अध्यायः 064
भीष्मेण युधिष्ठिरमं प्रति नद्यादितीर्थानां तत्तन्नामविशेषनिर्देशेन तत्सेवनफलप्रतिपादकगौतमाङ्गिरःसंवादानुवादः ॥ 1 ॥
युधिष्ठिर उवाच । 001
तीर्थानां दर्शनं श्रेयः स्नानं च भरतर्षभ । 001a
श्रवणं च महाप्राज्ञ श्रोतुमिच्छामि तत्त्वतः । 001c
पृथिव्यां यानि तीर्थानि पुण्यानि भरतर्षभ । 002a
वक्तुमर्हसि मे तानि श्रोताऽस्मि नियतं प्रभो ॥ 002c
भीष्म उवाच । 003
इममङ्गिरसा प्रोक्तं तीर्थवंशं महाद्युते । 003a
श्रोतुमर्हसि भद्रं ते प्राप्स्यसे धर्ममुत्तमम् ॥ 003c
तपोवनगतं विप्रमभिगम्य महामुनिम् । 004a
पप्रच्छाङ्गिरसं धीरं गौतमः संशितव्रतः । 004c
अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः । 005a
तत्सर्वं श्रोतुमिच्छामि तन्मे शंस महामुने ॥ 005c
उपस्पृश्य फलं किं स्यात्तेषु तीर्थेषु वै मुने । 006a
प्रेत्यभावे महाप्राज्ञ तद्यथाऽस्ति तथा वद ॥ 006c
अङ्गिरा उवाच । 007
सप्ताहं चन्द्रभागां वै वितस्तामूर्मिमालिनीम् । 007a
विगाह्य वै निराहारो निर्मलो मुनिवद्भवेत् ॥ 007c
काश्मीरमण्डले नद्यो याः पतन्ति महास्वनम् । 008a
ता नदीः सिन्धुमासाद्य शीलवान्स्वर्गमाप्नुयात् ॥ 008c
पुष्करं च प्रभासं च नैमिषं सागरोदकम् । 009a
देविकामिन्द्रमार्गं च स्वर्णबिन्दुं विगाह्य च ॥ 009c
विबोध्यते विमानस्थः सोऽप्सरोभिरभिष्टुतः । 010a
हिरण्यबिन्दुमालक्ष्य प्रयतश्चाभिवाद्य च ॥ 010c
कुशेशये च देवत्वं धूयते तस्य किल्बिषम् । 011a
इन्द्रतोयां समासाद्य गन्धमादनसन्निधौ ॥ 011c
करतोयां कुरङ्गे च त्रिरात्रोपोषितो नरः । 012a
अश्वमेधमवाप्नोति विगाह्य प्रयतः शुचिः ॥ 012c
गङ्गाद्वारे कुशावर्ते बिल्वके नीलपर्वते । 013a
तथा कनखले स्नात्वा धूतपाप्मा दिवं व्रजेत् ॥ 013c
अपां ह्रद उपस्पृश्य वाजिमेधफलं लभेत् । 014a
ब्रह्मचारी जितक्रोधः सत्यसन्धस्त्वहिंसकः ॥ 014c
यत्र भागीरथी गङ्गा वहते दिशमुत्तरम् । 015a
महेश्वरस्य त्रिस्थाने यो नरस्त्वभिषिच्यते ॥ 015c
एकमासं निराहारः स पश्यति हि देवताः । 016a
सप्तगङ्गे त्रिगङ्गे च इन्द्रमार्गे च तर्पयन् ॥ 016c
अर्थान्वै लभते भोक्तुं यो नरो जायते पुनः । 017a
महाश्रम उपस्पृश्य योऽग्निहोत्रपरः शुचिः ॥ 017c
एकमासं निराहारः सिद्धिं मासेन स व्रजेत् । 018a
महाह्रद उपस्पृश्य भृगुतुङ्गे त्वलोलुपः ॥ 018c
त्रिरात्रोपोषितो भूत्वा मुच्यते ब्रह्महत्यया । 019a
कन्याकूप उपस्पृश्य बलाकायां कृतोदकः ॥ 019c
देवेषु लभते कीर्तिं यशसा च विराजते ॥ 020ac
देविकायामुपस्पृश्य तथा सुन्दरिकाह्रदे । 021a
अश्विन्यां रूपवर्चस्कं प्रेत्य वै लभते नरः ॥ 021c
महागङ्गामुपस्पृश्य कृत्तिकाङ्गारके तथा । 022a
पक्षमेकं निराहारः स्वर्गमाप्नोति निर्मलः ॥ 022c
वैमानिक उपस्पृश्य किङ्किणीकाश्रमे तथा । 023a
निवासेऽप्सरसां दिव्ये कामचारी महीयते ॥ 023c
कालिकाश्रममासाद्य विपाशायां कृतोदकः । 024a
ब्रह्मचारी जितक्रोधस्त्रिरात्रं मुच्यते भवात् ॥ 024c
आश्रमे कृत्तिकानां तु स्नात्वा यस्तर्पयेत्पितॄन् । 025a
तोषयित्वा महादेवं निर्मलः स्वर्गमाप्नुयात् ॥ 025c
महाकूपमुपस्पृश्य त्रिरात्रोपोषितः शुचिः । 026a
त्रसानां स्थावराणां च द्विपदानां भयं त्यजेत् ॥ 026c
देवदारुवने स्नात्वा धूतपाप्मा कृतोदकः । 027a
देवशब्दमवाप्नोति सप्तरात्रोषितः शुचिः ॥ 027c
शरस्तम्बे कुशस्तम्बे द्रोणशर्मपदे तथा । 028a
अपाम्प्रपतनासेवी सेव्यते सोप्सरोगणैः ॥ 028c
चित्रकूटे जनस्थाने तथा मन्दाकिनीजले । 029a
विगाह्य वै निराहारो राजलक्ष्म्या निषेव्यते ॥ 029c
श्यामायास्त्वाश्रमं गत्वा उषित्वा चाभिषिच्य च । 030a
एकपक्षं निराहारस्त्वन्तर्धानफलं लभेत् ॥ 030c
कौशिकीं तु समासाद्य वायुभक्षस्त्वलोलुपः । 031a
एकविंशतिरात्रेण स्वर्गमारोहते नरः ॥ 031c
मतङ्गवाप्यां यः स्नायादेकरात्रेण सिध्यति । 032a
विगाहति ह्यनालम्बमन्धकं वै सनातनम् ॥ 032c
नैमिषे स्वर्गतीर्थे च उपस्पृश्य जितेन्द्रियः । 033a
फलं पुरुषमेधस्य लभेन्मासं कृतोदकः ॥ 033c
गङ्गाह्रद उपस्पृस्य तथा चैवोत्पलावने । 034a
अश्वमेघमवाप्नोति तत्र मासं कृतोदकः ॥ 034c
गङ्गायमुनयोस्तीर्थे तथा कालञ्जरे गिरौ । 035a
दशाश्वमेधानाप्नोति तत्र मासं कृतोदकः ॥ 035c
यष्टिह्रद उपस्पृश्य चान्नदानाद्विशिष्यते ॥ 036ac
दशतीर्थसहस्राणि तिस्रः कोट्यस्तथाऽपराः । 037a
समागच्छन्ति माघ्यां तु प्रयागे भरतर्षभ ॥ 037c
माघमासं प्रयागे तु नियतः संशितव्रतः । 038a
स्नात्वा तु भरतश्रेष्ठ निर्मलः स्वर्गमाप्नुयात् ॥ 038c
मरुद्गण उपस्पृश्य पितॄणामाश्रमे शुचिः । 039a
वैवस्वतस्य तीर्थे च तीर्थभूतो भवेन्नरः ॥ 039c
तथा ब्रह्मसरो गत्वा भागीरथ्यां कृतोदकः । 040a
एकमासं निराहारः सोमलोकमवाप्नुयात् ॥ 040c
उत्पातके नरः स्नात्वा अष्टावक्रे कृतोदकः । 041a
द्वादशाहं निराहारो नरमेधफलं लभेत् ॥ 041c
अश्मपृष्ठे गयायां च निरविन्दे च पर्वते । 042a
तृतीयां क्रौञ्चपद्यां च ब्रह्महत्यां विशुध्यते 042c
कलविङ्क उपस्पृश्य विद्याच्च बहुशो जलम् । 043a
अग्नेः पुरे नरः स्नात्वा अग्निकन्यापुरे वसेत् ॥ 043c
करवीरपुरे स्नात्वा विशालायां कृतोदकः । 044a
देवह्रद उपस्पृश्य ब्रह्मभूतो विराजते ॥ 044c
पुनरावर्तनन्दां च महानन्दां च सेव्य वै । 045a
नन्दने सेव्यते दान्तस्त्वप्सरोभिरहिंसकः ॥ 045c
उर्वशीं कृत्तिकायोगे गत्वा चैव समाहितः । 046a
लौहित्ये विधिवत्स्नात्वा पुण्डरीकफलं लभेत् ॥ 046c
रामह्रद उपस्पृश्य विपाशायां कृतोदकः । 047a
द्वादशाहं निराहारः कल्मषाद्विप्रमुच्यते ॥ 047c
महाह्रद उपस्पृश्य शुद्धेन मनसा नरः । 048a
एकमासं निराहारो जमदग्निगतिं लभेत् ॥ 048c
विन्ध्ये सन्ताप्य चात्मानं सत्यसन्धस्त्वहिंसकः । 049a
विनयात्तप आस्थाय मासेनैकेन सिध्यति ॥ 049c
'मुण्डे ब्रह्मगवा चैव निरिचिं देवपर्वतम् । 050a
देवह्रदमुपस्पृश्य ब्रह्मभूतो विराजते । 050c
कुमारपदमास्थाय मासेनैकेन शुध्यति ॥' 050e
नर्मदायामुपस्पृश्य तता शूर्पारकोदके । 051a
एकपक्षं निराहारो राजपुत्रो विधीयते ॥ 051c
जम्बूमार्गे त्रिभिर्मासैः संयतः सुसमाहितः । 052a
अहोरात्रेण चैकेन सिद्धिं समधिगच्छति ॥ 052c
कोकामुखे विगाह्याथ गत्वा चाञ्जलिकाश्रमम् । 053a
शाकभक्षश्चीरवासाः कुमारीर्विन्दते दश ॥ 053c
वैवस्वतस्य सदनं न स गच्छेत्कदाचन । 054a
यस्य कन्याह्रदे वासो देवलोकं स गच्छति ॥ 054c
प्रभासे त्वेकरात्रेण अमावास्यां ममाहितः । 055a
सिद्ध्यते तु महाबाहो यो नरो जायतेऽमरः ॥ 055c
उज्जानक उपस्पृस्य आर्ष्टिषेणस्य चाश्रमे । 056a
पिङ्गायाश्चाश्रमे स्नात्वा सर्वपापैः प्रमुच्यते ॥ 056c
कुल्यायां समुपस्पृश्य जप्त्वा चैवाघमर्षणम् । 057a
अश्वमेधमवाप्नोति त्रिरात्रोपोषितो नरः ॥ 057c
पिण्डारक उपस्पृश्य एकरात्रोषितो नरः । 058a
अग्निष्टोममवाप्नोति प्रभातां शर्वरीं शुचिः ॥ 058c
तथा ब्रह्मसरो गत्वा धर्मारण्योपशोभितम् । 059a
पुण्डरीकमवाप्नोति उपस्पृश्य नरः शुचिः ॥ 059c
मैनाके पर्वते स्नात्वा तथा सन्ध्यामुपास्य च । 060a
कामं जित्वा च वै मासं सर्वयज्ञफलं लभेत् ॥ 060c
कालोदकं नन्दिकुण्डं तथा चोत्तरमानसम् । 061a
अभ्येत्य योजनशताद्भ्रूणहा विप्रमुच्यते ॥ 061c
नन्दीश्वरस्य मूर्तिं तु दृष्ट्वा मुच्येत किल्बिषैः । 062a
स्वर्गमार्गे नरः स्नात्वा ब्रह्मलोकं स गच्छति ॥ 062c
विख्यातो हिमवान्पुण्यः शङ्करश्वशुरो गिरिः । 063a
आकरः सर्वरत्नानां सिद्धचारणसेवितः ॥ 063c
'दर्शनाद्गमनात्पूतो भवेदनशनादपि ।' 064a
शरीरमुत्सृजेत्तत्र विधिपूर्वमनाशके ॥ 064c
अध्रुवं जीवितं ज्ञात्वा यो वै वेदान्तगो द्विजः । 065a
अभ्यर्च्य देवतास्तत्र नमस्कृत्य मुनींस्तथा । 065c
ततः क्रोधं च लोभं च यो जित्वा तीर्थमावसेत् । 065e
कामं क्रोधं च लोभं च यो जित्वा तीर्थमावसेत् । 06a
न तेन किञ्चिन्न प्राप्तं तीर्थाभिगमनाद्भवेत् ॥ 066c
यान्यगम्यानि तीर्थानि दुर्गाणि विषमाणि च । 067a
मनसा तानि गम्यानि सर्वतीर्थसमीक्षया ॥ 067c
इदं मेध्यमिदं पुण्यमिदं स्वर्ग्यमनुत्तमम् । 068a
इदं रहस्यं वेदानामाप्लाव्यं पावनं तथा ॥ 068c
इदं दद्याद्द्विजातीनां साधोरात्महितस्य च । 069a
सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य च । 069c
दत्तवान्गौतमस्यैतदङ्गिरा वै महातपाः । 070a
अङ्गिराः समनुज्ञातः काश्यपेन च धीमता ॥ 070c
महर्षीणामिदं जप्यं पावनानां तथोत्तमम् । 071a
जपंश्चाभ्युत्थितः शश्वन्निर्मलः स्वर्गमाप्नुयात् ॥ 071c
इदं यश्चापि शृणुयाद्रहस्यं त्वङ्गिरोमतम् । 072a
उत्तमे च कुले जन्म लभेज्जाजातीश्च संस्मरेत् ॥ ॥ 072c
इति श्रीमन्महाभारते अनुसासनपर्वणि दानधर्मपर्वणि चतुःषष्टितमोऽध्यायः ॥ 64 ॥
13-64-3 तीर्थवंशं तीर्थसङ्घम् ॥ 13-64-5 तीर्थेभ्यः तीर्थान्युद्दिश्य ॥ 13-64-6 प्रेत्यभावे जन्मान्तरे ॥ 13-64-7 मुनिवद्भवेत् मुनीनां गतिं लभेतेत्यर्थः ॥ 13-64-8 सिन्धुं समुद्रं पतन्तीत्यन्वयः ॥ 13-64-9 स्वर्गबिन्दुं विगाह्येति थ.ध. पाठः ॥ 13-64-21 रूपवर्चसोः समाहारः रूपवर्चस्कम् । वर्चस्तेजः ॥ 13-64-26 त्रसानां जङ्गमानाम् ॥ 13-64-30 अन्तर्धानफलं गन्धर्वादिभोगम् ॥ 13-64-35 कालाञ्जने गिराविति थ.ध.पाठः ॥ 13-64-37 समागच्छन्त्यगावास्यामिति थ.पाठः ॥ 13-64-46 उर्वशीं उर्वशीतीर्थम् । कृत्तिकायोगे कार्तिक्यां पौर्णमास्याम् ॥ 13-64-68 इदं तीर्थसेवनम् । मेध्यं यज्ञफलप्रदम् । पुण्यं पापघ्नम् ॥ 13-64-70 समनुज्ञातः प्रार्थितः । काश्यपेन एतद्विज्ञातुकामेनेति शेषः ॥