अध्यायः 060
भीष्मेण युधिष्ठिरं प्रति दाने पात्राणां लक्षणादिकथनम् ॥ 1 ॥
युधिष्ठिर उवाच । 001
किमाहुर्भरतश्रेष्ठ पात्रं विप्राः सनातनम् । 001a
ब्राह्मणं लिङ्गिनं चैव ब्राह्मणं वाऽप्यलिङ्गिनम् ॥ 001c
भीष्म उवाच । 002
स्ववृत्तिमभिपन्नाय लिङ्गिने चेतराय च । 002a
देयमाहुर्महाराज उभावेतौ तपस्विनौ ॥ 002c
युधिष्ठिर उवाच । 003
श्रद्धया परयाऽपूतो यः प्रयच्छेद्द्विजातये । 003a
हव्यं कव्यं तथा दानं को दोषः स्यात्पितामह ॥ 003c
भीष्म उवाच । 004
श्रद्धापूतो नरस्तात दुर्दान्तोऽपि न संशयः । 004a
पूतो भवति सर्वत्र किमुत त्वं महाद्युते ॥ 004c
युधिष्ठिर उवाच । 005
न ब्राह्मणं परिक्षेत दैवेषु सततं नरः । 005a
कव्यप्रदाने तु बुधाः परीक्ष्यं ब्राह्मणं विदुः ॥ 005c
भीष्म उवाच । 006
न ब्राह्मणः साधयते हव्यं दैवात्प्रसिद्ध्यति । 006a
देवप्रसादादिज्यन्ते यजमानैर्न संशयः ॥ 006c
ब्राह्मणान्भरतश्रेष्ठ सततं ब्रह्मवादिनः । 007a
मार्कण्डेयः पुरा प्राह इति लोकेषु बुद्धिमान् । 007c
'ब्राह्मणाः पात्रभूताश्च शुद्धा नैवं पितृष्विह ॥ 007e
युधिष्ठिर उवाच । 008
अपूर्वोऽप्यथवा विद्वान्सम्बन्धी वा यथा भवेत् । 008a
तपस्वी यज्ञशीलो वा कथं पात्रं भवेत्तु सः ॥ 008c
भीष्म उवाच । 009
कुलीनः कर्मकृद्वैद्यस्तथैवाप्यनृशंस्यवान् । 009a
ह्रीमानृजुः सत्यवादी पात्रं पूर्वे च ये त्रयः ॥ 009c
तत्रेमं शृणु मे पार्थ चतुर्णां तेजसां मतम् । 010a
पृथिव्याः काश्यपस्याग्नेर्मार्कण्डेयस्य चैव हि ॥ 010c
पृथिव्युवाच । 011
यथा महार्णवे क्षिप्तः क्षिप्रं नेष्टुर्विनश्यति । 011a
तथा दुश्चरितं सर्वं त्रयीनित्ये निमज्जति ॥ 011c
काश्यप उवाच । 012
सर्वे च वेदाः सह षङ्भिरङ्गैः साङ्ख्यं पुराणं च कुले च जन्म । 012a
नैतानि सर्वाणि गतिर्भवन्ति शीलव्यपेतस्य नृप द्विजस्य ॥ 012c
अग्निरुवाच । 013
अधीयानः पण्डितम्मन्यमानो यो विद्यया हन्ति यशः परेषाम् । 013a
ब्रह्मन्स तेन लभते ब्रह्मवध्यां लोकास्तस्य ह्यन्तवन्तो भवन्ति ॥ 013c
मार्कण्डेय उवाच । 014
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । 014a
नाभिजानामि यज्ञं तु सत्यस्यार्धमवाप्नुयात् ॥ 014c
भीष्म उवाच । 015
इत्युक्त्वा ते जग्मुराशु चत्वारोऽमिततेजसः । 015a
पृथिवी काश्यपोऽग्निश्च प्रकृष्टायुश्च भार्गवः ॥ 015c
युधिष्ठिर उवाच । 016
यदि ते ब्राह्मणा लोके व्रतिनो भुञ्जते हविः । 016a
दत्तं ब्राह्मणकामाय कथं तत्सुकृतं भवेत् ॥ 016c
भीष्म उवाच । 017
आदिष्टिनो ये राजेन्द्र ब्राह्मणा वेदपारगाः । 017a
भुञ्जते ब्रह्मकामाय व्रतलुप्ता भवन्ति ते ॥ 017c
युधिष्ठिर उवाच । 018
अनेकान्तं बहुद्वारं धर्ममाहुर्मनीषिणः । 018a
किं निमित्तं भवेदत्र तन्मे ब्रूहि पितामह ॥ 018c
भीष्म उवाच । 019
अहिंसा सत्यमकोध आनृशंस्यं दमस्तथा । 019a
आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम् ॥ 019c
ये तु धर्मं प्रशंसन्तश्चरन्ति पृथिवीमिमाम् । 020a
अनाचरन्तस्तद्धर्म सङ्करेऽभिरता प्रभो ॥ 020c
तेभ्यो हिरण्यं रत्नं वा गामश्वं वा ददाति यः । 021a
दशवर्षाणि विष्ठां स भुङ्क्ते निरयमास्थितः ॥ 021c
धनेन पुल्कसानां च तथैवान्तेवसायिनाम् । 022a
कृतं कर्माकृतं वाऽपि रागमोहेन जल्पताम् ॥ 022c
वैश्वदेवं च ये मूढा विप्राय ब्रह्मचारिणे । 023a
न ददन्तीह राजेन्द्र ते लोकान्भुञ्जतेऽशुभान् ॥ 023c
युधिष्ठिर उवाच । 024
किं परं ब्रह्मचर्यं च किं परं धर्मलक्षणम् । 024a
किञ्च श्रेष्ठतमं शौचं तन्मे ब्रूहि पितामह ॥ 024c
भीष्म उवाच । 025
ब्रह्मचर्यं परं तात मधुमांसस्य वर्जनम् । 025a
मर्यादायां स्थितो धर्मः शमः शौचस्य लक्षणम् ॥ 025c
युधिष्ठिर उवाच । 026
कस्मिन्काले चरेद्धर्म कस्मिन्कालेऽर्थमाचरेत् । 026a
कस्मिन्काले सुखी च स्यात्तन्मे ब्रूहि पितामह ॥ 026c
भीष्म उवाच । 027
काल्यमर्थं निषेवेत ततो धर्ममनन्तरम् । 027a
पश्चात्कामं निषेवेत न च गच्छेत्प्रसङ्गिताम् ॥ 027c
ब्राह्मणांश्चैव मन्येत गुरूंश्चाप्यभिपूजयेत् । 028a
सर्वभूतानुलोमश्च मृदुशीलः प्रियंवदः ॥ 028c
अधिकारे यदनृतं यच्च राजसु पैशुनम् । 029a
गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ 029c
प्रहरेन्न नरेन्द्रेषु न हन्याद्गां तथैव च । 030a
भ्रूणहत्यासमं चैतदुभयं ये निषेधते ॥ 030c
नाग्निं परित्यजेज्जातु न च वेदान्परित्यजेत् । 031a
न च ब्राह्मणमाक्रोशेत्समं तद्ब्रह्महत्यया ॥ 031c
युधिष्ठिर उवाच । 032
कीदृशाः साधवो विप्राः केभ्यो दत्तं महाफलम् । 032a
कीदृशानां च भोक्तव्यं तन्मे ब्रूहि पितामह ॥ 032c
भीष्म उवाच । 033
अक्रोधना धर्मपराः सत्यनित्या दमे रताः । 033a
तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् ॥ 033c
अमानिनः सर्वसहा दृढार्था विजितेन्द्रियाः । 034a
सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम् ॥ 034c
अलुब्धाः शुचयो वैद्या ह्रीमन्तः सत्यवादिनः । 035a
स्वकर्मनिरता ये च तेभ्यो दत्तं महाफलम् ॥ 035c
साङ्गांश्च चतुरो वेदानधीते यो द्विजर्षभः । 036a
षड्भ्यः प्रवृत्तः कर्मभ्यस्तं पात्रमृषयो विदुः ॥ 036c
ये त्वेवङ्गुणजातीयास्तेभ्यो दत्तं महाफलम् । 037a
सहस्रगुणमाप्नोति गुणार्हाय प्रदायकः ॥ 037c
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः । 038a
तारयेत कुलं सर्वमेकोऽपीह द्विजर्षभः । 038c
'तृप्ते तृप्ताः सर्वदेवाः पितरो मुनयोपि च ॥' 038e
गामश्वं वित्तमन्नं वा तद्विधे प्रतिपादयेत् । 039a
द्रव्याणि चान्यानि तथा प्रेत्यभावे न शोचति ॥ 039c
तारयेत कुलं सर्वमेकोपि ह द्विजोत्तमः । 040a
किमङ्ग पुनरेवैते तस्मात्पात्रं समाचरेत् ॥ 040c
निशाम्य च गुणोपेतं ब्राह्मणं साधुसम्मतम् । 041a
दूरादानाय्य सत्कृत्य सर्वतश्चापि पूजयेत् ॥ ॥ 041c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षष्टितमोऽध्यायः ॥ 60 ॥
13-60-1 ब्राह्मणं ब्रह्मविदम् । लिङ्गिनं ब्रह्मचारिणं सन्न्यासिनं च दण्डादिलिङ्गवन्तम् ॥ 13-60-3 अपूतोपि परया श्रद्धयां यदि प्रयच्छति तर्हि तस्य दातुरपूतत्वप्रयुक्तः को दोषः स्यात्तं वद ॥ 13-60-4 श्रद्धैवास्य पूतत्वं करोतीत्यर्थः ॥ 13-60-5 श्रद्धैव पूतत्वकर्त्री चेत् कव्ये पात्रपरीक्षा न विधेया स्यादित्याशयः ॥ 13-60-6 हव्यं दैवं कर्म सिध्यति फलदं भवति नतु ब्राह्मणगुणादिति भावः । इज्यन्ते देवा इति शेषः । दैवं कर्म देवानुग्रहादेव पूर्णं भवति । श्रद्धामात्रप्रियत्वाद्देवानामिति भावः ॥ 13-60-7 पित्र्यं तु कर्म ब्राह्मणानुग्रहादेव पूर्णं भवतीति तत्रानुग्रहकर्तरि तपोबलमावश्यकमित्याशयेनाह ब्राह्मणानिति ॥ 13-60-9 त्रयः अपूर्वसम्बन्धितपस्विनः कुलीनत्वादिगुणसप्तकयुक्ता एव पात्रत्वं भजन्ते परिशेषात् ॥ 13-60-10 तेजसां तेजस्विनां सर्वज्ञानामिति यावत् ॥ 13-60-11 नेष्टुः पांसुपिण्डः लोष्ठो विनश्यतीति ध. पाठः ॥ 13-60-15 भार्गवः मार्कण्डेयः ॥ 13-60-16 व्रतिनः ब्रह्मचारिणः । तदीयव्रतनाशात्स्वीयं श्राद्धं दुष्यति नवेति प्रश्नः ॥ 13-60-17 आदिष्टं द्वादशवर्षाणि ब्रह्मचर्यं चरेति गुर्वादेशस्तद्वन्तः । भोक्तुरेव व्रतं लुप्यते । नतु दाता प्रत्यवैति ॥ 13-60-18 अन्तो निष्ठा । अनेकान्तं अनेकफलाकारमित्यर्थः । पात्रगुणानामनन्तत्वात्के गुणा नियमेन पात्रताया निमित्तं तानेव सङ्क्षेपेण ब्रूहीति प्रश्नार्थः ॥ 13-60-22 मेदानां पुल्कसां चेति झ. पाठः । तत्र मेदादीनां स विष्ठां भुङ्क्ते इति सम्बन्धः । मेदा गोमहिष्यादीनां मृतानां मांसमश्नन्तः । पुल्कसा ये ब्राह्मणादीनपि स्वभावादेव हिंसन्ति । अन्तेवसायिनश्चर्मकारादयः । कृतमकृतं वा परकीयं पापं कर्म ॥ 13-60-24 परं श्रेष्ठम् ॥ 13-60-27 काल्यं पूर्वाह्णे ॥ 13-60-39 न शोचति प्रतिपादयन् ॥ 13-60-40 द्विजोत्तमः निर्दोषः । एते पूर्वोक्ता गुणाश्च तत्र यदि लभ्यन्ते तर्हि तारयेतेति किमु ॥