अध्यायः 058

भीष्मेण युधिष्ठिरं प्रति स्त्रीणामतिक्रमे प्रायश्चित्तादिप्रतिपादकनारदमार्कण्डेयसंवादानुवादः ॥ 1 ॥

मार्कण्डेय उवाच । 001
श्रुतं नराणां चापल्यं परस्त्रीषु प्रजायताम् । 001a
प्रमदानां तु चापल्ये दोषमिच्छामि वेदितुम् ॥ 001c
नारद उवाच । 002
एकवर्णे विदोषं तु गमनं पूर्वकालिकम् । 002a
धाता च समनुज्ञातो विष्णुना तत्तथाऽकरोत् ॥ 002c
भगलिङ्गे महाप्राज्ञ पूर्वमेव प्रजापतिः । 003a
ससर्ज ताभ्यां संयोगमनुज्ञातश्चकार सः ॥ 003c
अथ विष्णुप्रसादेन भगो दत्तवरः किल । 004a
तेन चैव प्रसादेन सर्वांल्लोकानुपाश्नुते ॥ 004c
तस्मात्तु पुरुषे दोषो ह्यधिको नात्र संशयः । 005a
विना गर्भं सवर्णेषु न त्याज्या गमनात्स्त्रियः ॥ 005c
प्रायश्चित्तं यथान्यायं दण्डं कुर्यात्स पण्डितः । 006a
श्वभिर्वा दंशनं स्नानं सवनत्रितयं निशि ॥ 006c
भूमौ च भस्मशयनं दानं भोगविवर्जितम् । 007a
दोषगौरवतः कालो द्रव्यगौरवमेव च । 007c
मर्यादा स्थापिता पूर्वमिति तीर्थान्तरं गते ॥ 007e
तद्योषितां तु दीर्घायो नास्ति दोषो व्यतिक्रमे । 008a
भगतीर्थान्तरे शुद्धो विष्णोस्तु वचनादिह ॥ 008c
रक्ष्याश्चैवान्यसंवादैरन्यगेहाद्विचक्षणैः । 009a
आसां शुद्धौ विशेषेण कर्मणां फलमश्नुते ॥ 009c
नैता वाच्या न वै वध्या न क्लेश्याः शुभमिच्छता । 010a
विष्णुप्रसादादित्येव भगस्तीर्थान्तरं गतः । 010c
मासि मासि ऋतुस्तासां दुष्कृतान्यपकर्षति ॥ 010e
स्त्रियस्तोषकरा नॄणां स्त्रियः पुष्टिप्रदाः सदा । 011a
पुत्रसेतुप्रतिष्ठाश्च स्त्रियो लोके महाद्युते ॥ ॥ 011c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टपञ्चाशोऽध्यायः ॥ 58 ॥