अध्यायः 070

भीष्मेण युधिष्ठिरं प्रति ब्राह्मणमाहात्म्यकथनम् ॥ 1 ॥

भीष्म उवाच । 001
जन्मनैव महाभागो ब्राह्मणो नाम जायते । 001a
नमस्यः सर्वभूतानामतिथिः प्रश्रिताग्रभुक् ॥ 001c
सर्वेषां सुहृदस्तात ब्राह्मणाः सुमनोमुखाः ।' 002a
सर्वानेते हनिष्यन्ति ब्राह्मणा जातमन्यवः ।' 002c
गीर्भिर्मङ्गलयुक्ताभिरनुध्यायन्ति पूजिताः ॥ 002e
सर्वान्नो द्विषतस्तात ब्राह्मणा जातमन्यवः । 003a
गीर्भिर्दारुणयुक्ताभिर्हन्युश्चैते ह्यपूजिताः ॥ 003c
अत्र गाथाः पुरा गीताः कीर्तयन्ति पुराविदः । 004a
सृष्ट्वा द्विजातीन्धाता हि यथापूर्वं समादधत् ॥ 004c
न वोऽन्यदिह कर्तव्यं किञ्चिदूर्ध्वायनं विधि । 005a
गुप्तो गोपायते ब्रह्मा श्रेयो वस्तेन शोभनम् ॥ 005c
स्वमेव कुर्वतां कर्म श्रीर्वो ब्राह्मी भविष्यति । 006a
प्रमाणं सर्वभूतानां प्रग्रहाश्च भविष्यथ ॥ 006c
न शौद्रं कर्म कर्तव्यं ब्राह्मणेन विपश्चिता । 007a
शौद्रं हि कुर्वतः कर्म ब्राह्मी श्रीरुपरुध्यते ॥ 007c
श्रीश्च बुद्धिश्च तेजश्च विभूतिश्च प्रतापिनी । 008a
स्वाध्यायेनैव महात्म्यं विपुलं प्रतिपत्स्यथ ॥ 008c
हुत्वा चाहवनीयस्थं महाभाग्ये प्रतिष्ठिताः । 009a
अग्रभोज्याः प्रसूतीनां श्रिया ब्राह्माऽनुकल्पिताः 009c
श्रद्धया परया युक्ता ह्यनभिद्रोहलब्धया । 010a
दमस्वाध्यायनिरताः सर्वान्कामानवाप्स्यथ ॥ 010c
यच्चैव मानुषे लोके यच्च देवेषु किञ्चन । 011a
सर्वं वस्तपसा साध्यं ज्ञानेन नियमेन च ॥ 011c
'युष्मत्सम्माननां प्रीतिं पावनैः क्षत्रिया भृशम् ।' 012a
अमुत्रेह समायान्ति वैश्यशूद्राधिकास्तथा ॥ 012c
अरक्षिताश्च युष्माभिर्विरुद्धा यान्ति विप्लवम् । 013a
युष्मत्तेजोधृता लोकास्तद्रक्ष्यथ जगत्त्रयम् ॥' 013c
इत्येवं ब्रह्मगीतास्ते समाख्याता मयाऽनघ । 014a
विप्रानुकम्पार्थमिदं तेन प्रोक्तं हि धीमता ॥ 014c
भूयस्तेषां बलं मन्ये यथा राज्ञस्तपस्विनः । 015a
दुरासदाश्च चण्डाश्च तपसा क्षिप्रकारिणः ॥ 015c
सन्त्येषां सिंहसत्वाश्च व्याघ्रसत्वास्तथाऽपरे । 016a
वराहमृगसत्वाश्च गजसत्वास्तथाऽपरे ॥ 016c
सर्पस्पर्शसमाः केचित्तथाऽन्ये मकरस्पृशः । 017a
विभाष्य घातिनः केचित्तथा चक्षुर्हणोऽपरे ॥ 017c
सन्ति चाशीविषसमाः सन्ति मन्दास्तथाऽपरे । 018a
विविधानीह वृत्तानि ब्राह्मणानां युधिष्ठिर ॥ 018c
मेकला द्राविडा लाटाः पौण्ड्राः कान्वशिरास्तथा । 019a
शौण्डिका दरदा दार्वाश्चोराः शबरबर्बराः ॥ 019c
किराता यवनाश्चैव तास्ताः क्षत्रियजातयः । 020a
वृषत्वमनुप्राप्ता ब्राह्मणानामदर्शनात् ॥ 020c
ब्राह्मणानां परिभवादसुराः सलिलेशयाः । 021a
ब्राह्मणानां प्रसादाच्च देवाः स्वर्गनिवासिनः ॥ 021c
अशक्यं स्प्रष्टुमाकाशमचाल्यो हिमवान्गिरिः । 022a
अवार्या सेतुना गङ्गा दुर्जया ब्राह्मणा भुवि ॥ 022c
न ब्राह्मणविरोधेन शक्या शास्तुं वसुन्धरा । 023a
ब्राह्मणा हि महात्मानो देवानामपि देवताः ॥ 023c
तान्पूजयस्व सततं दानेन परिचर्यया । 024a
यदीच्छसि महीं भोक्तुमिमां सागरमेखलाम् ॥ 024c
प्रतिग्रहेण तेजो हि विप्राणां शाम्यतेऽनघ । 025a
प्रतिग्रहं ये नेच्छेयुस्तेऽपि रक्ष्यास्त्वया नृप ॥ ॥ 025c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्ततितमोऽध्यायः ॥ 70 ॥

13-70-1 जन्मनैव संस्काराद्यभावेऽपि ब्राह्मणो नमस्य एव । प्रश्रितं पक्वमन्नं तत्स्वाग्रे भोक्तुमर्हः प्रश्रिताग्रभुक् ॥ 13-70-2 सुमनसां देवानां मुखमिव भूताः सुमनोमुखाः ॥ 13-70-3 नोऽस्माकं द्विषतः शत्रून् । तैरपूजिता ब्राह्मणा हन्युरिति सम्बन्धः ॥ 13-70-4 समादधत् समाधिं नियमं कृतवान् ॥ 13-70-5 ब्रह्मा ब्राह्मणः । वः शोभनं श्रेयस्तेनैव ॥ 13-70-6 प्रग्रहाः दमनक्षभा रज्जव इव ॥ 13-70-7 शौद्रं कर्म सेवा ॥ 13-70-8 श्रीश्चेत्यादेः श्रियमित्यादिरर्थः ॥ 13-70-9 आहवनीयस्थं देवतागणं प्रसूतीनां शिशुभ्योऽप्यग्रे भोज्यं येषान्ते । ब्राह्म्या श्रिया विद्ययाऽनुकल्पिताः पात्रीभूताः ॥ 13-70-15 चण्डत्वादिदोषवन्तोपि पूज्या एवेत्यर्थः ॥ 13-70-17 कार्पासमृदवः केचिदिति थ. पाठः ॥ 13-70-20 अदर्शनात् अननुग्रहात् ॥