अध्यायः 069

भीष्मेण युधिष्ठिरं प्रति ब्राह्मणमाहात्म्यप्रतिपादकपृथ्वीवासुदेवसंवादानुवादः ॥ 1 ॥

भीष्म उवाच । 001
ब्राह्मणानेव सततं भृशं सम्परिपूजयेत् । 001a
एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥ 001c
एते भोगैरलङ्कारैरन्यैश्चैव किमिच्छकैः । 002a
सदा पूज्या नमस्कारै रक्ष्याश्च पितृवन्नृपैः । 002c
ततो राष्ट्रस्य शान्तिर्हि भूतानामिव वासवात् ॥ 002e
ज्ञानवान्ब्रह्मवर्चस्वी राष्ट्रे वै ब्राह्मणः शुचिः । 003a
महारथश्च राजन्य एष्टव्यः शत्रुतापनः ॥ 003c
ब्राह्मणं जातिसम्पन्नं धर्मज्ञं संशितव्रतम् । 004a
बोजयीत गृहे राजन्न तस्मात्परमस्ति वै ॥ 004c
ब्राह्मणेभ्यो हविर्दत्तं प्रतिगृह्णन्ति देवताः । 005a
पितरः सर्वभूतानां नैतेभ्यो विद्यते परम् ॥ 005c
आदित्यश्चन्द्रमा विष्णुः सङ्करोऽग्निः प्रजापतिः । 006a
सर्वे ब्राह्मणमाविश्य सदाऽन्नमुपभुञ्जते ॥ 006c
न तस्याश्नन्ति पितरो यस्य विप्रा न भुञ्जते । 007a
देवाश्चाप्यस्य नाश्नन्ति पापस्य ब्राह्मणद्विषः ॥ 007c
ब्राह्मणेषु तु तुष्टेषु प्रीयन्ते पितरः सदा । 008a
तथैव देवता राजन्नात्र कार्या विचारणा ॥ 008c
तथैव तेऽपि प्रीयन्ते येषां भवति तद्धविः । 009a
न च प्रेत्य विनश्यन्ति गच्छन्ति च परां गतिम् ॥ 009c
येन येनैव प्रीयन्ते पितरो देवतास्तथा ॥ 010a
तेन तेनैव प्रीयन्ते पितरो देवतास्तथा ॥ 010c
ब्राह्मणादेव तद्भूतं प्रभवन्ति यतः प्रजाः । 011a
यतश्चायं प्रभवति प्रेत्य यत्र च गच्छति ॥ 011c
वेदैष मार्गं स्वर्गस्य तथैव नरकस्य च । 012a
आगतानागते चोभे ब्राह्मणो द्विपदांवरः ॥ 012c
ब्राह्मणो द्विपदां श्रेष्ठः स्वधर्मं चैव वेद यः । 013a
ये चैनमनुवर्तन्ते ते न यान्ति पराभवम् । 013c
न ते प्रेत्य विनश्यन्ति गच्छन्ति न पराभवम् ॥ 013e
यद्ब्राह्मणमुखात्प्राप्तं प्रतिगृह्णन्ति वै वचः । 014a
कृतात्मानो महात्मानस्ते न यान्ति पराभवम् ॥ 014c
क्षत्रियाणां प्रतपतां तेजसा च बलेन च । 015a
ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च बलानि च ॥ 015c
भृगवस्तालजङ्घांश्च नीपानाङ्गिरसोऽजयन् । 016a
भरद्वाजो वैतहव्यानैलांश्च भरतर्षभ ॥ 016c
चित्रायुधांश्चाप्यजयन्नेते कृष्णाजिनध्वजाः । 017a
प्रक्षिप्याथ च कुम्भान्वै पारगामिनमारभेत् ॥ 017c
यत्किञ्चित्कथ्यते लोके श्रूयते पठ्यतेऽपि वा । 018a
सर्वं तद्ब्राह्मणेष्वेव गूढोऽग्निरिव दारुषु ॥ 018c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 019a
संवादं वासुदेवस्य पृथ्व्याश्च भरतर्षभ ॥ 019c
वासुदेव उवाच । 020
मातरं सर्वभूतानां पृच्छे त्वां संशयं शुभे । 020a
केनस्वित्कर्मणा पापं व्यपोहति नरो गृही ॥ 020c
पृथिव्युवाच । 021
ब्राह्मणानेव सेवेत पवित्रं ह्येतदुत्तमम् । 021a
ब्राह्मणान्सेवमानस्य रजः सर्वं प्रणश्यति । 021c
अतो भूतिरतः कीर्तिरतो बुद्धिः प्रजायते ॥ 021e
महारथश्च राजन्य एष्टव्यः शत्रुतापनः । 022a
इति मां नारदः प्राह सततं सर्वभूतये ॥ 022c
ब्राह्मणं जातिसम्पन्नं धर्मज्ञं संशितं शुचिम् । 023a
अपरेषां परेषां च परेभ्यश्चैव ये परे ॥ 023c
ब्राह्मणा यं प्रशंसन्ति स मनुष्यः प्रवर्धते । 024a
अथ यो ब्राह्मणान्क्रुष्टः पराभवति सोचिरात् ॥ 024c
यथा महार्णवे क्षिप्त आमलोष्टो विनश्यति । 025a
तथा दुश्चरितं विप्रे पराभावाय कल्पते ॥ 025c
पश्य चन्द्रे कृतं लक्ष्म समुद्रे लवणोदकम् । 026a
तथा भगसहस्रेण महेन्द्रः परिचिह्नितः ॥ 026c
तेषामेव प्रभावेन सहस्रनयनो ह्यसौ । 027a
शतक्रतुः समभवत्पश्य माधव यादृशम् ॥ 027c
इच्छन्कीर्तिं च भूतिं च लोकांश्च मधुसूदन । 028a
ब्राह्मणानुमते तिष्ठेत्पुरुषः शुचिरात्मवान् ॥ 028c
भीष्म उवाच । 029
इत्येतद्वचनं श्रुत्वा मेदिन्या मधूसूदनः । 029a
साधुसाध्विति कौरव्य मेदिनीं प्रत्यपूजयत् ॥ 029c
एतां श्रुत्वोपमां पार्थ प्रयतो ब्राह्मणर्षभान् । 030a
सततं पूजयेथास्त्वं ततः श्रेयोऽभिपत्स्यसे ॥ ॥ 030c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनसप्ततितमोऽध्यायः ॥ 69 ॥

13-69-1 सोमो राजा येषां ते सोमराजानः ॥ 13-69-2 प्रश्नपूर्वकं यत्तदिष्टं दीयते तत्किमिच्छकम् ॥ 13-69-6 चन्द्रमा वायुरापो भूरम्बरं दिशः इति झ.पाठः ॥ 13-69-9 तेपि दातारोपि । तत् प्रदेयं द्रव्यम् ॥ 13-69-11 तद्यज्ञादिकम् । भूतमुत्पन्नम् । ब्राह्मणो वेद तद्भूतमिति थ.ध. पाठः ॥ 13-69-17 कुं पृथिवीं ब्राह्मणाय प्रक्षिप्य दत्त्वा पारगामिनं परलोकहितं कर्म आरभेदाचरेत् । भानू दीप्तिं कुर्वन्नुभयलोके इति शेषः । पुरगामिनमाहरन्निति थ.पाठः ॥ 13-69-23 अपरे ब्राह्मणं सर्वभूतये इच्छेदित्याहुरिति विपरिणामेनानुषङ्गः ॥ 13-69-24 क्रुष्टः क्रोशति । कर्तरि क्तः ॥