अध्यायः 074
भीष्मेण युधिष्ठिरं प्रति स्त्रीणां दुश्चरितकथनम् ॥
युधिष्ठिर उवाच । 001
इमे वै मानवा लोके स्त्रीषु सज्जन्त्यभीक्ष्णशः । 001a
मोहेन परमाविष्टा देवदृष्टेन कर्मणा ॥ 001c
स्त्रियश्च पुरुषेष्वेव प्रत्यक्षं लोकसाक्षिकम् । 002a
अत्र मे संशयस्तीव्रो हृदि सम्परिवर्तते ॥ 002c
कथमासां नराः सङ्गं कुर्वते कुरुनन्दनः । 003a
स्त्रियो वातेषु रज्यन्ते विरज्यन्ते च ताः पुनः ॥ 003c
इति ताः पुरुषव्याघ्र कथं शक्यास्तु रक्षितुम् । 004a
प्रमदाः पुरुषेणेह तन्मे व्याख्यातुमर्हसि ॥ 004c
भीष्म उवाच । 005
एता हि स्वीयमायाभिर्वञ्चयन्तीह मानवान् । 005a
न चासां मुच्यते कश्चित्पुरुषो हस्तमागतः ॥ 005c
गावो नवतृणानीव गृह्णन्त्येता नवं नवम् ॥ 006ac
शम्बरस्य च या माया माया या नमुचेरपि । 007a
बलेः कुम्भीनसेश्चैव सर्वास्तां योषितो विदुः ॥ 007c
हसन्तं प्रहसन्त्येता रुद्रन्तं प्ररुदन्ति च । 008a
अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः ॥ 008c
'यदि जिह्वासहस्रं स्याज्जीवेच्च शरदां शतम् । 009a
अनन्यकर्मा स्त्रीदोषाननुक्त्वा निधनं व्रजेत् ॥' 009c
उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः । 010a
स्त्री बुद्ध्या न विशिष्येत तास्तु रक्ष्याः कथं नरैः ॥ 010c
अनृतं सत्यमित्याहुः सत्यं चापि तथाऽनृतम् । 011a
इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह । 011c
'दोषास्पदेऽशुचौ देहे ह्यासां सक्तास्त्वहो नराः' ॥ 011e
स्त्रीणां बुद्ध्यर्थनिष्कर्षादर्थशास्त्राणि शत्रुहन् । 012a
बृहस्पतिप्रभृतिभिर्मन्ये सद्भिः कृतानि वै ॥ 012c
सम्पूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृषु । 013a
अपास्ताश्च तथा राजन्विकुर्वन्ति मनः स्त्रियः ॥ 013c
इमाः प्रजा महाबाहो धार्मिक्य इति नः श्रुतम् ॥ 014ac
सत्कृतासत्कृताश्चापि विकुर्वन्ति मनः सदा । 015a
कस्ताः शक्तो रक्षितुं स्यादिति मे संशयो महान् ॥ 015c
तथा ब्रूहि महाभाग कुरूणां वंशवर्धन । 016a
यदि शक्या कुरुश्रेष्ठ रक्षा तासां कदाचन । 016c
कर्तुं वा कृतपूर्वं वा तन्मे व्याख्यातुमर्हसि ॥ ॥ 016e
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुःसप्ततितमोऽध्यायः ॥ 74 ॥
13-74-7 कुहकानि च वार्ष्णेय सर्वास्ता इति ट.थ.पाठः ॥ 13-74-13 एताः पूजिता धिक्कृता वा तुल्यवद्विकारं जनयन्तीत्यर्थः ॥ 13-74-14 इमाः स्त्रीरूपाः धार्मिक्य इति श्रुतं सावित्र्यादिषु दृष्टं च ॥