अध्यायः 068

भीष्मेण युधिष्ठिरं प्रति ब्राह्मणमहिमाकथनम् ॥ 1 ॥

युधिष्ठिर उवाच । 001
किं राज्ञः सर्वकृत्यानां गरीयः स्यात्पितामह । 001a
कुर्वन्किं कर्म नृपतिरुभौ लोकौ समश्नुते 001c
भीष्म उवाच । 002
एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत । 002a
ब्राह्मणानां रक्षणं च पूजा च सुखमिच्छतः ॥ 002c
कर्तव्यं पार्थिवेन्द्रेण तथैव भरतर्षभ । 003a
श्रोत्रियान्ब्राह्मणान्वृद्धान्नित्यमेवाभिपूजयेत् ॥ 003c
पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान् । 004a
सान्त्वेन भोगदानेन नमस्कारैः सदाऽर्चयेत् ॥ 004c
एतत्कृत्यतमं राज्ञो नित्यमेवोपलक्षयेत् । 005a
यथाऽऽत्मानं यथा पुत्रांस्तथैतान्प्रतिपालयेत् ॥ 005c
ये चाप्येषां पूज्यतमास्तान्दृढं प्रतिपूजयेत् । 006a
तेषु शान्तेषु तद्राष्ट्रं सर्वमेव विराजते ॥ 006c
ते पूज्यास्ते नमस्कार्या मान्यास्ते पितरो यथा । 007a
तेष्वेव यात्रा लोकानां भूतानामिव वासवे ॥ 007c
अभिचारैरुपायैश्च दहेयुरपि चेतसा । 008a
निःशेषं कुपिताः कुर्युरुग्राः सत्यपराक्रमाः । 008c
नान्तमेषां प्रपश्यामि न दिशश्चाप्यपावृताः । 009a
कुपिताः समुदीक्षन्ते दावेष्वग्निशिखा इव ॥ 009c
'मान्यास्तेषां साधवो ये न निन्द्याश्चाप्यसाधवः' । 010a
बिभ्यत्येषां साहसिका गुणास्तेषामतीव हि । 010c
कूपा इव तृणच्छन्ना विशुद्धा द्यौरिवापरे ॥ 010e
प्रसह्यकारिणः केचित्कार्पासमृदवोऽपरे । 011a
सन्ति चैषामतिशठास्तथैवान्ये तपस्विनः ॥ 011c
कृषिगोरक्ष्यमप्येके भैक्ष्यमन्येऽप्यनुष्ठिताः । 012a
चोराश्चान्येऽनृताश्चान्ये तथाऽन्ये नटनर्तकाः ॥ 012c
सर्वकर्मसहाश्चान्ये पार्थिवेष्वितरेषु च । 013a
विविधाचारयुक्ताश्च ब्राह्मणा भरतर्षभ ॥ 013c
नानाकर्मसु रक्तानां बहुकर्मोपजीविनाम् । 014a
धर्मज्ञानां सतां तेषां नित्यमेवानुकीर्तयेत् 014c
पितॄणां देवतानां च मनुष्योरगरक्षसाम् । 015a
पुराऽप्येते महाभागा ब्राह्मणा वै जनाधिप ॥ 015c
नैते देवैर्न पितृभिर्न गन्धर्वैर्न राक्षसैः । 016a
नासुरैर्न पिशाचैश्च शक्या जेतुं द्विजातयः ॥ 016c
अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् । 017a
यमिच्छेयुः स राजा स्याद्यं द्विष्युः स पराभवेत् ॥ 017c
परिवादं च ये कुर्युर्ब्राह्मणानामचेतसः । 018a
सत्यं ब्रवीमि ते राजन्विनश्येयुर्न संशयः ॥ 018c
निन्दाप्रशंसाकुशलाः कीर्त्यकीर्तिपरायणाः । 019a
परिकुप्यन्ति ते राजन्सततं द्विषतां द्विजाः ॥ 019c
ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते । 020a
ब्राह्मणैर्यः पराकृष्टः पराभूयात्क्षणाद्धि सः ॥ 020c
शका यवनकाम्भोजास्तास्ताः क्षत्रियजातयः । 021a
वृषलत्वं परिगता ब्राह्मणानामदर्शनात् ॥ 021c
द्राविडाश्च कलिङ्गाश्च पुलिन्दाश्चाप्युशीनराः । 022a
कोलिसर्पा महिपकास्तास्ताः क्षत्रियजातयः ॥ 022c
वृषलत्वं परिगता ब्राह्मणानामदर्शनात् । 023a
श्रेयान्पराजयस्तेभ्यो न जयो जयतांवर ॥ 023c
यस्तु सर्वमिदं हन्याद्ब्राह्मणं च न तत्समम् । 024a
ब्रह्मवध्या महान्दोष इत्याहुः परमर्षयः ॥ 024c
परिवादो द्विजातीनां न श्रोतव्यः कथञ्चन । 025a
आसीताधोमुखस्तूष्णीं समुत्थाय व्रजेत वा ॥ 025c
न स जातो जनिष्यो वा पृथिव्यामिह कश्चन । 026a
यो ब्राह्मणविरोधेन सुखं जीवितुमुत्सहेत् ॥ 026c
दुर्ग्राह्यो मुष्टिना वायुर्दुःस्पर्शः पाणिना शशी । 027a
दुर्धरा पृथिवी मूर्ध्ना दुर्जया ब्राह्मणा भुवि ॥ ॥ 027c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टषष्टितमोऽध्यायः ॥ 68 ॥

13-68-6 एषां ब्राह्मणानां मध्ये ॥ 13-68-7 वासवे पर्जन्ये ॥ 13-68-8 अभिचारैः श्येनयागादिभिः । उपायैः कौलिकशास्त्रप्रसिद्धैः । चेतसा सङ्कल्पमात्रेण ॥ 13-68-10 एषां एभ्यः साहसिका अकार्यकारिणोऽपि बिभ्यति किमुत विवेकिनः ॥ 13-68-15 एते पूज्या इति शेषः । यतो महाभागाः ॥ 13-68-19 परायणाः हेतवः ॥13-68-21 अदर्शनात् अननुग्रहात् ॥