अध्यायः 066
भीष्मेण युधिष्ठिरं प्रति मानवेषु पूज्यताप्रयोजकगुणप्रतिपादककृष्णनारदसंवादानुवादः ॥ 1 ॥
युधिष्ठिर उवाच । 001
के पूज्या वै त्रिलोकेऽस्मिन्मानवा भरतर्पभ । 001a
विस्तरेण तदाचक्ष्व न हि तृप्यामि कथ्यतः ॥ 001c
भीष्म उवाच । 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
नारदस्य च संवादं वासुदेवस्य चोभयोः ॥ 002c
नारदं प्राञ्जलिं दृष्ट्वा पूजयानं द्विजर्षभान् । 003a
केशवः परिपप्रच्छ भगवन्कान्नमस्यमि ॥ 003c
बहुमानपरस्तेषु भगवन्यान्नमस्यसि । 004a
शक्यं चेच्छ्रोतुमस्माभिर्ब्रूह्येतद्धर्मवित्तम ॥ 004c
नारद उवाच । 005
शृणु गोविन्द यानेतान्पूजयाम्यरिमर्दन । 005a
त्वत्तोऽन्यः कः पुमाल्ँलोके श्रोतुमेतदिहार्हति ॥ 005c
वरुणं वायुमादित्यं पर्जन्यं जातवेदसम् । 006a
स्थाणुं स्कन्दं महालक्ष्मीं विष्णुं ब्रह्माणमेव च ॥ 006c
वाचस्पतिं चन्द्रमसमपः पृथ्वीं सरस्वतीम् । 007a
सततं ये नमस्यन्ति तान्नमस्याम्यहं विभो ॥ 007c
तपोधनान्वेदविदो नित्यं वेदपरायणान् । 008a
महार्हान्वृष्णिशार्दूल सदा सम्पूजयाम्यहम् ॥ 008c
अभुक्त्वा देवकार्याणि कुर्वते येऽविकत्थनाः । 009a
सन्तुष्टाश्च क्षमायुक्तास्तान्नमस्याम्यहं विभो ॥ 009c
सम्यग्यजन्ति ये चेष्टीः क्षान्ता दान्ता जितेन्द्रियाः । 010a
सत्यं धर्मं क्षितिं गाश्च तान्नमस्यामि यादव ॥ 010c
ये वै तपसि वर्तन्ते वने मूलफलाशनाः । 011a
असञ्चयाः क्रियावन्तस्तान्नमस्यामि यादव ॥ 011c
ये भृत्यभरणे शक्ताः सततं चातिथिव्रताः । 012a
भुञ्जते देवशेषाणि तान्नमस्यामि यादव ॥ 012c
ये वेदं प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मचारिणः । 013a
याजनाध्यापने युक्ता नित्यं तान्पूजयाम्यहम् ॥ 013c
प्रसन्नहृदयाश्चैव सर्वसत्वेषु नित्यशः । 014a
अपृष्ठतापान्स्वाध्याये युक्तास्तान्पूजयाम्यहम् ॥ 014c
गुरुप्रसादे स्वाध्याये यतन्तो ये स्थिरव्रताः । 015a
शुश्रूषवोऽनसूयन्तस्तान्नमस्यामि यादव ॥ 015c
सुव्रता मुनयो ये च ब्राह्मणाः सत्यसङ्गराः । 016a
वोढारो हव्यकव्यानां तान्नमस्यामि यादव ॥ 016c
भैक्षचर्यासु निरताः कृशा गुरुकुलाश्रयाः । 017a
निःसुखा निर्धना ये तु तान्नमस्यामि यादव ॥ 017c
निर्ममा निष्प्रतिद्वन्द्वा निष्ठिता निष्प्रयोजनाः । 018a
ये वेदं प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मवादिनः ॥ 018c
अहिंसानिरता ये च ये च सत्यव्रता नराः । 019a
दान्ताः शमपराश्चैव तान्नमस्यामि केशव ॥ 019c
देवतातिथिपूजायां युक्ता ये गृहमेधिनः । 020a
कपोतवृत्तयो नित्यं तान्नमस्यामि यादव ॥ 020c
येषां त्रिवर्गः कृत्येषु वर्तते नोपहीयते । 021a
शिष्टाचारप्रवृत्ताश्च तान्नमस्याम्यहं सदा ॥ 021c
ब्राह्मणाः श्रुतसम्पन्ना ये त्रिवर्गमनुष्ठिताः । 022a
अलोलुपाः पुण्यशीलास्तान्नमस्यामि केशव ॥ 022c
'अवन्ध्यकाला येऽलुब्धास्त्रिवर्गे साधनेषु च । 023a
विशिष्टाचारयुक्ताश्च नारायण नमामि तान् ॥' 023c
अब्भक्षा वायुभक्षाश्चक सुधाभक्षाश्च ये सदा । 024a
व्रतैश्च विविधैर्युक्तास्तान्नमस्यामि माधव ॥ 024c
अयोनीनग्नियोनींश्च ब्रह्मयोनींस्तथैव च । 025a
सर्वभूतात्मयोनींश्च तान्नमस्याम्यहं सदा ॥ 025c
नित्यमेतान्नमस्यामि कृष्ण लोककरानृषीन् । 026a
लोकज्येष्ठान्कुलज्येष्ठांस्तमोघ्नाल्ँलोकभास्करान् ॥ 026c
तस्मात्त्वमपि वार्ष्णेय द्विजान्पूजय नित्यदा । 027a
पूजिताः पूजनार्हा हि सुखं दास्यन्ति तेऽनघ ॥ 027c
अस्मिल्ँलोके सदा ह्येते परत्र च सुखप्रदाः । 028a
चरन्ते मान्यमाना वै प्रदास्यन्ति सुखं तव ॥ 028c
ये सर्वातिथयो नित्यं गोषु च ब्राह्मणेषु च । 029a
नित्यं सत्ये चाभिरता दुर्गाण्यतितरन्ति ते ॥ 029c
नित्यं शमपरा ये च तथा ये चानसूयकाः । 030a
नित्यस्वाध्यायिनो ये च दुर्गाण्यतितरन्ति ते ॥ 030c
सर्वान्देवान्नमस्यन्ति य चैकं वेदमाश्रिताः । 031a
श्रद्दधानाश्च दान्ताश्च दुर्गाण्यतितरन्ति ते ॥ 031c
तथैव विप्रप्रवरान्नमस्कृत्य यतव्रताः । 032a
भवन्ति ये दानरता दुर्गाण्यतितरन्ति ते ॥ 032c
तपस्विनश्च ये नित्यं कौमारब्रह्मचारिणः । 033a
तपसा भावितात्मानो दुर्गाण्यतितरन्ति ते ॥ 033c
देवतातिथिभृत्यानां पितॄणां चार्चने रताः । 034a
शिष्टान्नभोजिनो ये च दुर्गाण्यतितरन्ति ते ॥ 034c
अग्निमाधाय विधिवत्प्रणता धारयन्ति ये । 035a
प्राप्ताः सोमाहुतिं चैव दुर्गाण्यतितरन्ति ते ॥ 035c
मातापित्रोर्गुरुषु च सम्यग्वर्तन्ति ये सदा । 036a
यथा त्वं वृष्णिशार्दूलेत्युक्त्वैवं विरराम सः ॥ 036c
तस्मात्त्वमपि कौन्तेय पितृदेवद्विजातिथीन् । 037a
सम्यक्पूजयसे नित्यं गतिमिष्टामवाप्स्यसि ॥ ॥ 037c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्षष्टितमोऽध्यायः ॥ 66 ॥
13-66-1 मानवैर्भरतर्षभेति झ.थ.ध.पाठः ॥ 13-66-4 तेषु मानवेषु बहुमानपरः सन् कान्नमस्यसीति योज्यम् ॥ 13-66-8 महार्हान् महान् अर्हः पूजा येषाम्, अतिपूज्यानित्यर्थः ॥ 13-66-9 अविकत्थनाः श्लाघाहीनाः ॥ 13-66-10 सत्यं धर्मं च यजन्ति पूजयन्ति । क्षितिं गाश्च यजन्ति ब्राह्मणेभ्यः प्रयच्छन्ति । यज देवपूजासङ्गतिकरणदानेषु । सस्यं धनं क्षितिमिति थ.ध पाठः ॥ 13-66-14 आपृष्ठतापान् यावन्मध्याह्नम् ॥ 13-66-15 स्वाध्याये ब्रह्मयज्ञे मन्त्रजपे वा ॥ 13-66-18 निर्ह्रीका निष्प्रयोजनाः इति झ.पाठः । निर्ह्रीकाः दिग्म्बराः ॥ 13-66-20 कपोतवृत्तयः कणश आदाय ये सङ्ग्रहं न कुर्वन्तीत्यर्थः ॥ 13-66-21 त्रिवर्गो धर्मार्थकामाः । कृत्येषु कर्तुं योग्येषु कर्मसु वर्तते उत्तममध्यमाधमभावेन वर्तते न तु हीयते अधममध्यमोत्तमभावेनेत्यर्थः ॥ 13-66-24 सुधा वैश्वदेवशेषः ॥ 13-66-25 अयोनीन् अकृतदारान् । अग्नियोनीन् दाराग्निहोत्रयुतान् । ब्रह्मणो वेदस्य योनीन् आश्रयभूतान् । अब्योनीनग्नियोनींश्चेति थ.ध. पाठः ॥ 13-66-26 लोकज्येष्ठाञ्ज्ञाननिष्ठानिति थ.ध. पाठः ॥ 13-66-31 स्वाध्याये सर्वे यज्ञा अन्तर्भवन्तीत्यर्थः ॥