अध्यायः 072
भीष्मेण युधिष्ठिरं प्रति पात्रलक्षणादिकथनम् ॥ 1 ॥
युधिष्ठिर उवाच । 001
अपूर्वं वा भवेत्पात्रमथवाऽपि चिरोषितम् । 001a
दूरादभ्यागतं वाऽपि किं पात्रं स्यात्पितामह ॥ 001c
भीष्म उवाच । 002
क्रिया भवति केषाञ्चिदुपांशुव्रतमुत्तमम् । 002a
यो नो याचेत यत्किञ्चित्सर्वं दद्याम इत्यपि ॥ 002c
अपीडयन्भृत्यवर्गमित्येवमनुशुश्रुम । 003a
पीडयन्भृत्यवर्गं हि आत्मानमपकर्षति ॥ 003c
अपूर्वं चापि यत्पात्रं यच्चापि स्याच्चिरोषितम् । 004a
दूरादभ्यागतं चापि तत्पात्रं न विदुर्बुधाः ॥ 004c
युधिष्ठिर उवाच । 005
अपीडया च भूतानां धर्मस्याहिंसया तथा । 005a
पात्रं विद्यामतत्त्वेन यस्मै दत्तं न सन्तपेत् ॥ 005c
भीष्म उवाच । 006
ऋत्विक्पुरोहिताचार्याः शिष्यसम्बन्धिबान्धवाः । 006a
सर्वे पूज्याश्च मान्याश्च श्रुतवन्तोऽनसूयकाः ॥ 006c
अतोऽन्यथा वर्तमानाः सर्वे नार्हन्ति सत्क्रियाम् । 007a
तस्माद्गुणैः परीक्षेत पुरुषान्प्रणिधाय वै ॥ 007c
अक्रोधः सत्यवचनमहिंसा दम आर्जवम् । 008a
अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा दमः शमः ॥ 008c
यस्मिन्नेतानि दृश्यन्ते न चाकार्याणि भारत । 009a
स्वभावतो निविष्टानि तत्पात्रं मानमर्हति ॥ 009c
तथा चिरोषितं चापि सम्प्रत्यागतमेव च । 010a
अपूर्वं चैव पूर्वं च तत्पात्रं मानमर्हति ॥ 010c
अप्रामाण्यं च वेदानां शास्त्राणां चाभिलङ्घनम् । 011a
अव्यवस्था च सर्वत्र एतन्नाशनमात्मनः ॥ 011c
भवेत्पण्डितमानी यो ब्राह्मणो वेदनिन्दकः । 012a
आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकां ॥ 012c
हेतुवादान्बुवन्सत्सु विजेताऽहेतुवादकः । 013a
आक्रोष्टा चातिवक्ता च ब्राह्मणानां सदैव हि ॥ 013c
सर्वाभिशङ्की मूढश्च बालः कटुकवागपि । 014a
बोद्धव्यस्तादृशस्तात नरं श्वानं हि तं विदुः ॥ 014c
यथा श्वा भषितुं चैव हन्तु चैवावसज्जते । 015a
एवं सम्भाषणार्थाय सर्वशास्त्रवधाय च । 015c
'अल्पश्रुताः कुतर्काश्च दृष्टाः सृष्टाः कुपण्डिताः ॥ 015e
श्रुतिस्मृती चेतिहासपुराणारण्यवेदिनः । 016a
अनुरुन्ध्याद्बहुज्ञांश्च सारज्ञाश्चैव पण्डिताः ॥' 016c
लोकयात्रा च द्रष्टव्या धर्मश्चात्महितानि च । 017a
एवं नरो वर्तमानः शाश्वतीर्वर्धते समाः ॥ 017c
ऋणमुन्मुच्य देवानामृषीणां च तथैव च । 018a
पितॄणामथ विप्राणामतिथीनां च पञ्चमम् ॥ 018c
पर्यायेण विमुक्तो यः सुनिर्णिक्तेन कर्मणा । 019a
एवं गृहस्थः कर्माणि कुर्वन्धर्मान्न हीयते ॥ ॥ 019c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विसप्ततितमोऽध्यायः ॥ 72 ॥
13-72-2 कश्चिद्यज्ञार्थं कश्चित् गुरुदक्षिणार्थं कश्चित्कुटुम्बभरणार्थमिति एवं रूपा क्रिया केषाञ्चित्पात्रत्वे प्रधानं भवति केषाञ्चिदुपांशुव्रतं मौनं पारिव्राज्यमिति । दद्यामः ददाम इत्येव वक्तव्यं नत्वेतेषु कञ्चित्प्रत्याचक्षीतेत्यर्थः ॥ 13-72-5 दत्तं प्रदेयवस्त्वभिमानिनी देवता न सन्तपेत् । विप्रे वेदविवर्जिते । दीयमानं रुदत्यन्नमिति स्मृतेः । अतः कस्तादृश इति प्रश्नः ॥ 13-72-6 मुख्यं पात्रं विशेषेण श्रुतवन्तोऽनसूयका इति ॥ 13-72-10 तथा अक्रोधादिगुणविशिष्टम् ॥ 13-72-11 अपात्रताबीजमाह अप्रामाण्यमिति । आत्मनः पात्रताया इति शेषः ॥ 13-72-12 निरर्थिकां श्रुतिविरोधित्वेन मोक्षानुपयोगिनीम् ॥ 13-72-13 अहेतुवादकः शास्त्रोक्तहेतुवादविरोधात् ॥ 13-72-14 बोद्धव्यः अस्पृश्यत्वेनेति शेषः ॥ 13-72-17 धर्मश्चात्महिताय चेति थ.ध.पाठः ॥ 13-72-18 देवानामृणं यज्ञेन ऋषीणां वेदाधिगमेन पितॄणां प्रजोत्पादनेन विप्राणां दानमानेनाऽतिथीनां सम्यगातिथ्येन चोन्मुच्याऽपाकृत्य कर्माणि कुर्वन्नित्युत्तरेणान्वयः ॥