अध्यायः 056
भीष्मेण युधिष्ठिरम्प्रति स्त्रीणां भार्यात्वेन परिग्रहयोग्यताप्रतिपादकनारदमार्कण्डेयसंवादानुवादः ॥ 1 ॥
'मार्कण्डेय उवाच । 001
श्रुतं बहुविधं वृत्तं कन्यकानां महामते । 001a
इच्छामि योषितां श्रोतुं धर्माधर्मौ परिग्रहे ॥ 001c
नारद उवाच । 002
अष्टौ भार्यागमा धर्म्या नराणां दारकर्मणि । 002a
प्रेत्येह च हिता यास्तु सपुत्रा हव्यकव्यदाः ॥ 002c
साध्वी पाणिगृहीता या कौमारी पाणिवर्जिता । 003a
भ्रातृभार्या स्वभार्येति प्रसूयेत्पुत्रमौरसम् ॥ 003c
मार्कण्डेय उवाच । 004
त्रयो भार्यागमा ज्ञेया यत्र धर्मो न नश्यति । 004a
पञ्चान्याः पश्चिमा ब्रूहि भार्यास्तासां च ये सुताः ॥ 004c
नारद उवाच । 005
सगोत्रभार्या क्रीता च परभार्या च कारिता । 005a
गतागता च या भार्या आश्रमादाहृता च या ॥ 005c
एता भार्यागमाः पञ्च पुनर्भार्या भवन्ति याः । 006a
एता भार्या नृणां गम्यास्तत्पुत्रा हव्यकव्यदाः ॥' ॥ 006c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्पञ्चाशोऽध्यायः ॥ 56 ॥