । 004a
चक्रवत्परिवर्तेत तत्ते जानाति दुष्कृतम् ॥ 004c
ये च ते पुरुषा विप्र अक्षैर्दीव्यन्ति हृष्टवत् । 005a
ऋतूंस्तानभिजानीहि ते ते जानन्ति दुष्कृतम् ॥ 005c
न मां कश्चिद्विजानीत इति कृत्वा न विश्वसेत् । 006a
नरो रहसि पापात्मा पापकं कर्म वै द्विज ॥ 006c
कुर्वाणं हि नरं कर्म पापं रहसि सर्वदा । 007a
पश्यन्ति ऋतवश्चापि तथा दिननिशेऽप्युत ॥ 007c
तथैव हि भवेयुस्ते लोकाः पापकृतो यथा । 008a
कृत्वाऽनाचक्षतः कर्म मम तच्च यथा कृतम् ॥ 008c
ते त्वां हर्षस्मितं दृष्ट्वा गुरोः कर्मानिवेदकम् । 009a
स्मारयन्तस्तथा प्राहुस्ते यथा श्रुतवान्भवान् ॥ 009c
अहोरात्रं विजानाति ऋतवश्चापि नित्यशः । 010a
पुरुषे पापकं कर्म शुभं वाऽशुभकर्मिणः ॥ 010c
तत्त्वया मम यत्कर्म व्यभिचाराद्भयात्मकम् । 011a
नाख्यातमिति जानन्तस्ते त्वामाहुस्तथा द्विज ॥ 011c
तेनैव हि भवेयुस्ते लोकाः पापकृतो यथा । 012a
कृत्वा नाचक्षतः कर्म मम यच्च त्वया कृतम् ॥ 012c
तथाऽशक्याश्च दुर्वृत्ता रक्षितुं प्रमदा द्विज । 013a
न च त्वं कृतवान्किञ्चिदागः प्रीतोस्मि तेन ते ॥ 013c
'मनोदोषविहीनानां न दोषः स्यात्तथा तव । 014a
अन्यथाऽऽलिङ्ग्यते कान्ता स्नेहेन दुहिताऽन्यथा ॥ 014c
यतेश्च कामुकानां च योषिद्रूपेऽन्यथा मतिः । 015a
अशिक्षयैव मनसः प्रायो लोकस्तु वञ्च्यते ॥ 015c
लालेत्युद्विजते लोको वक्त्रासव इति स्पृहा । 016a
अबन्धायोग्यमनसामिति मन्त्रात्मदैवकम् ॥ 016c
न रागस्नेहलोभान्धं कर्मिणां तन्महाफलम् । 017a
निष्कषायो विशुद्धस्त्वं रुच्यावेशान्न दूषितः ॥ 017c
यदि त्वहं त्वां दुर्वृत्तमद्राक्षं द्विजसत्तम । 018a
शपेयं त्वामहं क्रोधान्न मेऽत्रास्ति विचारणा ॥ 018c
सञ्जन्ति पुरुषे नार्यः पुंसां सोऽर्थश्च पुष्कलः । 019a
अन्यथा रक्षतः शापोऽभविष्यत्ते मतिश्च मे ॥ 019c
रक्षिता च त्वया पुत्र मम चापि निवेदिता । 020a
अहं ते प्रीतिमांस्तात स्वस्थः स्वर्गं गमिष्यसि ॥ 020c
इत्युक्त्वा विपुलं प्रीतो देवशर्मा महानृषिः । 021a
मुमोद स्वर्गमास्थाय सहभार्यः सशिष्यकः ॥ 021c
इदमाख्यातवांश्चापि ममाख्यानं महामुनिः । 022a
मार्कण्डेयः पुरा राजन्गङ्गाकूले कथान्तरे ॥ 022c
तस्माद्ब्रवीमि पार्थ त्वां स्त्रियो रक्ष्याः सदैव च । 023a
उभयं दृश्यते तासु सततं साध्वसाधु च ॥ 023c
स्त्रियः साध्व्यो महाभागाः सम्मता लोकमातरः । 024a
धारयन्ति महीं राजन्निमां सवनकाननाम् ॥ 024c
असाध्व्यश्चापि दुर्वृत्ताः कुलघ्नाः पापनिश्चयाः । 025a
विज्ञेया लक्षणैर्दुष्टैः स्वगात्रसहजैर्नृप ॥ 025c
एवमेतासु रक्षा वै शक्या कर्तुं महात्मभिः । 026a
अन्यथा राजशार्दूल न शक्या रक्षितुं स्त्रियः ॥ 026c
एता हि मनुजव्याघ्र तीक्ष्णास्तीक्ष्णपराक्रमाः । 027a
नासामस्ति प्रियो नाम मैथुने सङ्गमेति यः ॥ 027c
एताः कृत्याश्च कष्टाश्च कृतघ्ना भरतर्षभ । 028a
न चैकस्मिन्नमन्त्येताः पुरुषे पाण्डुनन्दन ॥ 028c
नासु स्नेहो नरैः कार्यस्तथैवेर्ष्या जनेश्वर । 029a
खेदमास्थाय भुञ्जीत धर्ममास्थाय चैव ह । 029c
'अनृताविह पर्वादिदोषवर्जं नराधिप ॥' 029e
विहन्येतान्यथा कुर्वन्नरः कौरवनन्दन । 030a
सर्वथा राजशार्दूल युक्तः सर्वत्र युज्यते ॥ 030c
तेनैकेन तु रक्षा वै विपुलेन कृता स्त्रियाः । 031a
नान्यः शक्तस्त्रिलोकेऽस्मिन्रक्षितुं नृप योषितः ॥ ॥ 031c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टसप्ततितमोऽध्यायः ॥ 78 ॥

13-78-9 हर्षस्मितं हर्षेण गर्वितम् ॥ 13-78-12 तेनैव अनाख्यानेनैव ॥ 13-78-16 लाला वदनात्स्वतो गलज्जलधारा ॥ 13-78-25 सहजैः पीणिपादरेखादिभिः ॥ 13-78-28 कृत्याः प्राणग्राहिदेवतारूपाः ॥ 13-78-29 खेदमास्तायाऽप्रीत्या विष्टिगृहीतवत् भुञ्जीत नतु प्रीत्या । धर्मं ऋतुकालानुरोधम् ॥