अध्यायः 065

भीष्मेण युधिष्ठिरं प्रति गङ्गामहिमप्रतिपादकसिद्धसिलवृत्तिसंवादानुवादः ॥ 1 ॥

वैशम्पायन उवाच । 001
बृहस्पतिसमं बुद्ध्या क्षमया ब्रह्मणः समम् । 001a
पराक्रमे शक्रसममादित्यसमतेजसम् ॥ 001c
गाङ्गेयमर्जुनेनाजौ निहतं भूरितेजसम् । 002a
भ्रातृभिः सहितोऽन्यैश्च पर्यपृच्छद्युधिष्ठिरः ॥ 002c
शयानं वीरशयने कालाकाङ्क्षिणमच्युतम् । 003a
आजग्मुर्भरतश्रेष्ठं द्रष्टुकामा महर्षयः ॥ 003c
अत्रिर्वसिष्ठोऽथ भृगुः पुलस्त्यः पुलहः क्रतुः । 004a
अङ्गिरा गौतमोऽगस्त्यः सुमतिः सुयतात्मवान् ॥ 004c
विश्वामित्रः स्थूलगिराः संवर्तः प्रमतिर्दमः । 005a
बृहस्पत्युशनोव्यासश्च्यवनः काश्यपो ध्रुवः ॥ 005c
दुर्वासा जमदग्निश्च मार्कण्डेयोऽथ गालवः । 006a
भरद्वाजोऽथ रैभ्यश्चक यवक्रीतस्त्रितस्तथा ॥ 006c
स्थूलाक्षः शबलाक्षश्च कण्वो मेधातिथिः कृशः । 007a
नारदः पर्वतश्चैव सुधन्वाऽथैकतो द्विजः ॥ 007c
नितमभूर्भुवनो धौम्यः शतानन्दोऽकृतव्रणः । 008a
जामदग्र्यस्तथा रामः कचश्चेत्येवमादयः । 008c
समागता महात्मानो भीष्मं द्रष्टुं महर्षयः ॥ 008e
तेषां महात्मनां पूजामागतानां युधिष्ठिरः । 009a
भ्रातृभिः सहितश्चक्रे यथावदनुपूर्वशः ॥ 009c
ते पूजिताः सुखासीनाः कथाश्रक्रुर्महर्षयः । 010a
भीष्माश्रिताः सुमधुराः सर्वेन्द्रियमनोहराः ॥ 010c
भीष्मस्तेषां कथाः श्रुत्वा ऋषीणां भावितात्मनाम् । 011a
मेने दिविष्ठमात्मानं तुष्ट्या परमया युतः ॥ 011c
ततस्ते भीष्ममामन्त्र्य पाण्डवांश्च महर्षयः । 012a
अन्तर्धानं गताः सर्वे सर्वेषामेव पश्यताम् ॥ 012c
तानृषीन्सुमहाभागानन्तर्धानगतानपि । 013a
पाण्डवास्तुष्टुवुः सर्वे प्रणेमुश्च मुहुर्मुहुः ॥ 013c
प्रसन्नमनसः सर्वे गाङ्गेयं कुरुसत्तमम् । 014a
उपतस्थुर्यथोद्यन्तमादित्यं मन्त्रकोविदाः ॥ 014c
प्रभावं तपसस्तेषामृषीणां वीक्ष्य पाण्डवाः । 015a
प्रकाशन्तो दिशः सर्वा विस्मयं परमं ययुः ॥ 015c
महाभाग्यं परं तेषामृषीणामनुचिन्त्य ते । 016a
पाण्डवाः सह भीष्मेण कथाश्चक्रुस्तदाश्रयाः ॥ 016c
कथान्ते शिरसा पादौ स्पृष्ट्वा भीष्मस्य पाण्डवः । 017a
धर्म्यं धर्मसुतः प्रश्नं पर्यपृच्छद्युधिष्ठिरः ॥ 017c
के देशाः के जनपदा आश्रमाः के च पर्वताः । 018a
प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यः पितामह ॥ 018c
भीष्म उवाच । 019
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 019a
शिलोञ्छवृत्तेः संवादं सिद्धस्य च युधिष्ठिर ॥ 019c
इमां कश्चित्परिक्रम्य पृथिवीं शैलभूषणाम् । 020a
असकृद्द्विपदां श्रेष्ठः श्रेष्ठस्य गृहमेधिनः ॥ 020c
शिलवृत्तेर्गृहं प्राप्तः स तेन विधिनाऽर्चितः । 021a
उवास रजनीं तत्र सुमुखः सुखभागृषिः ॥ 021c
शिलवृत्तिस्तु यत्कृत्यं प्रातस्तत्कृतवाञ्शुचिः । 022a
कृतकृत्यमुपातिष्ठत्सिद्धं तमतिथिं तदा ॥ 022c
तौ समेत्य महात्मानौ सुखासीनौ कथाः शुभाः । 023a
चक्रतुर्वेदसम्बद्धास्तच्छेषकृतलक्षणाः ॥ 023c
शिलवृत्तिः कथान्ते तु सिद्धमामन्त्र्य यत्नतः । 024a
प्रश्नं पप्रच्छ मेधावी यन्मां त्वं परिपृच्छसि ॥ 024c
शिलवृत्तिरुवाच । 025
के देशाः के जनपदाः केऽऽश्रमाः के च पर्वताः । 025a
प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यस्तदुच्यताम् ॥ 025c
सिद्ध उवाच । 026
ते देशास्ते जनपदास्तेऽऽश्रमास्ते च पर्वताः । 026a
येषां भागीरथी गङ्गा मध्येनैति सरिद्वरा ॥ 026c
तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः । 027a
गतिं तां न लभेज्जन्तुर्गङ्गां संसेव्य यां लभेत् ॥ 027c
स्पष्टानि येषां गाङ्गेयैस्तोयैर्गात्राणि देहिनाम् । 028a
न्यस्तानि न पुनस्तेषां त्यागः स्वर्गाद्विधीयते ॥ 028c
सर्वाणि येषां गाङ्गेयैस्तोयैः कार्याणि देहिनाम् । 029a
गां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति ते जनाः ॥ 029c
पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः । 030a
पश्चाद्गङ्गां निषेवन्ते तेऽपि यान्त्युत्तमां गतिम् ॥ 030c
'युक्ताश्च पातकैस्त्यक्त्वा देहं शुद्धा भवन्ति ते । 031a
मुच्यन्ते देहसन्त्यागाद्गङ्गायमुनसङ्गमे ॥' 031c
स्नातानां शुचिभिस्तोयैर्गाङ्गेयैः प्रयतात्मनाम् । 032a
व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि ॥ 032c
यावदस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति । 033a
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ 033c
अपहत्य तमस्तीव्रं यथा भात्युदये रविः । 034a
तथाऽपहत्य पाप्मानं भाति गङ्गाजलोक्षितः ॥ 034c
विसोमा इव शर्वर्यो विपुष्पास्तरवो यथा । 035a
तद्वद्देशा दिशश्चैव हीना गङ्गाजलैः शिवैः ॥ 035c
वर्णाश्रमा यथा सर्वे धर्मज्ञानविवर्जिताः । 036a
क्रतवश्च यथाऽसोमास्तथा गङ्गां विना जगत् ॥ 036c
यथा हीनं नभोऽर्केण भूः शैलैः खं च वायुना । 037a
तथा देशा दिशश्चैव गङ्गाहीना न संशयः ॥ 037c
त्रिषु लोकेषु ये केचित्प्राणिनः सर्व एव ते । 038a
तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः शुभैः ॥ 038c
'अन्ये च देवा मुनयः प्रेतानि पितृभिः सह । 039a
तर्पितास्तृप्तिमायान्ति त्रिषु लोकेषु सर्वशः ॥' 039c
यस्तु सूर्येण निष्टप्तं गाङ्गेयं पिबते जलम् । 040a
गवां निर्हरनिर्मुक्ताद्यावकात्तद्विशिष्यते ॥ 040c
इन्द्रव्रतसहस्रं तु यश्चोरत्कायशोधनम् । 041a
पिबेद्यश्चापि गङ्गाम्भः समौ स्यातां न वा समौ ॥ 041c
तिष्ठेद्युगसहस्रं तु पदेनैकेन यः पुमान् । 042a
मासमेकं तु गङ्गायां समौ स्यातां न वा सभौ ॥ 042c
लम्बतेऽवाक्शिरा यस्तु युगानामयुतं पुमान् । 043a
तिष्ठेद्यथेष्टं यश्चापि गङ्गायां स विशिष्यते ॥ 043c
अग्नौ प्रास्तं प्रधूयेत यथा तूलं द्विजोत्तम । 044a
तथा गङ्गावगाढस्य सर्वपापं प्रधूयते ॥ 044c
भूतानामिह सर्वेषां दुःखोपहतचेतसाम् । 045a
गतिमन्वेषमाणानां न गङ्गासदृशी गतिः ॥ 045c
भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात् । 046a
गङ्गाया दर्शनातद्वत्सर्वपापैः प्रमुच्यते ॥ 046c
अप्रतिष्ठाश्च ये केचिदधर्मशरणाश्च ये । 047a
येषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च । 047c
प्रकृष्टैरशुभैर्ग्रस्ताननेकैः पुरुषाधमान् । 048a
पततो नरके गङ्गा संश्रितान्प्रेत्य तारयेत् ॥ 048c
ते संविभक्ता मुनिभिर्नूनं देवैः सवासवैः । 049a
येऽभिगच्छन्ति सततं गङ्गां मतिमतांवर ॥ 049c
विनयाचारहीनाश्च अशिवाश्च नराधमाः । 050a
ते भवन्ति शिवा विप्र ये वै गङ्गामुपाश्रिताः ॥ 050c
यथा सुराणाममृतं पितॄणां च यथा स्वधा । 051a
सुधा यथा च नागानां तथा गङ्गाजलं नृणाम् ॥ 051c
उपासते यथा बाला मातरं क्षुधयाऽर्दिताः । 052a
श्रेयस्कामास्तथा गङ्गामुपासन्तीह देहिनः ॥ 052c
स्वायम्भुवं यथा स्थानं सर्वेषां श्रेष्ठमुच्यते । 053a
स्थानानां सरितां श्रेष्ठा गङ्गा तद्वदिहोच्यते ॥ 053c
'उपजीव्या यथा धेनुर्लोकानां ब्राह्ममेव वा । 054a
हविषां तु यथा सोमस्तरणेषु तथा त्वियम् ॥ 054c
यथोपजीविनां धेनुर्देवादीनां परा स्मृता । 055a
तथोपजीविनां गङ्गा सर्वप्राणभृतामिह ॥ 055c
देवाः सोमार्कसंस्थानि यथा सत्रादिभिर्मखैः । 056a
अमृतान्युपजीवन्ति तथा गङ्गाजलं नराः ॥ 056c
जाह्नवीपुलिनोत्थाभिः सिकताभिः समुक्षितम् । 057a
आत्मानं मन्यते लोको दिविष्ठमिव शोभितम् ॥ 057c
जाह्नवीतीरसम्भूतां मृदं मूर्ध्ना बिभर्ति यः । 058a
बिभर्ति रूपं सोऽर्कस्य तमोनाशाय निर्मलम् ॥ 058c
गङ्गोर्मिभिरथो दिग्धः पुरुषं पवनो यदा । 059a
स्पृश्यते सोऽस्य पाप्मानं सद्य एवापकर्षति ॥ 059c
व्यसनैरभितप्तस्य नरस्य विनशिष्यतः । 060a
गङ्गादर्शनजा प्रीतिर्व्यसनान्यपकर्षति ॥ 060c
हंसारावैः कोकरवै रवैरन्यैश्च पक्षिणाम् । 061a
पस्पर्ध गङ्गा गन्धर्वान्पुलिनैश्च शिलोच्चयान् ॥ 061c
हंसादिभिः सुबहुभिर्विविधैः पक्षिभिर्वृताम् । 062a
गङ्गां गोकुलसम्बाधां दृष्ट्वा स्वर्गोऽपि विस्मृतः ॥ 062c
न सा प्रीतिर्दिविष्ठस्य सर्वकामानुपाश्नतः । 063a
सम्भवेद्या परा प्रीतिर्गङ्गायाः पुलिने नृणाम् ॥ 063c
वाङ्मनःकर्मजैर्ग्रस्तः पापैरपि पुमानिह । 064a
वीक्ष्य गङ्गां भवेत्पूतो अत्र मे नास्ति संशयः ॥ 064c
सप्तावरान्सप्त परान्पितॄंस्तेभ्यश्च ये परे । 065a
पुमांस्तारयते गङ्गां वीक्ष्य स्पृष्ट्वाऽवगाह्य च ॥ 065c
श्रुताभिलषिता पीता स्पृष्टा दृष्टाऽवगाहिता । 066a
गङ्गा तारयते नॄणामुभौ वंशौ विशेषतः ॥ 066c
'तत्तीरगानां तपसा श्राद्धपारायणादिभिः । 067a
गङ्गाद्वारप्रभृतिभिस्तत्तीर्थैर्न परं नृणाम् ॥ 067c
सायं प्रातः स्मरेद्गङ्गां नित्यं स्नाने तु कीर्तयेत् । 068a
तर्पणे पितृपूजासु मरणे चापि संस्मरेत् ॥' 068c
दर्शनात्स्पर्शनात्पानात्तथा गङ्गेति कीर्तनात् । 069a
पुनात्यपुण्यान्पुरुषाञ्शतशोऽथ सहस्रशः ॥ 069c
य इच्छेत्सफलं जन्म जीवितं श्रुतमेव च । 070a
स पितॄंस्तर्पयेद्गङ्गामभिगम्य सुरांस्तथा ॥ 070c
न श्रुतैर्न च वित्तेन कर्मणा न च तत्फलम् । 071a
प्राप्नुयात्पुरुषोऽत्यन्तं गङ्गां प्राप्य यदाप्नुयात् ॥ 071c
जात्यन्धैरिह तुल्यास्ते मृतैः पङ्गुभिरेव च । 072a
समर्था ये न पश्यन्ति गङ्गां पुण्यजलां शिवाम् ॥ 072c
भूतभव्यभविष्यज्ञैर्महर्षिभिरुपस्थिताम् । 073a
देवैः सेन्द्रैश्च को गङ्गां नोपसेवेत मानवः ॥ 073c
वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः । 074a
विद्यावद्भिः श्रितां गङ्गां पुमान्को नाम नाश्रयेत् ॥ 074c
उत्कामद्भिश्च यः प्राणैः प्रयतः शिष्टसम्मतः । 075a
चिन्तयेन्मनसा गङ्गां स गतिं परमां लभेत् ॥ 075c
न भयेभ्यो भयं तस्य न पापेभ्यो न राजतः । 076a
आदेहपतनाद्गङ्गामुपास्ते यः पुमानिह ॥ 076c
गगनाद्गां पतन्तीं वै महापुण्यां महेश्वरः । 077a
दधार शिरसा गङ्गां तामेव दिवि सेवते ॥ 077c
अलङ्कृतास्त्रयो लोकाः पथिभिर्विमलैस्त्रिभिः । 078a
यस्तु तस्या जलं सेवेत्क्रतकृत्यः पुमान्भवेत् । 078c
दिवि ज्योतिर्यथाऽऽदित्यः पितॄणां चैव चन्द्रमाः । 079a
देवेशश्च यथा नृणां गङ्गा च सरितां तथा ॥ 079c
मात्रा पित्रा सुतैर्दारैर्विमुक्तस्य धनेन वा । 080a
न भवेद्धि तथा दुःखं यथा गङ्गा वियोगजम् ॥ 080c
नारण्यैर्नेष्टविषयैर्न सुतैर्न धनागमैः । 081a
तथा प्रसादो भवति गङ्गां वीक्ष्य यथा भवेत् ॥ 081c
पूर्णमिन्दुं यथा दृष्ट्वा नृणां दृष्टिः प्रसीदति । 082a
तथा त्रिपथगां दृष्ट्वा नृणां दृष्टिः प्रसीदति ॥ 082c
तद्भावस्तद्गतमनास्तन्निष्ठस्तत्परायणः । 083a
गङ्गां योऽनुगतो भक्त्या स तस्याः प्रियतां व्रजेत् ॥ 083c
भूस्थैः खस्थैर्दिविष्ठैश्च भूतैरुच्चावचैरपि । 084a
गङ्गा विगाह्या सततमेतत्कार्यतमं सताम् ॥ 084c
विश्वलोकेषु पुण्यत्वाद्गङ्गायाः प्रथितं यशः । 085a
'दुर्मृताननपत्यांश्च सा मृताननयद्दिवम् ।' 085c
यत्पुत्रान्सगरस्येतो भस्माख्याननयद्दिवम् ॥ 085e
वाय्वीरिताभिः सुमनोहराभिर्द्रुताभिरत्यर्थसमुत्थिताभिः । 086a
गङ्गोर्मिभिर्भानुमतीभिरिद्धाः सहस्ररश्मिप्रतिमा भवन्ति ॥ 086c
पयस्विनीं घृतिनीमत्युदारां समृद्धिनीं वेगिनीं दुर्विगाह्याम् । 087a
गङ्गां गत्वा यैः शरीरं विसृष्टं गता धीरस्ते विबुधैः समत्वम् ॥ 087c
अन्धाञ्जडान्द्रव्यहीनांश्च गङ्गा यशस्विनी बृहती विश्वरूपा । 088a
देवैः सेन्द्रैर्मुनिभिर्मानवैश्च निषेविता सर्वकामैर्युनक्ति ॥ 088c
ऊर्जस्वतीं मधुमतीं महापुण्यां त्रिवर्त्मगाम् । 089a
त्रिलोकगोप्त्रीं ये गङ्गां संश्रितास्ते दिवं गताः ॥ 089c
यो वत्स्यति द्रक्ष्यति वाऽपि मर्त्यस्तस्मै प्रयच्छन्ति सुखानि देवाः । 090a
तद्भाविताः स्पर्शनदर्शनेन इष्टां गतिं तस्य सुरा दिशन्ति ॥ 090c
दक्षां पृश्निं बृहतीं विप्रकृष्टां शिवामृद्धां भागिनीं सुप्रसन्नाम् । 091a
विभावरीं सर्वभूतप्रतिष्ठां गङ्गां गता ये त्रिदिवं गतास्ते ॥ 091c
ख्यातिर्यस्याः खं दिवं गां च नित्यामूर्ध्वं दिशो विदिशश्चावतस्थे । 092a
तस्या जलं सेव्य सरिद्वराया मर्त्याः सर्वे कृतकृत्या भवन्ति ॥ 092c
इयं गङ्गेति नियतं प्रतिष्ठागुहस्य रुक्मस्य च गर्भयोषा । 093a
प्रातस्त्रिवर्गा घृतवहा विपाप्मागङ्गाऽवतीर्णा वियतो विश्वतोया ॥ 093c
'नारायणादक्षयात्पूर्वजाता विष्णोः पादाच्छिंशुमाराद्ध्रुवाच्च । 094a
सोमात्सूर्यान्मेरुरूपाच्च विष्णोः समागता शिवमूर्ध्नो हिमाद्रिम् । 094c
सत्यावती द्रव्यपरस्य वर्या दिवो भुवश्चापि वीक्ष्यानुरूपा ॥' 094e
सुताऽवनीध्रस्य हरस्य भार्या दिवो भुवश्चापि कृतानुरूपा । 095a
भव्या पृथिव्यां भागिनी चापि राजन्गङ्गा लोकानां पृण्यदा वै त्रयाणाम् ॥ 095c
मधुस्रवा घृतधारा घृतार्चिर्महोर्मिभिः शोभिता ब्राह्मणैश्च । 096a
दिवश्च्युता शिरसाऽऽप्ता शिवेन गङ्गाऽवनीध्रात्त्रिदिवस्य माता ॥ 096c
योनिर्वरिष्ठा विरजा वितन्वी शय्याऽचिरा वारिवहा यशोदा । 097a
विश्वावती चाकृतिरिष्टसिद्धा गङ्गोक्षितानां भुवनस्य पन्थाः ॥ 097c
क्षान्त्या मह्या गोपने धारणे च दीप्त्या कृशानोस्तपनस्य चैव । 098a
तुल्या गङ्गा सम्मता ब्राह्मणानां गुहस्य ब्रह्मण्यतया च नित्यम् ॥ 098c
ऋषिष्टुतां विष्णुपदीं पुराणां सुपुण्यतोयां मनसाऽपि लोके । 099a
सर्वात्मना जाह्नवीं ये प्रपन्नास्ते ब्रह्मणः सदनं सम्प्रयाताः ॥ 099c
लोकानिमान्नयति या जननीव पुत्रान्सर्वात्मना सर्वगुणोपपन्ना । 100a
तत्स्थानकं ब्राह्ममभीप्समानैर्गङ्गा सदैवात्मवशैरुपास्या ॥ 100c
'न तैर्जुष्टां स्पृशतीं विश्वतोयामिरावज्ञां रवेतीं भूधराणाम् ।' 101a
उस्रां पुष्टां मिषतीं विश्वभोज्यामिरावतीं धारिणीं भूधराणाम् । 101c
शिष्टाश्रयाममृतां ब्रह्मकान्तां गङ्ङ्गां श्रयेदात्मवान्सिद्धिकामः ॥ 101e
प्रसाद्य देवान्सविभून्समस्तान्भगीरथस्तपसोग्रेण गङ्गाम् । 102a
गामानयत्तामभिगम्य शश्वत्पुंसां भयं नेह चामुत्र विद्यात् ॥ 102c
उदाहृतः सर्वथा ते गुणानां मयैकदेशः प्रसमीक्ष्य बृद्ध्या । 103a
शक्तिर्न मे काचिदिहास्ति वक्तुं गुणान्सर्वान्परिमातुं तथैव ॥ 103c
मेरोः समुद्रस्य च सर्वयत्नैः सङ्ख्योपलानामुदकस्य वाऽपि । 104a
शक्यं वक्तुं नेह गङ्गाजलानां गुणाख्यानं परिमातुं तथैव ॥ 104c
तस्मादेतान्परया श्रद्धयोक्तान्गुणान्सर्वाञ्जाह्नवीयान्सदैव । 105a
भवेद्वाचा मनसा कर्मणा च भक्त्या युक्तः श्रद्धया श्रद्दधानः ॥ 105c
लोकानिमांस्त्रीन्यशसा वितत्य सिद्धिं प्राप्य महतीं तां दुरापाम् । 106a
गङ्गाकृतानचिरेणैव लोकान्यथेष्टमिष्टान्विहरिष्यसि त्वम् ॥ 106c
तव मम च गुणैर्महानुभावा जुषतु मतिं सततं स्वधर्मयुक्तैः । 107a
अभिमतजनवत्सला हि गङ्गा जगति युनक्ति सुखैश्च भक्तिमन्तम् ॥ 107c
भीष्म उवाच । 108
इति परममतिर्गुणानशेषाञ्शिलरतये त्रिपथानुयोगरूपान् । 108a
बहुविधमनुशास्य तथ्यरूपान्गगनतलं द्युतिमान्विवेश सिद्धः ॥ 108c
शिलवृत्तिस्तु सिद्धस्य वाक्यैः सम्बोधितस्तदा । 109a
गङ्गामुपास्य विधिवत्सिद्धिं प्राप सुदुर्लभाम् ॥ 109c
तथा त्वमपि कौन्तेय भक्त्या परमया युतः । 110a
गङ्गामभ्येहि सततं प्राप्स्यसे सिद्धिमुत्तमाम् ॥ 110c
वैशम्पायन उवाच । 111
श्रुत्वेतिहासं भीष्मोक्तं गङ्गायाः स्तवसंयुतम् । 111a
युधिष्ठिरः परां प्रीतिमगच्छद्धातृभिः सह ॥ ॥ 111c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चषष्टितमोऽध्यायः ॥ 65 ॥

13-65-2 यदाऽपृच्छत्तदैवाजग्मुरिति द्वितीयेन यत्तदोरध्याहारेणान्वयः ॥ 13-65-16 महाभाग्यं योगैश्वर्यं खेचरत्वान्तर्धानशक्त्यादिसिद्धिमत्त्वम् ॥ 13-65-18 देशाः भूमिभागाः । जनपदाः महाजननिवासस्थानानि । आश्रमाः ऋषिस्थानानि ॥ 13-65-26 ते देशा इति प्रकृष्टाः पुण्यत इत्यनुषङ्गः ॥ 13-65-28 गात्राण्यस्थीनि । न्यस्तानि गङ्गायाम् । त्यक्तानि यानि वै तेषां त्यागात्स्वर्गो विधीयते इति ध. पाठः ॥ 13-65-32 व्युष्टिः पुण्यवृद्धिः ॥ 13-65-33 यावदस्थि मनुष्याणामिति थ.ध. पाठः ॥ 13-65-40 गवां निर्हार आहारनिर्गमनमार्गस्ततो निर्मुक्तं यावकं यवविकारस्तस्मात् । गां यवानादयित्वा तच्छकृदन्तर्गतान् यवान् पक्त्वा भुञ्जानो यावकव्रतीत्युच्यते ॥ 13-65-41 इन्दुव्रतं चान्द्रायणम् ॥ 13-65-44 धूयते दूरे जायते भस्मीभूयापि न शिव्यते इत्यर्थः ॥ 13-65-63 कामान् भोगान् ॥ 13-65-81 उपस्थितां नित्यं सेविताम् ॥ इष्टं यागादि तत्प्राप्यैरिष्टविषयैः स्वर्ग्यैः ॥ 13-65-83 इद्धाः निर्दोषत्वेन दीप्ताः ॥ 13-65-87 पयोघृते यागीये हविषी समृद्धिर्यागफलं तद्वतीम् । यागादिजं पुण्यं तत्फलं स्वर्गादि च गङ्गाप्राप्त्यैव लभ्यत इत्यर्थः ॥ 13-65-89 ऊर्क् अन्नपश्वादिः तत्प्रदामित्यर्थः । मधु कर्मफलं ब्रह्म वा तत्प्रदां मधुमतीम् ॥ 13-65-90 योगं गामिति शेषः । तथा गङ्गया भाविताः महत्त्वं गताः देवाः । स्पर्शनदर्शनेन गङ्गाया एव ॥ 13-65-91 दक्षां तारणसमर्थाम् । पृश्निं विष्णुमातरम् । बृहतीं वाचम् । वाग्वै बृहतीतिश्रुतेः । भागिनीं भनानामैश्वर्यादीनां षण्णां समूहो भागं तद्वतीम् । विभावरीं प्रकाशिकाम् ॥ 13-65-93 गङ्गां दृष्ट्वा इयं गङ्गेति अन्यान् गङ्गां दर्शयतः पुरुषस्य नियतं नियमेन गङ्गैव प्रतिष्ठा संसारावसानहेतुर्भवति । गुहस्य कार्तिकेयस्य रुक्मस्य स्वर्णस्य च गर्भयोषा गर्भधारिणी स्त्री । वियतः सकाशात्प्रातरवतीर्णा त्रिवर्गा धर्मार्थकामदा । धृतवहा जलवाहिनी । विश्वतोया विश्वप्रियतोया ॥ 13-65-95 अवनीध्रस्य मेरोः हिमवतो वा पर्वतस्य । कृतं अनुरूपं अलङ्कारो यया सा कृतानुरूपा ॥ 13-65-96 मधुस्रवा धर्मद्रवा । घृतधारा तेजोधारा घृतार्चिः आज्यस्येव अर्चिर्वा यस्याः । सा अवनीध्रात् पृथिवीं प्राप्तेति शेषः ॥ 13-65-97 वरिष्ठा योनिः परमकारणम् । विरजा निर्मला । वितन्वी विशेषेण तन्वी सूक्ष्मा । शय्या दीर्घनिद्रा तल्पः । मरणं जाह्नवीतट इति वचनात् । अचिरा शीघ्रा । विश्वावती विश्वं अवन्ती पालयन्ती । नुमभाव आर्षः । इष्टसिद्धा इष्टाः सिद्धा यस्याः सा, सिद्धानामिष्टा इति वा । उक्षेतानां स्नातानाम् । भुवनस्य स्वर्गस्य । पुष्पाविला परिवाहा यशोदेति ध. पाठः ॥ 13-65-98 क्षान्त्यादित्रये मह्या तुल्येति सम्बन्धः । गुहस्य कुमारस्य सम्मता । ब्रह्मण्यतया ब्राह्मणजात्यनुग्राहकतया ॥ 13-65-99 मनसापि प्रपन्नाः किमुत साक्षात् ॥ 13-65-101 उस्रां धेनुममृतदुघामिति यावत् । मिषतीं पश्यन्तीं सर्वज्ञामित्यर्थः । इरावतीमन्नवतीम् । ब्रह्मणोपि कान्तो चेतोहराम् ॥ 13-65-102 सविभून् सेश्वरान् । गां पृथ्वीम् ॥ 13-65-103 मदुक्तान् गङ्गागुणान् ज्ञात्वा वागादिभिः स्तोत्रध्यानस्नानादिषु श्रद्ददानो भवेदिती सम्बन्धः । गङ्गाकृतान् गङ्गासेवनप्राप्तान् । इष्टान् सङ्कल्पसिद्धान् । 13-65-107 महानुभावा गङ्गा मतिं जुषतु प्रीणातु । गङ्गादर्शनादिना मतिः प्रसीदत्वित्यर्थः । अभिमतः श्रद्धालुः ॥