अध्यायः 073

भीष्मेण युधिष्ठिरं प्रति स्त्रीस्वभावप्रतिपादकनारदपञ्चचूडासंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच । 001
स्त्रीणां स्वभावमिच्छामि श्रोतुं भरतसत्तम । 001a
स्त्रियो हि मूलं दोषाणां लघुचित्ता हि ताः स्मृताः? 001c
भीष्म उवाच । 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
नारदस्य च संवादं पुंश्चल्या पञ्चचूडाया ॥ 002c
लोकाननुचरन्सर्वान्देवर्षिर्नारदः पुरा । 003a
ददर्शाप्सरसं ब्राह्मीं पञ्चचूडामनिन्दिताम् ॥ 003c
तां दृष्ट्वा चारुसर्वाङ्गीं पप्रच्छाप्सरसं मुनिः । 004a
संशयो हृदि कश्चिन्मे ब्रूहि तन्मे सुमध्यमे ॥ 004c
एवमुक्ताऽथ सा विप्रं प्रत्युवाचाथ नारदम् । 005a
विषये सति वक्ष्यामि समर्थां मन्यसे च माम् ॥ 005c
नारद उवाच । 006
न त्वामविषये भद्रे नियोक्ष्यामि कथञ्चन । 006a
स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं वरानने ॥ 006c
एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा । 007a
प्रत्युवाच न शक्ष्यामि स्त्री सती निन्दितुं स्त्रियः ॥ 007c
विदितास्ते स्त्रियो याश्च यादृशाश्च स्वभावतः । 008a
न मामर्हसि देवर्षे नियोक्तुं कार्य ईदृशे ॥ 008c
तामुवाच स देवर्षिः सत्यं वद सुमध्यमे । 009a
मृषावादे भवेद्दोषः सत्ये दोषो न विद्यते ॥ 009c
इत्युक्ता सा कृतमतिरभवच्चारुहासिनी । 010a
स्त्रीदोषाञ्शाश्वतान्सत्यान्भाषितुं सम्प्रचक्रमे ॥ 010c
कुलीना रूपवत्यश्च नाथवत्यश्च योषितः । 011a
मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद 011c
न स्त्रीभ्यः किञ्चिदन्यद्वै पापीयस्तरमस्ति वै । 012a
स्त्रियो हि मूलं दोषाणां तथा त्वमपि वेत्थ ह ॥ 012c
समाज्ञातानृद्धिमतः प्रतिरूपान्वशे स्थितान् । 013a
पतीनन्तरमासाद्य नालं नार्यः परीक्षितुम् ॥ 013c
असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो । 014a
पापीयसो नरान्यद्वै लज्जां त्यक्त्वा भजामहे ॥ 014c
स्त्रियं हि यः प्रार्थयते सन्निकर्षं च गच्छति । 015a
ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ॥ 015c
अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च । 016a
मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु ॥ 016c
नासां कश्चिदगम्योस्ति नासां वयसि निश्चयः ॥ 017a
विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते ॥ 017c
न भयान्नाप्यनुक्रोशान्नार्थहेतोः कथञ्चन । 018a
न ज्ञातिकुलसम्बन्धात्स्त्रियस्तिष्ठन्ति भर्तृषु ॥ 018c
यौवने वर्तमानानां मृष्टाभरणवाससाम् । 019a
नारीणां खैरवृत्तीनां स्पृहयन्ति कुलस्त्रियः ॥ 019c
याश्च शश्वद्बहुमता रक्ष्यन्ते दयिताः स्त्रियः । 020a
अपि ताः सम्प्रसज्जन्ते कुब्जान्धजडवामनैः ॥ 020c
पङ्गुष्वथ च देवर्षे ये चान्ये कुत्सिता नराः । 021a
स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्चिन्महामुने ॥ 021c
यदि पुंसां गतिर्ब्रह्मन्कथञ्चिन्नोपपद्यते । 022a
अप्यन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु ॥ 022c
'दुष्टाचाराः पापरता असत्या मायया वृताः । 023a
अदृष्टबुद्धिबहुलाः प्रायेणेत्यवगम्यताम् ॥ 023c
अलाभात्पुरुषाणां हि भयात्परिजनस्य च । 024a
वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः ॥ 024c
चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस्तथा । 025a
प्राज्ञस्य पुरुषस्येह यथाभावास्तथा स्त्रियः ॥ 025c
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । 026a
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥ 026c
इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम् । 027a
दृष्ट्वैव पुरुषं ह्यन्यं योनिः प्रक्लिद्यते स्त्रियाः ॥ 027c
कामानामपि दातारं कर्तारं मानसान्त्वयोः । 028a
रक्षितारं न मृष्यन्ति स्वभर्तारमसत्स्त्रियः ॥ 028c
न कामभोगान्विपुलान्नालङ्कारार्थसञ्चयान् । 029a
तथैव बहुमन्वन्ते यथा रत्यामनुग्रहम् ॥ 029c
अन्तकः शमनो मृत्युः पातालं बडबामुखम् । 030a
क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः ॥ 030c
यतश्च भूतानि महान्ति पञ्च यतश्च लोका विहिता विधात्रा । 031a
यतः पुमांसः प्रमदाश्च निर्मितास्ततश्च दोषाः प्रमदासु नारद ॥ ॥ 031c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिसप्ततितमोऽध्यायः ॥ 73 ॥

13-73-1 लघुचित्ताः वायुवत् चलचित्ताः ॥ 13-73-3 ब्राह्मीं ब्रह्मलोकस्थाम् ॥ 13-73-5 विषये वक्तुं योग्यत्वे ॥ 13-73-8 नियोक्तुं प्रश्न ईदृशे इति ट.थ.ध.पाठः ॥ 13-73-10 कृतमतिः वक्ष्यामीति कृतनिश्चयाऽभवत् ॥ 13-73-22 गतिः प्राप्तिः । अन्योन्यं कृत्रिमलिङ्गधारिण्यो भूत्वा मैथुनार्थं प्रवर्तन्ते । एतच्च लोकप्रसिद्धम् । भर्तृषु दूरस्थेषु इति शेषः । न हि तिष्ठन्ति धैर्ये इति शेषः ॥ 13-73-24 भयात्परिभवस्य चेति थ.ध. पाठः ॥ 13-73-26 काष्ठानां काष्ठैः ॥