अध्यायः 063
भीष्मेण युधिष्ठिरम्प्रति हिंसाभावेपि ब्रह्महत्याप्राप्तिप्रतिपादकव्यासवचनानुवादः ॥ 1 ॥
युधिष्ठिर उवाच । 001
इदं मे तत्त्वतो राजन्वक्तुमर्हसि भारत । 001a
अहिंसयित्वाऽपि कथं ब्रह्महत्या विधीयते ॥ 001c
भीष्म उवाच । 002
व्यासमामन्त्र्य राजेन्द्र पुरा यत्पृष्टवानहम् । 002a
तत्तेऽहं सम्प्रवक्ष्यामि तदिहैकमनाः शृणु ॥ 002c
चतुर्थस्त्वं वसिष्ठस्य तत्त्वमाख्याहि मे मुने । 003a
अहिंसयित्वा केनेह ब्रह्महत्या विधीयते ॥ 003c
इति पृष्टो मया राजन्पराशरशरीरजः । 004a
अब्रवीन्निपुणो धर्मे निःसंशयमनुत्तमम् ॥ 004c
ब्राह्मणं स्वयमाहूय भिक्षार्थे कृशवृत्तिनम् । 005a
ब्रूयान्नास्तीति यः पश्चात्तं विद्याद्ब्रह्मघातिनम् ॥ 005c
मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत । 006a
वृत्तिं हरति दुर्बुद्धिस्तं विद्याद्ब्रह्मघातिनम् ॥ 006c
गोकुलस्य तृषार्तस्य जलार्थमभिधावतः । 007a
उत्पादयति यो विघ्नं तं विद्याद्ब्रह्मघातिनम् ॥ 007c
यः प्रवृत्तां श्रुतिं सम्यकू शास्त्रं वा मुनिभिः कृतम् । 008a
दूषयत्यनभिज्ञाय तं विद्याद्ब्रह्मघातिनम् ॥ 008c
आत्मजां रूपसम्पन्नां महतीं सदृशे वरे । 009a
न प्रयच्छति यः कन्यां तं विद्याद्ब्रह्मधातिनम् ॥ 009c
अधर्मनिरतो मूढो मिथ्या यो वै द्विजातिषु । 010a
दद्यान्मर्मातिगं शोकं तं विद्याद्ब्रह्मघातिनम् ॥ 010c
चक्षुषा विप्रहीणस्य पङ्गुलस्य जडस्य वा । 011a
हरेत यो वै सर्वस्वं तं विद्याद्ब्रह्मघातिनम् ॥ 011c
आश्रमे वा वने वाऽपि ग्रामे वा यदि वा पुरे । 012a
अग्निं समुत्सृजेन्मोहात्तं विद्याद्ब्रह्मघातिनम् ॥ ॥ 012c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिषष्टितमोऽध्यायः ॥ 63 ॥