अध्यायः 071

भीष्मेण युधिष्ठिरम्प्रति ब्राह्मणमाहात्म्यप्रतिपादकशक्रशम्बरसंवादानुवादः ॥ 1 ॥

भीष्म उवाच । 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 001a
शक्रशम्बरसंवादं तन्निवोध युधिष्ठिर ॥ 001c
शक्रो ह्यज्ञातरूपेण जटी भूत्वा सुवारुणः । 002a
विप्ररूपं समास्थाय प्रश्नं पप्रच्छ शम्बरम् ॥ 002c
केन शम्बर वृत्तेन स्वजात्यानधितिष्ठसि । 003a
श्रेष्ठं त्वां केन मन्यन्ते तद्वै प्रब्रूहि तत्त्वतः ॥ 003c
शम्बर उवाच । 004
नासूयामि सदा विप्रान्ब्राह्ममेव च मे मतम् । 004a
शास्त्राणि वदतो विप्रान्सम्मन्यामि यथासुखम् ॥ 004c
श्रुत्वा च नावजानामि नापराध्यामि कर्हिचित् । 005a
अभ्यर्च्याभ्यनुपृच्छामि पादौ गृह्णामि धीमताम् ॥ 005c
ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा । 006a
प्रमत्तेष्वप्रमत्तोऽस्मि सदा सुप्तेषु जागृमि ॥ 006c
ते मां शास्त्रपथे युक्तं ब्रह्मण्यमनसूयकम् । 007a
समासिञ्चति शास्तारः क्षौद्रं मध्विव मक्षिकाः ॥ 007c
यच्च भाषन्ति सन्तुष्टास्तच्च गृह्णाम्यमायया । 008a
समाधिमात्मनो नित्यमनुलोममचिन्तयम् ॥ 008c
सोहं वागग्रमृष्टानां रसानामवलेहकः । 009a
स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः ॥ 009c
एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् । 010a
यद्ब्राह्मणमुखाच्छास्त्रमिह श्रुत्वा प्रवर्तते ॥ 010c
एतत्कारणमाज्ञाय दृष्ट्वा देवासुरं पुरा । 011a
युद्धं पिता मे हृष्टात्मा विस्मितः समपद्यत ॥ 011c
दृष्ट्वा च ब्राह्मणानां तु महिमानं महात्मनाम् । 012a
पर्यपृच्छत्कथममी सिद्धा इति निशाकरम् ॥ 012c
सोम उवाच । 013
ब्राह्मणास्तपसा सर्वे सिध्यन्ते वाग्बलाः सदा । 013a
भुजवीर्याश्च राजानो वागस्त्राश्च द्विजातयः ॥ 013c
प्रवसन्वाप्यधीयीत ब्राह्मीर्दुर्वसतीर्वसन् । 014a
निर्मन्युरपि निर्वाणो यतिः स्यात्समदर्शनः ॥ 014c
अपि च ज्ञानसम्पन्नः सर्वान्वेदान्पितुर्गृहे । 015a
श्लाघमान इवाधीयाद्ग्राम्य इत्येव तं विदुः ॥ 015c
भूमिरेतौ निगिरति सर्पो बिलशयानिव । 016a
राजानं चाप्ययोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ 016c
अभिमानः श्रियं हन्ति पुरुषस्याल्पमेधसः । 017a
गर्भेण दुष्यते कन्या गृहवासेन च द्विजः ॥ 017c
'विद्याविदो लोकविदस्तपोदमसमन्विताः । 018a
नित्यपूज्याश्च वन्द्याश्च द्विजा लोकद्वयेच्छुभिः ॥ 018c
इत्येतन्मे पिता श्रुत्वा सोमादद्भुतदर्शनात् । 019a
ब्राह्मणान्पूजयामास तथैवाहं महाव्रतान् ॥ 019c
भीष्म उवाच । 020
श्रुत्वैतद्वचनं शक्रो दानवेन्द्रमुखाच्च्युतम् । 020a
द्विजान्सम्म्पूजयामास महेन्द्रत्वमवाप च ॥ ॥ 020c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकसप्ततितमोऽध्यायः ॥ 71 ॥

13-71-7 मां मयि । मधु अमृततुल्यां विद्यां समासिञ्चन्ति क्षौद्रं मधुपटलम् मक्षिका मध्विवेत्यावृत्त्या योज्यम् ॥ 13-71-8 समाधिं ब्राह्मणेषु निष्ठाम् ॥ 13-71-9 वागग्रे जिह्वाग्रे मृष्टं विद्यामृतं येषां ब्राह्मणानाम् । रसानामुक्तिसुधानाम् ॥ 13-71-14 ब्राह्मीर्वेदार्थाः दुर्वसतीः गुरुकुलवासक्लेशात् । अपि अपि वा । सति वैराग्ये यतिः स्यात् ॥ 13-71-15 पितुर्गृहे वेदाध्ययनं निन्दति अपीति ॥ 13-71-16 अप्रवासिनं वेदार्थं ग्रामान्तरे वा समकुर्वाणम् ॥