अध्यायः 067 भीष्मेण युधिष्ठिरं प्रति शरणागतरक्षणफलप्रतिपादकश्येनकपोतोपाख्यानकथनम् ॥ 1 ॥

युधिष्ठिर उवाच । 001
पितामह महाप्राज्ञ सर्वशास्त्रविशारद । 001a
त्वत्तोऽहं श्रोतुमिच्छामि धर्मं भरतसत्तम ॥ 001c
शरणागतं ये रक्षन्ति भूतग्रामं चतुर्विधम् । 002a
किं तस्य भरतश्रेष्ठ फलं भवति तत्त्वतः ॥ 002c
भीष्म उवाच । 003
इदं शृणु महाप्राज्ञ धर्मपुत्र महायशः । 003a
इतिहासं पुरावृत्तं शरणार्थं महाफलम् ॥ 003c
प्रपात्यमानः श्येनेन कपोतः प्रियदर्शनः । 004a
वृषदर्भं महाभागं नरेन्द्रं शरणं गतः ॥ 004c
स तं दृष्ट्वा विशुद्धात्मा त्रासादङ्कमुपागतम् । 005a
आश्वास्याश्वसिहीत्याह न तेऽस्ति भयमण्डज ॥ 005c
भयं ते सुमहत्कस्मात्कुत्र किं वा कृतं त्वया । 006a
येन त्वमिह सम्प्राप्तो विसञ्ज्ञो भ्रान्तचेतनः ॥ 006c
नवनीलोत्पलापीड चारुवर्ण सुदर्शन । 007a
दाडिमाशोकपुष्पाक्ष मा त्रसस्वाभयं तव ॥ 007c
मत्सकाशमनुप्राप्तं न त्वां कश्चित्समुत्सहेत् । 008a
मनसा ग्रहणं कर्तुं रक्षाध्यक्षपुरस्कृतम् ॥ 008c
काशिराज्यं तदद्यैव त्वदर्तं जीवितं तथा । 009a
त्यजेयं भव विस्रब्धः कपोत न भयं तव ॥ 009c
श्येन उवाच । 010
ममैतद्विहितं भक्ष्यं न राजंस्त्रातुमर्हसि । 010a
अतिक्रान्तं च प्राप्तं च प्रयत्नाच्चोपपादितम् ॥ 010c
मांसं च रुधिरं चास्य मज्जा मेदश्च मे हितम् । 011a
परितोषकरो ह्येष मम माऽस्याग्रतो भव ॥ 011c
तृष्णा मे बाधतेऽत्युग्रा क्षुधा निर्दहतीव माम् । 012a
मुञ्चैनं नहि शक्ष्यामि राजन्मन्दयितुं क्षुधाम् ॥ 012c
मया ह्यनुसृतो ह्येष मत्पक्षनखविक्षतः । 013a
किञ्चिदुच्छ्वासनिःश्वासं न राजन्गोप्तुमर्हसि ॥ 013c
यदि स्वविषये राजन्प्रभुस्त्वं रक्षणे नृणाम् । 014a
खेचरस्य तृषार्तस्य न त्वं प्रभुरथोत्तम ॥ 014c
यदि वैरिषु भृत्येषु स्वजनव्यवहारयोः । 015a
विषयेष्विन्द्रियाणां च आकाशे मा पराक्रम ॥ 015c
प्रभुत्वं हि पराक्रम्य सम्यक् पक्षहरेषु ते । 016a
यदि त्वमिह धर्मार्थी मामपि द्रष्टुमर्हसि ॥ 016c
भीष्म उवाच । 017
श्रुत्वा श्येनस्य तद्वाक्यं राजर्षिर्विस्मयं गतः । 017a
सम्भाव्य चैनं तद्वाक्यं तदर्थी प्रत्यभाषत ॥ 017c
राजोवाच । 018
गोवृषो वा वराहो वा मृगो वा महिषोपि वा । 018a
त्वदथर्मद्य क्रियतां क्षुधाप्रशमनाय ते ॥ 018c
शरणागतं न त्यजेयमिति मे व्रतमाहितम् । 019a
न मुञ्चति ममाङ्गानि द्विजोऽयं पश्य वै द्विज ॥ 019c2
श्येन उवाच । 020
न वराहं न चोक्षाणं न चान्यान्विविधान्द्विजान् 020a
भक्षयामि महाराज किमन्नाद्येन तेन मे ॥ 020c
यस्तु मे विहितो भक्ष्यः स्वयं देवैः सनातनः । 021a
श्येनाः कपोतान्खादन्ति स्तितिरेषा सनातनी ॥ 021c
उशीनर कपोते तु यदि स्नेहस्तवानघ । 022a
ततस्त्वं मे प्रयच्छाद्य स्वमांसं तुलया धृतम् ॥ 022c
राजोवाच । 023
महाननुग्रहो मेऽद्य यस्त्वमेवमिहात्थ माम् । 023a
बाढमेव करिष्यामीत्युक्त्वाऽसौ राजसत्तमः ॥ 023c
उत्कृत्योत्कृत्य मांसानि तुलया समतोलयत् । 024a
अन्तःपुरे ततस्तस्य स्त्रियो रत्नविभूषिताः ॥ 024c
हाहाभूता विनिष्क्रान्ताः श्रुत्वा परमदुःखिताः । 025a
तासां रुदितशब्देन मन्त्रिभृत्यजनस्य च ॥ 025c
बभूव सुमहान्नादो मेघगम्भीरनिःस्वनः । 026a
निरुद्धं गगनं सर्वं व्यभ्रं मेघैः समन्ततः ॥ 026c
मही प्रचलिता चासीत्तस्य सत्येन कर्मणा ॥ 027a
स राजा पार्श्वतश्चैव बाहुभ्यामूरुतश्च यत् । 027c
तानि मांसानि सञ्छिद्य तुलां पूरयतेऽशनैः । 028a
तथापि न समस्तेन कपोतेन बभूव ह ॥ 028c
अस्थिभूतो यदा राजा निर्मांसो रुधिरस्रवः । 029a
तुलां ततः समारूढः स्वं मांसक्षयमुत्सृजन् ॥ 029c
ततः सेन्द्रास्त्रयो लोकास्तं नरेन्द्रमुपस्थिताः । 030a
र्भर्यश्चाकाशगैस्तत्र वादिता देवदुन्दुभिः ॥ 030c
अमृतेनावसिक्तश्च वृषदर्भो नरेश्वरः । 031a
दिव्यैश्च सुसुखैर्माल्यैरभिवृष्टः पुनः पुनः ॥ 031c
देवगन्धर्वसङ्घातैरप्सरोभिश्च सर्वतः । 032a
नृत्तश्चैवोपगीतश्च पितामह इव प्रभुः ॥ 032c
हेमप्रासादसम्बाधं मणिकाञ्चनतोरणम् । 033a
सवैडूर्यमणिस्तम्भं विमानं समधिष्ठितः ॥ 033c
स राजर्षिर्गतः स्वर्गं कर्मणा तेन शाश्वतम् । 034a
शरणागतेषु चैवं त्वं कुरु सर्वं युधिष्ठिर ॥ 034c3
भक्तानामनुरक्तानामाश्रितानां च रक्षिता । 035a
दयावान्सर्वभूतेषु परत्र सुखमेधते ॥ 035c
साधुवृत्तो हि यो राजा सद्वृत्तमनुतिष्ठति । 036a
किं न प्राप्तं भवेत्तेन स्वव्याजेनेह कर्मणा ॥ 036c
स राजर्षिर्विशुद्धात्मा धीरः सत्यपराक्रमः । 037a
काशीनामीश्वरः ख्यातस्त्रिषु लोकेषु कर्मणा ॥ 037c
योऽप्यन्यः कारेयदेवं शरणागतरक्षणम् । 038a
सोपि गच्छेत तामेव गतिं भरतसत्तम ॥ 038c
इदं वृत्तं हि राजर्षे वृषदर्भस्य कीर्तयन् । 039a
पूतात्मा वै भवेल्लोके शृणुयाद्यश्च नित्यशः ॥ ॥ 039c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तषष्टितमोऽध्यायः ॥ 67 ॥

13-67-4 प्रात्यमान आकशादिति शेषः । वृषदर्भमौशीनरं शिबिम् ॥ 13-67-7 नवं नीलं च यदुत्पलं लस्याऽऽपीड इवालङ्कारभूत ॥ 13-67-10 अतिक्रान्तं गत्प्रायजवितम् ॥ 13-67-15 यदि वैर्यादिषु पराक्रमसे तद्युक्तं न त्वाकाशे आकाशचारिषु ॥ 13-67-16 पक्षहरेष्वाज्ञाभङ्गिषु शत्रुषु ॥ 13-67-17 तदर्थीं कपोतार्थी ॥ 13-67-19 द्विजः पक्षी ॥ 13-67-28 अशनैः शीघ्रम् ॥ 13-67-29 मांसक्षयं मांसालयं शरीरम् ॥ 13-67-32 नृत्तः नृत्येन तोषितः । एवमुपगीतः ॥ 13-67-36 साधुवृत्तः सुशीलः । सद्वृत्तं शिष्टाचारम् । स्वव्याजेन सुतरां निष्कपटेन ॥