अध्यायः 059

भीष्मेण युधिष्ठिरं प्रति स्त्रीणामपरित्यागपरित्यागप्रयोजकगुणदोषादिप्रतिपादकनारदमार्कण्डेयसंवादानुवादः ॥ 1 ॥

'मार्कण्डेय उवाच । 001
श्रुतं बलं प्रभावश्च योषितां मुनिसत्तम । 001a
एकस्य बहुभार्यस्य धर्ममिच्छामि वेदितुम् ॥ 001c
नारद उवाच । 002
बहुभार्यासु सक्तस्य नारीभोगेषु गेहिनः । 002a
ऋतौ विमुञ्चमानस्य सान्निध्ये भ्रूणहा स्मृतः ॥ 002c
वृद्धां वन्ध्यां सुव्रता च मृतापत्यामपुष्पिणीम् । 003a
कन्यां च बहुपुत्रां च वर्जयन्मुच्यते भयात् ॥ 003c
व्याधितो बन्धनस्थो वा प्रवासेष्वथ पर्वसु । 004a
ऋतुकाले तु नारीणां भ्रूणहत्यां प्रमुञ्चति ॥ 004c
मार्कण्डेय उवाच । 005
वैश्यनारीषु वै जाताः परप्रेष्यासु वा सुताः । 005a
कस्य ते बन्धुदायादा भवन्ति हि महामुने ॥ 005c
नारद उवाच । 006
पण्यस्त्रीषु प्रसूता ये यस्य स्त्री तस्य ते सुताः । 006a
क्रयाच्च कृत्रिमाः पुत्रा प्रदानाच्चैव दत्रिमाः ॥ 006c
मार्कण्डेय उवाच । 007
पण्यनारीष्वनियतः पुंसोऽर्थो वर्तते ध्रुवम् । 007a
अत्र चाहितगर्भायाः कस्य पुत्रं वदन्ति तम् ॥ 007c
नारद उवाच । 008
तीर्थभूतासु नारीषु ज्ञायते योऽभिगच्छति । 008a
ऋतौ तस्य भवेद्गर्भो यं वा नारी न शङ्कते ॥ 008c
मार्कण्डेय उवाच । 009
नराणां त्यजतां भार्यां कामक्रोधाद्गुणान्विताम् । 009a
अप्रसूतां प्रसूतां वा तेषां पृच्छामि निष्कृतिम् ॥ 009c
नारद उवाच । 010
अपापां त्यजमानस्य साध्वीं मत्वा यमादितः । 010a
आत्मवंशस्वधर्मो वा त्यजतो निष्कृतिर्न तु ॥ 010c
यो नरस्त्यजते भार्या पुष्पिणीमप्रसूतिकाम् । 011a
स नष्टवंशः पितृभिर्युक्तस्त्यज्येत दैवतैः ॥ 011c
भार्यामपत्यसञ्जातां प्रसूतां पुत्रपौत्रिणीम् । 012a
पुत्रदारपरित्यागी न स प्राप्नोति निष्कृतिम् ॥ 012c
एवं हि भार्यां त्यजतां नराणां नास्ति निष्कृतिः । 013a
नार्हन्ति प्रमदास्त्यक्तुं पुत्रपौत्रप्रतिष्ठिताः ॥ 013c
मार्कण्डेय उवाच । 014
कीदृशीं सन्त्यजन्भार्यां नरो दोषैर्न लिप्यते । 014a
एतदिच्छामि तत्वेन विज्ञातुमृषिसत्तम ॥ 014c
नारद उवाच । 015
मोक्षधर्मस्थितानां तु अन्योन्यमनुजानताम् । 015a
भार्यापतीनां मुक्तानामधर्मो न विधीयते ॥ 015c
अन्यसङ्गां गतापत्यां शूद्रगां परगामिनीम् । 016a
परीक्ष्य त्यजमानानां नराणां नास्ति पातकम् ॥ 016c
पातकेऽपि तु भर्तव्यौ द्वौ तु माता पिता तथा ॥ 017ac
मार्कण्डेय उवाच । 018
भार्यायां व्यभिचारिण्यां नरस्य त्यजतो रुषा । 018a
कथं धर्मोऽप्यधर्मो वा भवतीह महामते ॥ 018c
नारद उवाच । 019
अनृतेऽपि हि सत्ये वा यो नारीं दूषितां त्यजेत् । 019a
अरक्षमाणः स्वां भार्यां नरो भवति भ्रूणहा ॥ 019c
अपत्यहेतोर्या नारी भर्तारमतिलङ्घयेत् । 020a
लोलेन्द्रियेति सा रक्ष्या न सन्त्याज्या कथञ्चन ॥ 020c
नद्यश्च नार्यश्च समस्वभावा नैताः प्रमुञ्चन्ति नरावगाढाः । 021a
स्रोतांसि नद्यो वहते निपातं नारी रजोभिः पुनरेति शौचम् ॥ 021c
एवं नार्यो न दुष्यन्ति व्यभिचारेऽपि भर्तृणाम् । 022a
मासि मासि भवेद्रागस्ततः शुद्धा भवन्त्युत ॥ 022c
मार्कण्डेय उवाच । 023
कानि तीर्थानि भगवन्नृणां देहाश्रितानि वै । 023a
तानि वै शंस भगवन्याथातथ्येन पृच्छतः ॥ 023c
सर्वतीर्थेषु सर्वज्ञ किं तीर्थं परमं नृणाम् । 024a
यत्रोपस्पृश्य पूतो यो नरो भवति नित्यशः ॥ 024c
नारद उवाच । 025
देवर्षिपितृतीर्थानि ब्राह्मं मध्येऽथं वैष्णवम् । 025a
नृणां तीर्थानि पञ्चाहुः पाणौ सन्निहितानि वै ॥ 025c
आद्यतीर्थं तु तीर्थानां वैष्णवो भाग उच्यते । 026a
यत्रोपस्पृश्य वर्णानां चतुर्णां वर्धते कुलम् । 026c
पितृदैवतकार्याणि वर्धन्ते प्रेत्य चेह च ॥ 026e
मार्कण्डेय उवाच । 027
नराणां कामवृत्तानां या नार्यो निरवग्रहाः । 027a
यासामभिग्रहो नास्ति ता मे कथय नारद ॥ 027c
नारद उवाच । 028
पाशुर्वैश्या नटी गोपी तान्तुकी तुन्नवायिकी । 028a
नारी किराती शबरी नर्तकी चानवग्रहा ॥ 028c
मार्कण्डेय उवाच । 029
एतासु जाता नारीषु सर्ववर्णेषु ये सुताः । 029a
केषु के बन्धुदायादा भवन्ति ऋषिसत्तम ॥ 029c
नारद उवाच । 030
य एताः परिगृह्णन्ति तेषामेव हि ते सुताः । 030a
सर्वत्र तु प्रवृत्तासु बीजं नश्यति देहिनाम् ॥ 030c
मार्कण्डेय उवाच । 031
सर्वस्त्रीषु प्रवृत्ताश्च साधुवेदविवर्जिताः । 031a
मानवाः काण्डपृष्ठाश्च वेदमन्त्रबहिष्कृताः । 031c
नियुक्ता हव्यकव्येषु तेषां दत्तं कथं भवेत् ॥ 031e
नारद उवाच । 032
नार्हन्ति हव्यकव्यानि सावित्रीवर्जिता द्विजाः । 032a
व्रात्येष्वन्नप्रदानं तद्यथा शूद्रेषु वै तथा ॥ 032c
मार्कण्डेय उवाच । 033
धर्मेष्वधिकृतानां तु नराणां मुह्यते मनः । 033a
कथं न विघ्नो भवति एतदिच्छामि वेदितुम् ॥ 033c
नारद उवाच । 034
अर्थाश्च नार्यश्च समानमेतच्छ्रेयांसि पुंसामिह मोहयन्ति । 034a
रतिप्रमोदात्प्रमदा हरन्ति भोगैर्धनं चाप्युपहन्ति धर्मान् ॥ 034c
हव्यं कव्यं च धर्मात्मा सर्वं तच्छ्रोत्रियोऽर्हति । 035a
दत्तं हि श्रोत्रिये साधौ ज्वलिताग्नाविवाहुतिः ॥ 035c
मार्कण्डेय उवाच । 036
श्रोत्रियाणां कुले जाता वेदार्थविदितात्मनाम् । 036a
हित्वा कस्मात्त्रयीं विद्यां वार्तां वृत्तिमुपाश्रिताः ॥ 036c
नारद उवाच । 037
चातुर्वर्ण्यं पुरा न्यस्तं सुविद्वत्सु द्विजातिषु । 037a
तस्माद्वर्णैः संविभज्या वृत्तिः सङ्करवर्जिता ॥ 037c
ये चान्ये श्रोत्रिया जाताः संस्कृताः पुत्रगृध्नुभिः । 038a
पूर्वनिर्वाणनिर्वृत्तां जातां वृत्तिमुपाश्रिताः ॥ 038c
मार्कण्डेय उवाच । 039
असंस्कृताः श्रोत्रियजाः संस्कृता ज्ञानिजाः कथम् । 039ac
नारद उवाच । 040
असंस्कारो वैदिकश्च स मान्यः श्रोत्रियात्मजः । 040a
शुद्धान्वयः श्रोत्रियस्तु सुविद्वद्भिः समोऽन्यथा ॥ 040c
अनधीयानपुत्राश्च वेदसंस्कारवर्जिताः । 041a
तस्मात्ते वेदविज्ञाऽपि विप्राः श्रुतिनिकारिणः ॥ 041c
ब्रह्मराशौ पुरा सृष्टा वेदसंस्कारसंस्कृताः । 042a
तस्मात्तेष्वेव ते जाताः साधवः कुलधारिणः ॥ 042c
मार्कण्डेय उवाच । 043
स्वयं क्रीतासु प्रेष्यासु प्रसूयन्ते तु ये नराः । 043a
कस्य नार्यः सुताश्चैव भवन्ति ऋषिसत्तम ॥ 043c
नारद उवाच । 044
स्वदास्यां यो नरो मोहात्प्रसूयेत स पापकृत् । 044a
इहाभिनिन्दितः प्रेत्य अपत्यं प्रेष्यतां नयेत् ॥ 044c
सा तस्य भार्या पुत्रा ये हव्यकव्यप्रदास्तु ते । 045a
तस्या ये बान्धवाः केचिद्विषक्ताः प्रेष्यतां गताः । 045c
सर्वे तस्यास्तु सम्बन्धा मुच्यन्ते प्रेष्यकर्मसु ॥ 045e
एतत्ते कथितं सर्वं यदभिव्याहृतं त्वया । 046a
अथवा संशयः कश्चिद्भूयः सम्प्रष्टुमर्हसि ॥ 046c
मार्कण्डेय उवाच । 047
अमिथ्यादर्शनालोके नारदः सर्वकोविदः । 047a
प्रत्यक्षदर्शी लोकानां स्वयम्भुरिव सत्तमः ॥ 047c
भीष्म उवाच । 048
इति सम्भाष्य ऋषिभिर्मार्कण्डेयो महातपाः । 048a
नारदं चापि सत्कृत्य तेन चैवाभिसत्कृतः । 048c
आमन्त्रयित्वा ऋषिभिः प्रययावाश्रमं मुनिः ॥ 048e
ऋषयश्चापि तीर्थानां परिचर्यां प्रचक्रमुः ॥ 049ac
सुक्षेत्रबीजसंस्कारविशुद्धो ब्रह्मचर्यया । 049a
नित्यनैमित्तिकात्स्नातो मनश्शुद्ध्या च शुद्ध्यति ॥' ॥ 049c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनषष्टितमोऽध्यायः ॥ 59 ॥