अध्यायः 075
भीष्मेण युधिष्ठिरं प्रति स्त्रीणां पुरुषचित्तप्रमथनाय शक्तिशेषदानपूर्वकं ब्रह्मणा सृष्टतया तद्रक्षणस्य दुष्करत्वकथनम् ॥ 1 ॥ स्त्रीणां रक्षणस्य दुश्शकत्वे दृष्टान्ततया विपुलोपाख्यानकथनारम्भः ॥ 2 ॥ गुरुणा स्वभार्यारक्षणं नियुक्तेन विपुलनाम्ना तदर्थं योगेन तच्छरीरप्रवेशः ॥ 3 ॥
भीष्म उवाच । 001
एवमेतन्महाबाहो नात्र मिथ्याऽस्ति किञ्चन । 001a
यथा ब्रवीषि कौरव्य नारीं प्रति जनाधिप ॥ 001c
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् । 002a
यथा रक्षा कृता पूर्वं विपुलेन महात्मना ॥ 002c
प्रमदाश्च यथा सृष्टा ब्रह्मणा भरतर्षभ ॥ 003a
यदर्थं तच्च ते तात प्रवक्ष्यामि नराधिप ॥ 003c
न हि स्त्रीभ्यः परं पुत्र पापीयः किञ्चिदस्ति वै । 004a
अग्निर्हिः प्रमदा दीप्तो मायाश्च मयजा विभो । 004c
क्षुरधारा विषं सर्पो मृत्युरित्येकतः स्त्रियः ॥ 004e
प्रजा इमा महाबाहो धार्मिक्य इति नः श्रुतम् । 005a
स्वयं गच्छन्ति देवत्वं ततो देवानियाद्भयम् ॥ 005c
अथाभ्यागच्छन्देवास्ते पितामहमरिन्दम । 006a
निवेद्य मानसं चापि तूष्णीमासन्नधोमुखाः ॥ 006c
तेषामन्तर्गतं ज्ञात्वा देवानां स पितामहः । 007a
मानवानां प्रमोहार्थं कृत्या नार्योऽसृजत्प्रभुः ॥ 007c
पूर्वसर्गे तु कौन्तेय साध्व्यो नार्य इहाभवन् । 008a
असाध्व्यस्तु समुत्पन्नाः कृत्याः सर्गात्प्रजापतेः 008c
ताभ्यः कामान्यथाकामं प्रादाद्धि स पितामहः । 009a
ताः कामलुब्धाः प्रमदाः प्रामथ्नन्त नरान्सदा ॥ 009c
क्रोधं कामस्य देवेशः सहायं चासृजत्प्रभुः । 010a
असज्जन्त प्रजाः सर्वाः कामक्रोधवशङ्गताः ॥ 010c
'द्विजानां च गुरूणां च महागुरुनृपादिनाम् । 011a
क्षणस्त्रीसङ्गकामोत्था यातनाहो निरन्तरा ॥ 011c
अरक्तमनसां नित्यं ब्रह्मचर्यामलात्मनाम् । 012a
तपोदमार्चनाध्यानयुक्तानां शुद्धिरुत्तमा ॥' 012c
न च स्त्रीणां क्रियाः काश्चिदिति धर्मो व्यवस्थितः । 013a
निरिन्द्रिया ह्यशास्त्राश्च स्त्रियोऽनृतमिति श्रुतिः ॥ 013c
शय्यासनमलङ्कारमन्नपानमनार्यताम् । 014a
दुर्वाग्भावं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः ॥ 014c
न तासां रक्षणं शक्यं कर्तुं पुंसां कथञ्चन । 015a
अपि विस्वकृता तात कुतस्तु पुरुषैरिह ॥ 015c
वाचा च वधबन्धैर्वा क्लेशैर्वा विविधैस्तथा । 016a
न शक्या रक्षितुं नार्यस्ता हि नित्यमसंयताः ॥ 016c
इदं तु पुरुषव्याघ्र पुरस्ताच्छ्रुतवानहम् । 017a
यथा रक्षा कृता पूर्वं विपुलेन गुरुस्त्रियाः ॥ 017c
ऋषिरासीन्महाभागो देवशर्मेति विश्रुतः । 018a
तस्य भार्या रुचिर्नाम रूपेणासदृशी भुवि ॥ 018c
तस्या रूपेण सम्मत्ता देवगन्धर्वदानवाः । 019a
विशेषेण तु राजेन्द्र वृत्रहा पाकशासनः ॥ 019c
नारीणां चरितज्ञश्च देवशर्मा महामतिः । 020a
यथाशक्ति यथोत्साहं भार्यां तामभ्यरक्षत ॥ 020c
पुरन्दरं च जानंश्च परस्त्रीकामचारिणम् । 021a
तस्माद्यत्नेन भार्याया रक्षणं स चकार ह ॥ 021c
स कदाचिदृषिस्तात यज्ञं कर्तुमनास्तदा । 022a
भार्यासंरक्षणं कार्यं कथं स्यादित्यचिन्तयत् ॥ 022c
रक्षाविधानं मनसा स सञ्चिन्त्य महातपाः । 023a
आहूय दयितं शिष्यं विपुलं प्राह भार्गवम् ॥ 023c
यज्ञकारो गमिष्यामि रुचिं चेमां सुरेश्वरः । 024a
यतः प्रार्थयते नित्यं तां रक्षस्व यथाबलम् ॥ 024c
अप्रमत्तेन ते भाव्यं सदा प्रति पुरन्दरम् । 025a
स हि रूपाणि कुरुते विविधानि भृगूत्तम ॥ 025c
भीष्म उवाच । 026
इत्युक्तो विपुलस्तेन तपस्वी नियतेन्द्रियः । 026a
सदैवोग्रतपा राजन्नग्र्यर्कसदृशद्युतिः ॥ 026c
धर्मज्ञः सत्यवादी च तथेति प्रत्यभाषत । 027a
पुनश्चेदं महाराज पप्रच्छ प्रस्थितं गुरुम् ॥ 027c
कानि रूपाणि शक्रस्य भवन्त्यागच्छतो मुने । 028a
वपुस्तेजश्च कीदृग्वै तन्मे व्याख्यातुमर्हसि ॥ 028c
भीष्म उवाच । 029
ततः स भगवांस्तस्मै विपुलाय महात्मने । 029a
आचचक्षे यथातत्त्वं मायां शक्रस्य भारत ॥ 029c
बहुमायः स विप्रर्षे बलहा पाकशासनः । 030a
तांस्तान्विकुरुते भावान्बहूनथ मुहुर्मुहुः ॥ 030c
किरीटी वज्रधृग्धन्वी मुकुटी बद्धकुण्डलः । 031a
भवत्यथ मुहूर्तेन चण्डालसमदर्शनः ॥ 031c
शिखी जटी चीरवासाः पुनर्भवति पुत्रक । 032a
बृहच्छरीरश्च पुनश्चीरवासाः पुनः कृशः ॥ 032c
गौरं श्यामं च कृष्णं च वर्णं विकुरुते पुनः । 033a
विरूपो रूपवांश्चैव युवा वृद्धस्तथैव च ॥ 033c
'प्राज्ञो जडश्च मूकश्च ह्रस्वो दीर्घस्तथैव च । 034a
'ब्राह्मणः क्षत्रियश्चैव वैश्यः शूद्रस्तथैव च ॥ 034c
प्रतिलोमोऽनुलोमश्च भवत्यथ शतक्रतुः । 035a
शुकवायसरूपी च हंसकोकिलरूपवान् ॥ 035c
सिंहव्याघ्रगजानां च रूपं धारयते पुनः । 036a
दैवं दैत्यमथो राज्ञां वपुर्धारयतेऽपि च ॥ 036c
अकृशो मायुभग्नाङ्गः शकुनिर्विकृतस्तथा । 037a
चतुष्पाद्बहुरूपश्च पुनर्भवति बालिशः ॥ 037c
मक्षिकामशकादीनां वपुर्धारयतेऽपि च । 038a
न शक्यमस्य ग्रहणं कर्तुं विपुल केनचित् ॥ 038c
अपि विश्वकृता तात येन सृष्टमिदं जगत् । 039a
पुनरन्तर्हितः शक्रो दृश्यते ज्ञानचक्षुषा ॥ 039c
वायुभूतश्च स पुनर्देवराजो भवत्युतः । 040a
एवंरूपाणि सततं कुरुते पाकशासनः । 040c
तस्माद्विपुल यत्नेन रक्षेमां तनुमध्यमाम् ॥ 040e
यथा रुचिं नवलिहेद्देवेन्द्रो भृगुसत्तम । 041a
क्रतावुपहिते न्यस्तं हविः श्वेव दुरात्मवान् ॥ 041c
एवमाख्याय स मुनिर्यज्ञकारोऽगमत्तदा । 042a
देवशर्मा महाभागस्ततो भरतसत्तम ॥ 042c
विपुलस्तु वचः श्रुत्वा गुरोश्चिन्तामुपेयिवान् । 043a
रक्षां च परमां चक्रे देवराजान्महाबलात् ॥ 043c
किं नु शक्यं मया कर्तुं गुरुदाराभिरक्षणे । 044a
मायावी हि सुरेन्द्रोसौ दुर्धर्षश्चापि वीर्यवान् ॥ 044c
नापिधायाश्रमं शक्यो रक्षितुं पाकशासनः । 045a
उटजं वा तथा ह्यस्य नानाविधसरूपता ॥ 045c
वायुरूपेण वा शक्रो गुरुपत्नीं प्रधर्षयेत् । 046a
तस्मादिमां सम्प्रविश्य रुचिं स्थास्येहमद्य वै ॥ 046c
अथवा पौरुषेणेयं न शक्या रक्षितुं मया । 047a
बहुरूपो हि भगवाञ्छ्रूयते पाकशासनः ॥ 047c
सोहं योगबलादेनां रक्षिष्ये पाकशासनात् । 048a
गात्राणि गात्रैरस्याहं सम्प्रवेक्ष्ये हि रक्षितुम् ॥ 048c
यद्युच्छिष्टामिमां पत्नीमद्य पश्यति मे गुरुः । 049a
शप्स्यत्यसंशयं कोपाद्दिव्यज्ञानो महातपाः ॥ 049c
न चेयं रक्षितुं शक्या यथाऽन्या प्रमदा नृभिः । 050a
मायावी हि सुरेन्द्रोसावहो प्राप्तोस्मि संशयम् ॥ 050c
अवश्यं करणीयं हि गुरोरिह हि शासनम् । 051a
यदि त्वेतदहं कुर्यामाश्चर्यं स्यात्कृतं मया ॥ 051c
योगेनाथ प्रविश्येदं गुरुपत्न्याः कलेवरम् । 052a
असक्तः पद्मपत्रस्थो जलबिन्दुर्यथा चलः ॥ 052c
एवमेव शरीरेऽस्या निवत्स्यामि समाहितः । 053a
निर्मुक्तस्य रजोरूपान्नापराधो भवेन्मम ॥ 053c
यथाहि शून्यां पथिकः सभामध्यावसेत्पथि । 054a
तथाऽद्यावासयिष्यामि गुरुपत्न्याः कलेवरम् । 054c
एवमेव शरीरेऽस्य निवत्स्यामि समाहितः ॥ 054e
इत्येवं धर्ममालोक्य वेदवेदांश्च सर्वशः । 055a
तपश्च विपुलं दृष्ट्वा गुरोरात्मन एव च ॥ 055c
इति निश्चित्य मनसा रक्षां प्रति स भार्गवः । 056a
अन्वतिष्ठत्परं यत्नं यथा तच्छृणु पार्थिव ॥ 056c
गुरुपत्नीं समासीनो विपुलः स महातपाः । 057a
उपासीनामनिन्द्याङ्गी कथार्थैः समलोभयत् ॥ 057c
नेत्राभ्यां नेत्रयोरस्या रश्मिं संयोज्य रश्मिभिः । 058a
विवेश विपुलः कायमाकाशं पवनो यथा ॥ 058c
लक्षणं लक्षणेनैव वदनं वदनेन च । 059a
अविचेष्टन्नतिष्ठद्वै छायेवान्तर्गतो मुनिः ॥ 059c
ततो विष्टभ्य विपुलो गुरुपत्न्याः कलेवरम् । 060a
उवास रक्षणे युक्तो न च सा तमबुध्यत ॥ 060c
यं कालं नागतो राजन्गुरुस्तस्य महात्मनः । 061a
क्रतुं समाप्य स्वगृहं तं कालं सोऽभ्यरक्षत ॥ 061c
13-75-4 अस्ति हि प्रमदा दीप्तेति ट.थ. पाठः ॥ 13-75-13 दरिद्राश्च ह्यमन्त्रश्च स्त्रियो नित्यमिति श्रुतिरिति ध.पाठः ॥ 13-75-51 अशक्यकरणीयं हीति ध.पाठः ॥