अध्यायः 055 भीष्मेण युधिष्ठिरं प्रति कन्यानां प्रदानकालादिप्रतिपादकनारदमार्कण्डेयसंवादानुवादः ॥ 1 ॥

'मार्कण्डेय उवाच । 001
श्रुतं वर्णावरैर्दत्तं हव्यं कव्यं च नारद । 001a
सम्प्रयोगे च पुत्राणां कन्यानां च ब्रवीहि मे ॥ 001c
नारद उवाच । 002
कन्याप्रदानं प्रत्राणां स्त्रीणां संयोगमेव च । 002a
आनुपूर्व्यान्मया सम्यगुच्यमानं निबोध मे ॥ 002c
जातमात्रा तु दातव्या कन्यका सदृशे वरे । 003a
काले दत्तासु कन्यासु पिता धर्मेण युज्यते ॥ 003c
यस्तु पुष्पवतीं कन्यां बान्धवो न प्रयच्छति । 004a
मासि मासि गते बन्धुस्तस्या भ्रौणघ्न्यमाप्नुते ॥ 004c
यस्तु कन्यां गृहे रुन्ध्याद्ग्राम्यैर्भोगैर्विवर्जिताम् । 005a
अवध्यातः स कन्याया बन्धुः प्राप्नोति भ्रूणहाम् ॥ 005c
दूषिता पाणिमात्रेण मृते भर्तरि दारिका । 006a
संस्कारं लभते नारी द्वितीये सा पुनः पतौ ॥ 006c
पुनर्भूर्नाम सा कन्या सपुत्रा हव्यकव्यदा । 007a
अदूष्या सा प्रसूतीषु प्रजानां दारकर्मणि ॥ 007c
मार्कण्डेय उवाच । 008
या तु कन्या प्रसूयेत गर्भिणी या तु वा भवेत् । 008a
कथं दारक्रियां भूयः सा भवेदृषिसत्तम ॥ 008c
नारद उवाच । 009
तत्वार्थनिश्चितं शब्दं कन्यका नयतेऽग्नये । 009a
तस्मात्कुर्वन्ति वै भावं कुमार्यस्ता न कन्यकाः ॥ 009c
ब्रह्महत्यात्रिभागेन गर्भाधानविशोधितः । 010a
गृह्णीयात्तां चतुर्भागविशुद्धां सर्जनात्पुनः ॥ 010c
मार्कण्डेय उवाच । 011
कथं कन्यासु ये जाता बन्धूनां दूषिताः सदा । 011a
कस्य ते हव्यकव्यानि प्रदास्यन्ति महामुने ॥ 011c
नारद उवाच । 012
कन्यायास्तु पितुः पुत्राः कानीना हव्यकव्यदाः । 012a
अन्तर्वत्न्यास्तु यः पाणिं गृह्णीयात्स सहोढजः ॥ 012c
मार्कण्डेय उवाच । 013
अथ येनाहितो गर्भः कन्यायां तत्र नारद । 013a
कथं पुत्रफलं तस्य भवेदेतत्प्रचक्ष्व मे ॥ 013c
नारद उवाच । 014
धर्माचारेषु ते नित्यं दूषकाः कृतशोधनाः । 014a
बीजं च नश्यते तेषां मोघचेष्टा भवन्ति ते ॥ 014c
मार्कण्डेय उवाच । 015
अथ काचिद्भवेत्कन्या क्रीता दत्ता हृताऽपि वा । 015a
कथं पुत्रकृतं तस्यास्तद्भवेद्दषिसत्तम ॥ 015c
नारद उवाच । 016
क्रीता दत्ता हृता चैव या कन्या पाणिवर्जिता । 016a
कौमारी नाम सा भार्या प्रसवेदौरसान्सुतान् । 016c
न पत्न्यर्थे शुभा प्रोक्ता तत्कर्मण्यपराजिते ॥ 016e
मार्कण्डेय उवाच । 017
केन मङ्गलकृत्येषु विनियुज्यन्ति कन्यकाः । 017a
एतदिच्छामि विज्ञातुं तत्वेनेह महामुने ॥ 017c
नारद उवाच । 018
नित्यं निवसते लक्ष्मीः कन्यकासु प्रतिष्ठिता । 018a
शोभना शुभयोग्या च पूज्या मङ्गलकर्मसु ॥ 018c
आकरस्थं यथा रत्नं सर्वकामफलोपगम् । 019a
तथा कन्या महालक्ष्मीः सर्वलोकस्य मङ्गलम् ॥ 019c
एवं कन्या परा लक्ष्मी रतिस्तोषश्च देहिनाम् । 020a
महाकुलानां चारित्रवृत्तेन निकषोपलम् ॥ 020c
आनयित्वा स्वकाद्वर्णात्कन्यकां यो भजेन्नरः । 021a
दातारं हव्यकव्यानां पुत्रकं या प्रसूयति ॥ 021c
साध्वी कुलं वर्धयति साध्वी पुष्टिग्रहे परा । 022a
साध्वी लक्ष्मी रतिः साक्षात्प्रतिष्ठा सन्ततिस्तथा ॥ ॥ 022c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चपञ्चाशोऽध्यायः ॥ 55 ॥

13-55-10 चतुर्भागविशुद्धात्स्वजनात्पुनरिति ध.पाठः ॥