अध्यायः 076
इन्द्रेण देवशर्ममुन्यसन्निधाने तद्भार्याविलोभनाय तदाश्रमाभिगमनम् ॥ 1 ॥ तथा विपुलतपोऽभिभूतेन भयात्ततो निर्गमनम् ॥ 2 ॥ विपुलेन शक्रवृत्तान्तनिवेदनतुष्टाद्गुरोर्वरग्रहणपूर्वकं तपश्चरणम् ॥ 3 ॥
भीष्म उवाच । 001
ततः कदाचिद्देवेन्द्रो दिव्यरूपवपुर्धरः । 001a
इदमन्तरमित्येवमभ्यगात्तमथाश्रमम् ॥ 001c
रूपमप्रतिमं कृत्वा लोभनीयं जनाधिपः । 002a
दर्शनीयतमो भूत्वा प्रविवेश तमाश्रमम् ॥ 002c
स ददर्श तमासीनं विपुलस्य कलेबरम् । 003a
निश्चेष्टं स्तब्धनयनं यथाऽऽलेख्यगतं तथा ॥ 003c
रुचिं च रुचिरापाङ्गीं पीनश्रोणिपयोधराम् । 004a
पद्मपत्रविशालाक्षीं सम्पूर्णेन्दुनिभाननाम् ॥ 004c
सा तमालोक्य सहसा प्रत्युत्तातुमियेष ह । 005a
रूपेण विस्मिता कोऽसीत्यथ वक्तुमिवेच्छती ॥ 005c
उत्थातुकामा तु सती विष्टव्धा विपुलेन सा । 006a
निगृहीता मनुष्येन्द्र न शशाक विचेष्टितुम् ॥ 006c
तामाबभाषे देवेन्द्रः साम्ना परमवल्गुना । 007a
त्वदर्थमागतं विद्धि देवेन्द्रं मां शुचिस्मिते ॥ 007c
क्लिश्यमानमनङ्गेन त्वत्सङ्कल्पभवेन ह । 008a
तत्पर्याप्नुहि मां सुभ्रु पुरा कालोऽतिवर्तते ॥ 008c
तमेवंवादिनं शक्रं शुश्राव विपुलो मुनिः । 009a
गुरुपत्न्याः शरीरस्थो ददर्श त्रिदशाधिपम् ॥ 009c
न शशाक च सा राजन्प्रत्युत्थातुमनिन्दिता । 010a
वक्तुं च नाशकद्राजन्विष्टब्दा विपुलेन सा ॥ 010c
आकारं गुरुपत्न्यास्तु स विज्ञाय भृगूद्वहः । 011a
निजग्राह महातेजा योगेन बलवत्प्रभो । 011c
बबन्ध योगबन्धैश्च तस्याः सर्वेन्द्रियाणि सः ॥ 011e
तां निर्विकारां दृष्ट्वा तु पुनरेव शचीपतिः । 012a
उवाच व्रीहितो राजंस्तां योगबलमोहिताम् ॥ 012c
एह्येहीति ततः सा तु प्रतिवक्तुमियेष तम् । 013a
स तां वाच्यं गुरोः पत्न्या विपुलः पर्यवर्तयत् ॥ 013c
भोः किमागमने कृत्यमिति तस्यास्तु निःसृता । 014a
वक्त्राच्छशाङ्कसदृशाद्वाणी संस्कारभूषणा ॥ 014c
वीडिता सा तु तद्वाक्यमुक्त्वा परवशा तदा । 015a
पुरन्दरश्च सन्त्रस्तो बभूव विमना भृशम् ॥ 015c
स तद्वैकृतमालक्ष्य देवराजो विशाम्पते । 016a
अवैक्षत सहस्राक्षस्तदा दिव्येन चक्षुषा ॥ 016c
स ददर्श मुनिं तस्याः शरीरान्तरगोचरम् । 017a
प्रतिबिम्बमिवादर्शे गुरुपत्न्याः शरीरगम् ॥ 017c
स तं घोरेण तपसा युक्तं दृष्ट्वा पुरन्दरः । 018a
प्रावेपत सुसन्त्रस्तो व्रीडितश्च तदा विभो ॥ 018c
विमुच्य गुरुपत्नीं तु विपुलः सुमहातपाः । 019a
स्वकलेबरमाविश्य शक्रं भीतमथाब्रवीत् ॥ 019c
अजितेन्द्रिय दुर्बुद्धे पापात्मक पुरन्दर । 020a
न चिरं पूजयिष्यन्ति देवास्त्वां मानुषास्तथा ॥ 020c
किन्नु तद्विस्मृतं शक्र न तन्मनसि ते स्थितम् । 021a
गौतमेनासि यन्मुक्तो भगाङ्कपरिचिह्नितः ॥ 021c
जाने त्वां बालिशमतिमकृतात्मानमस्थिरम् । 022a
मयेयं रक्ष्यते मूढ गच्छ पाप यथागतम् ॥ 022c
नाहं त्वामद्य मूढात्मन्दहेयं हि स्वतेजसा । 023a
कृपायमानस्तु न ते दग्धुमिच्छामि वासव ॥ 023c
स च घोरतमो धीमान्गुरुर्मे पापचेतसम् । 024a
दृष्ट्वा त्वां निर्दहेदद्य क्रोधदीप्तेन चक्षुषा ॥ 024c
नैवं तु शक्र कर्तव्यं पुनर्मान्याश्च ते द्विजाः । 025a
मा गमः ससुतामात्यः क्षयं ब्रह्मबलार्दितः ॥ 025c
अमरोस्मीति यद्बुद्धिं समास्थाय प्रवर्तते । 026a
मावमंस्था न तपसा न साध्यं नाम किञ्चन ॥ 026c
भीष्म उवाच । 027
तच्छ्रुत्वा वचनं शक्रो विपुलस्य महात्मनः । 027a
न किञ्चिदुक्त्वा व्रीडार्तस्तत्रैवान्तरधीयत ॥ 027c
मुहूर्तयाते तस्मिंस्तु देवशर्मा महातपाः । 028a
कृत्वा यज्ञं यथाकाममाजगाम स्वमाश्रमम् ॥ 028c
आगतेऽथ गुरौ राजन्विपुलः प्रियकर्मकृत् । 029a
रक्षितां गुरवे भार्यां न्यवेदयदनिन्दिताम् ॥ 029c
अभिवाद्य च शान्तात्मा स गुरुं गुरुवत्सलः । 030a
विपुलः पर्युपातिष्ठद्यथापूर्वमशङ्कितः ॥ 030c
विश्रान्ताय ततस्तस्मै सहासीनाय भार्यया । 031a
निवेदयामास तदा विपुलः शक्रकर्म तत् ॥ 031c
तच्छ्रुत्वा स मुनिस्तुष्टों विपुलस्य प्रतापवान् । 032a
बभूव शीलवृत्ताभ्यां तपसा नियमेन च ॥ 032c
विपुलस्य गुरौ वृत्तिं भक्तिमात्मनि तत्प्रभुः । 033a
धर्मे च स्थिरतां दृष्ट्वा साधुसाध्वित्यभाषत ॥ 033c
प्रतिनन्द्य च धर्मात्मा शिष्यं धर्मपरायणम् । 034a
वरेण च्छन्दयामास देवशर्मा महामतिः ॥ 034c
स्थितिं च धर्मे जग्राह स तस्माद्गुरुवत्सलः । 035a
अनुज्ञातश्च गुरुणा चचारानुत्तमं तपः ॥ 035c
तथैव देवशर्मापि सभार्यः स महातपाः । 036a
निर्भयो बलवृत्रघ्नाच्चचार विजने वने ॥ ॥ 036c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्सप्ततितमोऽध्यायः ॥ 76 ॥
13-76-20 कामात्मक पुरन्दरेति ध.पाठः ॥