अध्यायः 062
भीष्मेण युधिष्ठिरं प्रति दानादिषु पात्रलक्षणानां स्वर्गनरकप्रापकपुण्यपापानां च प्रतिपादनम् ॥ 1 ॥
युधिष्ठिर उवाच । 001
पित्र्यं वाऽप्यथवा दैवं दीयते यत्पितामह । 001a
एतदिच्छाम्यहं ज्ञातुं दत्तं केषु महाफलम् ॥ 001c
भीष्म उवाच । 002
येषां दाराः प्रतीक्षन्ते सुवृष्टिमिव कर्षकाः । 002a
उच्छेषपरिशेषं हि तान्भोजय युधिष्ठिर ॥ 002c
चारित्रनिरता राजन्ये कृशाः कृशवृत्तयः ॥ 003a
अर्थिनश्चोपगच्छन्ति तेषु दत्तं महाफलम् ॥ 003c
तद्भक्तास्तद्गृहा राजंस्तद्बलास्तदपाश्रयाः । 004a
अर्थिनश्च भवन्त्यर्थे तेषु दत्तं महाफलम् ॥ 004c
तस्करेभ्यः परेभ्यो वा हृतस्वा भयदुःखिताः । 005a
अर्थिनो भोक्तुमिच्छन्ति तेषु दत्तं महाफलम् ॥ 005c
अकल्ककस्य विप्रस्य रौक्ष्यात्करकृतात्मनः । 006a
वटवो यस्य भिक्षन्ति तेभ्यो दत्तं महाफलम् ॥ 006c
हृतस्वा हृतदाराश्च ये विप्रा देशसम्प्लवे । 007a
अर्थार्थमभिगच्छन्ति तेभ्यो दत्तं महाफलम् ॥ 007c
व्रतोनो नियमस्थाश्च ये विप्राः श्रुतसम्मताः । 008a
तस्मपाप्त्यर्थमिच्छन्ति तेभ्यो दत्तं महाफलम् ॥ 008c
अत्युत्क्रान्ताश्च धर्मेषु पाषण्डस्रमयेषु च । 009a
कृशप्राणाः कृशघनास्तेभ्यो दत्तं महाफलम् ॥ 009c
कृतसर्वस्वहरणा निर्दोषाः प्रभविष्णुभिः । 010a
स्पृहयन्ति च भुक्त्वाऽन्नं तेषुदत्तं महाफलम् ॥ 010c
तपस्विनस्तपोनिष्ठास्तेषां भैक्षचराश्च ये । 011a
अर्थिनः किञ्चिदिच्छन्ति तेषु दत्तं महाफलम् ॥ 011c
महाफलविधिर्दाने श्रुतस्ते भरतर्षभ । 012a
निरयं येन गच्छन्ति स्वर्गं चैव हि तत्छृणु ॥ 012c
'व्रतानां पारणार्थाय गुर्वर्थे यज्ञदक्षिणाम् । 013a
निर्वेशार्थं च विद्वांसस्तेषां दत्तं महाफलम् ॥ 013c
पित्रोश्च रक्षणार्थाय पुत्रदारार्थमेव वा । 014a
महाव्याधिविमोक्षार्थं तेषु दत्तं महाफलम् ॥ 014c
बालाः स्त्रियश्च वाञ्छन्ति सुभक्तं चाप्यसाधनाः । 015a
स्वर्गमायान्ति दत्त्वैषां निरयान्नोपयान्ति ते ॥' ॥ 015c
गुर्वर्थमभयार्थं वा वर्जयित्वा युधिष्ठिर । 016a
येऽनृतं कथयन्ति स्म ते वा निरयगामिनः ॥ 016c
परदाराभिहर्तारः परदाराभिमर्शिनः । 017a
परदारप्रयोक्तास्ते वै निरयगामिनः ॥ 017c
ये परस्वापहर्तारः परस्वानां च नाशकाः । 018a
सूचकाश्च परेषां ये ते वै निरयगामिनः ॥ 018c
प्रपाणां च सभानां च सङ्क्रमाणां च भारत । 019a
अगाराणां च भेत्तारो नरा निरयगामिनः ॥ 019c
अनाथां प्रमदां बालां वृद्धां भीतां तपस्विनीम् । 020a
वञ्चयन्ति नरा ये च ते वै निरयगामिनः ॥ 020c
वृत्तिच्छेदं गृहच्छेदं दारच्छेदं च भारत । 021a
मित्रच्छेदं तथाऽऽशायास्ते वै निरयगामिनः ॥ 021c
सूचकाः सेतुभेत्तारः परवृत्त्युपजीवकाः । 022a
अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः ॥ 022c
पाषण्डा दूषकाश्चैव समयानां च दूषकाः । 023a
ये प्रत्यवसिताश्चैव ते वै निरयगामिनः ॥ 023c
विषमव्यवहाराश्च विषमाश्चैव वृद्धिषु । 024a
लाभेषु विषमाश्चैव ते वै निरयगामिनः ॥ 024c
दूतसंव्यवहाराश्च निष्परीक्षाश्च मानवाः । 025a
प्राणिहिंसाप्रवृत्ताश्च ते वै निरयगामिनः ॥ 025c
कृताशं कृतनिर्देशं कृतभक्तं कृतश्रमम् । 026a
भेदैर्ये व्यपकर्षन्ति ते वै निरयगामिनः ॥ 026c
पर्यश्नन्ति च ये दारानग्निभृत्यातिथींस्तथा । 027a
उत्सन्नपितृदेवेज्यास्ते वै निरयगामिनः ॥ 027c
वेदविक्रयिणश्चैव वेदानां चैव दूषकाः । 028a
वेदानां लेखकाश्चैव ते वै निरयगामिनः ॥ 028c
चातुराश्रम्यबाह्याश्च श्रुतिबाह्याश्च ये नराः । 029a
विकर्मभिश्च जीवन्ति ते वै निरयगामिनः ॥ 029c
केशविक्रयिका राजन्विषविक्रयिकाश्च ये । 030a
क्षीरविक्रयिकाश्चैव ते वै निरयगामिनः ॥ 030c
ब्राह्मणानां गवां चैव कन्यानां च युधिष्ठिर । 031a
येऽन्तरायान्ति कार्येषु ते वै निरयगामिनः ॥ 031c
शस्त्रविक्रयिकाश्चैव कर्तारश्च युधिष्ठिर । 032a
शल्यानां धनुषां चैव ते वै निरयगामिनः ॥ 032c
शिलाभिः शङ्कुभिर्वाऽपि श्वर्भ्रैर्वा भरतर्षभ । 033a
ये मार्गमनुरुन्धन्ति ते वै निरयगामिनः ॥ 033c
उपाध्यायांश्च भृत्यांश्च भक्तांश्च भरतर्षभ । 034a
ये त्यजन्त्यविकारांस्त्रींस्ते वै निरयगामिनः ॥ 034c
अप्राप्तदमकाश्चैव नासानां वेधकाश्च ये । 035a
बन्धकाश्च पशूनां ये ते वै निरयगामिनः ॥ 035c
अगोप्तारश्च राजानो बलिषड्भागतस्कराः । 036a
समर्थाश्चाप्यदातारस्ते वै निरयगामिनः ॥ 036c
क्षान्तान्दान्तांस्तथा प्राज्ञान्दीर्घकालं सहोषितान् । 037a
त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः ॥ 037c
बालानामथ वृद्धानां दासानां चैव ये नराः । 038a
अदत्त्वा भक्षयन्त्यग्रे ते वै निरयगामिनः ॥ 038c
एते पूर्वं विनिर्दिष्टाः प्रोक्ता निरयगामिनः । 039a
भागिनः स्वर्गलोकस्य वक्ष्यामि भरतर्षभ ॥ 039c
सर्वेष्वेव तु कार्येषु दैवपूर्वेषु भारत । 040a
हन्ति पुत्रान्पशून्कृत्स्नान्ब्राह्मणातिक्रमः कृतः ॥ 040c
दानेन तपसा चैव सत्येन च युधिष्ठिर । 041a
ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः ॥ 041c
शुश्रूषाभिस्तपोभिश्च विद्यामादाय भारत । 042a
ये प्रतिग्रहनिःस्नेहास्ते नराः स्वर्गगामिनः ॥ 042c
भयात्पाषात्तथा बाधाद्दारिद्र्याद्व्याधिधर्षणात् । 043a
तत्कृते धनमीप्सन्ते ते नराः स्वर्गगामिनः ॥ 043c
क्षमावन्तश्च धीराश्च धर्मकार्येषु चोत्थिताः । 044a
मङ्गलाचारसम्पन्नाः पुरुषाः स्वर्गगामिनः ॥ 044c
निवृत्ता मधुमांसेभ्यः परदारेभ्य एव च । 045a
निवृत्ताश्चैव मद्येभ्यस्ते नराः स्वर्गगामिनः ॥ 045c
आश्रमाणां च कर्तारः कुलानां चैव भारत । 046a
देशानां नगराणां च ते नराः स्वर्गगामिनः ॥ 046c
वस्त्राभरणदातारो भक्ष्यपानान्नदास्तथा । 047a
कुटुम्बानां च भर्तारः पुरुषाः स्वर्गगामिनः ॥ 047c
सर्वहिंसानिवृत्ताश्च नराः सर्वसहाश्च ये । 048a
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ॥ 048c
मातरं पितरं चैव शुश्रूषन्ति जितेन्द्रियाः । 049a
भ्रातॄणां चैव सस्नेहास्ते नराः स्वर्गगामिनः ॥ 049c
आढ्याश्च बलवन्तश्च यौवनस्थाश्च भारत । 050a
ये वै जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः ॥ 050c
अपराधिषु सस्नेहा मृदवो मृदुवत्सलाः । 051a
आराधनसुखाश्चापि पुरुषाः स्वर्गगामिनः ॥ 051c
सहस्रपरिवेष्टारस्तथैव च सहस्रदाः । 052a
त्रातारश्च सहस्राणां ते नराः स्वर्गगामिनः ॥ 052c
सुवर्णस्य च दातारो गवां च भरतर्षभ । 053a
यानानां वाहनानां च ते नराः स्वर्गगामिनः ॥ 053c
वैवाहिकानां द्रव्याणां प्रेष्याणां च युधिष्ठिर । 054a
दातारो वाससां चैव ते नराः स्वर्गगामिनः ॥ 054c
विहारावसथोद्यानकूपारामसभाप्रपाः । 055a
वप्राणां चैव कर्तारस्ते नराः स्वर्गगामिनः ॥ 055c
निवेशनानां क्षेत्राणां वसतीनां च भारत । 056a
दातारः प्रार्थितानां च ते नराः स्वर्गगामिनः ॥ 056c
रसानां चाथ बीजानां धान्यानां च युधिष्ठिर । 057a
स्वयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः ॥ 057c
यस्मिंस्तस्मिन्कुले जाता बहुपुत्राः शतायुषः । 058a
सानुक्रोशा जितक्रोधाः पुरुषाः स्वर्गगामिनः ॥ 058c
एतदुक्तममुत्रार्थं दैवं पित्र्यं च भारत । 059a
दानधर्मं च दानस्य यत्पूर्वमृषिभिः कृतम् ॥ ॥ 059c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विषष्टितमोऽध्यायः ॥ 62 ॥
13-62-2 भोजनपात्रेऽवशिष्टमुच्छेषः तेन सहितं परिशेषं स्थाल्यामवशिष्टं प्रतीक्षन्ते । येषां पाकपर्याप्तमेव धान्यादिकमस्ति न कुसूलादौ तान् भोजय ॥ 13-62-4 तद्भक्ताः चारित्रमेव भक्तोऽन्नं तद्वज्जीवनं येषां ते । तद्गृहाः तदेव गृहे स्त्र्यादौ येषान्ते अर्थे प्रयोजने सत्येवार्थिनो भवन्ति न सङ्ग्रहार्थम् ॥ 13-62-6 रौक्ष्यात् दारिद्र्यात् । करे कृतः आत्मेवात्मा जीवनमन्नम् । हस्ते गृहीतान्नस्य वटवः क्षुधार्ताः मह्यं देहि मह्यं देवीति याचन्ते तेभ्योऽतिदरिद्रेभ्यः ॥ 13-62-9 पाषण्डानां समयो मर्यादा येषु धर्मेषु तत्र अत्युत्क्रान्ताः अत्यन्तं ततो दूरे स्थिताः ॥ 13-62-10 भुवत्वान्नमेव स्पृहयन्ति न स्वादु । अतएव न चतुर्थी ॥ 13-62-16 अभयार्थं, भयनिवृत्तिरूपं प्रयोजनम् ॥ 13-62-17 अभिमर्शिनो जाराः । प्रयोक्तारः हर्त्रभिमर्शिनोर्दूताः ॥ 13-62-18 परेषां दोषस्येति शेषः ॥ 13-62-21 आशायाश्छेदमित्येकदेशानुषङ्गः । कुर्वन्तीति शेषः ॥ 13-62-22 सूचकाः राजगामिपैशुन्यवादिनः । सेतुः आर्यमर्यादा ॥ 13-62-23 पाषण्डाः वेदविरोधिनः शाक्यादयः दूषकाः सतां निन्दकाः । समयानां धर्मसङ्केतानाम् । प्रत्यवसिताः आरूढपतिताः ॥ 13-62-26 कृताशं दासमर्थिनं वा । कृतनिर्देशं निर्देशः तुभ्यमिदं दास्यामीति प्रतिज्ञा सा कृता यस्मै तम् । भक्तं वेतनम् । व्यपकर्षन्ति पत्युः सकाशाद्दूरीकुर्वन्ति ॥ 13-62-27 पर्यश्नन्ति । परित्यज्याश्नन्ति ॥ 13-62-29 विकर्मभिः स्वस्य निषिद्धैः कर्मभिः ॥ 13-62-30 केशाश्चामरकम्बलादयः ॥ 13-62-32 कर्तारः शस्त्रशल्यादीनाम् ॥ 13-62-35 अप्राप्तानामदान्तानां पशूनाम् । अण्डमर्दनेन बलवीर्ययोर्नाशका अप्राप्तदमकाः ॥ 13-62-40 ये ब्राह्मणातिक्रमं न कुर्वन्ति ते स्वर्गागामिन इत्यर्थः ॥ 13-62-46 कर्तारः पालनकर्तारः ॥ 13-62-51 आराधनेन इतरान् सुखयन्ति ते तथा ॥ 13-62-57 दानस्य प्रत्यर्पणस्य । दानं च तद्धर्मं चेति शोधको धर्मः दैप् शोधन इति धातुः अमुत्रार्थं परलोकफलम् ॥