अध्यायः 057
भीष्मेण युधिष्ठिरं प्रति सतीनामसतनां गुणदोषप्रतिपादकनारदमार्कण्डेयसंवादानुवादः ॥ 1 ॥
'मार्कण्डेय उवाच । 001
श्रुता भार्याश्च पुत्राश्च विस्तरेण महामुने । 001a
आश्रमस्थाः कथं नार्यो न दुष्यन्तीति ब्रूहि भो ॥ 001c
नारद उवाच । 002
आश्रमस्थासु नारीषु बान्धवत्वं प्रणश्यति । 002a
नष्टवंश्या भवन्त्येता बन्धूनामथ भर्तृणाम् ॥ 002c
परदारा मुक्तदोषास्ता नार्योऽऽश्रमसंस्थिताः । 003a
स्वयमीशाः स्वदेहानां काम्यास्तद्गतमानसाः ॥ 003c
एवं नार्यो न दुष्यन्ति नराणां तत्प्रसूतिषु । 004a
धर्मपत्न्यो भवन्त्येताः सपुत्रा हव्यकव्यदाः ॥ 004c
मार्कण्डेय उवाच । 005
परस्य भार्या या पूर्वं मृते भर्तरि या पुनः । 005a
अन्यं भजति भर्तारं ससुता असुता कथम् ॥ 005c
नारद उवाच । 006
असुता वा प्रसूता वा गृहस्थानां परस्त्रियः । 006a
परामृष्टेति ता वर्ज्या धर्माचारेषु दूषिताः ॥ 006c
न चासां हव्यकव्यानि प्रतिगृह्णन्ति देवताः । 007a
यस्तासु जनयेत्पुत्रान्न तैः पुत्रमवाप्नुयात् ॥ 007c
मार्कण्डेय उवाच । 008
परक्षेत्रेषु यो बीजं चापलाद्विसृजेन्नरः । 008a
कथं पुत्रफलं तस्य भवेत्तदृषिसत्तम ॥ 008c
नारद उवाच । 009
अस्वामिके परक्षेत्रे यो नरो बीजमुत्सृजेत् । 009a
स्वयंवृतोऽऽश्रमस्थायां तद्बीजं न विनश्यति ॥ 009c
परक्षेत्रेषु यो बीजं नरो दर्पात्समुत्सृजेत् । 010a
क्षेत्रिकस्यैव तद्बीजं न बीजी लभते फलम् ॥ 010c
नातः परमधर्म्यं चाप्ययशस्यं तथोत्तरम् । 011a
गर्भादीनां च बहुभिस्ताश्च त्याज्याः समेष्वपि ॥ 011c
मार्कण्डेय उवाच । 012
अथ ये परदारेषु पुत्रा जायन्ति नारद । 012a
कस्य ते बन्धुदायादा भवन्ति परमद्युते ॥ 012c
नारद उवाच । 013
परदारेषु जायेते द्वौ पुत्रौ कुण्डगोलकौ । 013a
जीवत्यथ पतौ कुण्डो मृते भर्तरि गोलकः ॥ 013c
ते च जाताः परक्षेत्रे देहिनां प्रेत्य चेह च । 014a
दत्तानि हव्यकव्यानि नाशयन्त्यथ दातृणाम् ॥ 014c
पितुर्हि नरकायैते गोलकस्तु विशेषतः । 015a
चण्डालतुल्यौ तज्जौ हि परत्रेह च नश्यतः ॥ 015c
मार्कण्डेय उवाच । 016
कस्य ते गर्हिताः पुत्राः पितॄणां हव्यकव्यदाः । 016a
यस्य क्षेत्रे प्रसूयन्ते यो वा ताञ्जनयेत्सुतान् ॥ 016c
नारद उवाच । 017
क्षेत्रिकश्चैव बीजी च द्वावेतौ निरयं गतौ । 017a
न रक्षति च यो दारान्परदाराश्च गच्छति ॥ 017c
गर्हितास्ते नरा नित्यं धर्माचारबहिष्कृताः । 018a
कुण्डो भोक्ता च भोगी च कुत्सिताः पितृदैवतैः ॥ 018c
मार्कण्डेय उवाच । 019
तथैते गर्हिताः पुत्रा हव्यकव्यानि नारद । 019a
कस्य नित्यं प्रयच्छन्ति धर्मो वा तेषु किं फलं ॥ 019c
नारद उवाच । 020
यातुधानाः पिशाचाश्च प्रतिगृह्णन्ति तैर्हुतम् । 020a
हव्यं कव्यं च तैर्दत्तं ये च भूता निशाचराः ॥ 020c
मार्कण्डेय उवाच । 021
अथ ते राक्षसाः प्रीताः किं प्रयच्छन्ति दातृणाम् । 021a
किं वा धर्मफलं तेषां भवेत्तदृषिसत्तम ॥ 021c
नारद उवाच । 022
न दत्तं नश्यते किञ्चित्सर्वभूतेषु दातृणाम् । 022a
प्रेत्य चेह च तां पुष्टिमुपाश्नन्ति प्रदायिनः ॥ 022c
मार्कण्डेय उवाच । 023
अथ गोलककुण्डाभ्यां सन्ततिर्या भविष्यति । 023a
तयोर्ये बान्धवाः केचित्प्रदास्यन्ति कथं नु तं ॥ 023c
नारद उवाच । 024
साध्वीजाताः सुतास्तेषां तां वृत्तिमनुतिष्ठताम् । 024a
प्रीणन्ति पितृदैवत्यं हव्यकव्यसमाहिताः ॥ 024c
एवं गोलककुण्डाभ्यां ये च वर्णापदेशिनः । 025a
हव्यं कव्यं च शुद्धानां प्रतिगृह्णन्ति देवताः ॥' ॥ 025c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तपञ्चाशोऽध्यायः ॥ 57 ॥
13-57-3 परमं मुक्तदोषास्ता या नार्योऽऽश्रमसंस्थिता इति ध. पाठः ॥