अध्यायः 054
भीष्मेण युधिष्ठिरं प्रति युगचतुष्टयधर्मादिप्रतिपादकनारदमार्कण्डेयसंवादानुवादः ॥ 1 ॥
'युधिष्ठिर उवाच । 001
पुत्रैः कथं महाराज पुरुषस्तारितो भवेत् । 001a
यावन्न लब्धवान्पुत्रमफलः पुरुषो नृप ॥ 001c
भीष्म उवाच । 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
नारदेन पुरा गीतं मार्कण्डेयाय पृच्छते ॥ 002c
पर्वतं नारदं चैव असितं देवलं च तम् । 003a
आरुणेयं च रैभ्यं च एतानत्रागतान्पुरा ॥ 003c
गङ्गायमुनयोर्मध्ये भोगवत्याः समागमे । 004a
दृष्ट्वा पूर्वं समासीनान्मार्कण्डेयोऽभ्यगच्छत ॥ 004c
ऋषयस्तु मुनिं दृष्ट्वा समुत्थायोन्मुखाः स्थिताः । 005a
अर्चयित्वाऽर्हतो विप्रं किं कुर्म इति चाब्रुवन् ॥ 005c
मार्कण्डेय उवाच । 006
अयं समागमः सद्भिर्यत्नेनासादितो मया । 006a
अत्र प्राप्स्यामि धर्माणामाचारस्य च निश्चयम् ॥ 006c
ऋजुः कृतयुगे धर्मस्तस्मिन्क्षीणे विमुह्यति । 007a
युगे युगे महर्षिभ्यो धर्ममिच्छामि वेदितुम् ॥ 007c
ऋषिभिर्नारदः प्रोक्तो ब्रूहि यत्रास्य संशयः । 008a
धर्माधर्मेषु तत्वज्ञ त्वं हि च्छेत्ता हि संशयान् ॥ 008c
ऋषिभ्योऽनुमतं वाक्यं नियोगान्नारदस्तदा । 009a
सर्वधर्मार्थतत्वज्ञं मार्कण्डेयं ततोऽब्रवीत् ॥ 009c
दीर्घायो तपसा दीप्त वदेवदाङ्गतत्ववित् । 010a
यत्र ते संशयो ब्रह्मन्समुत्पन्नः स उच्यताम् ॥ 010c
धर्मं लोकोपकारं वा यच्चान्यच्छ्रोतुमिच्छसि । 011a
तदहं कथयिष्यामि ब्रूहि त्वं सुमहातपाः ॥ 011c
मार्कण्डेय उवाच । 012
युगे युगे व्यतीतेऽस्मिन्धर्मसेतुः प्रणश्यति । 012a
कथं धर्मच्छलेनाहं प्राप्नुयामिति मे मतिः ॥ 012c
नारद उवाच । 013
आसीद्धर्मः पुरा विप्र चतुष्पादः कृते युगे । 013a
ततो ह्यधर्मः कालेन प्रसूतः किञ्चिदूनतः ॥ 013c
ततस्त्रेतायुगं नाम प्रवृत्तं धर्मदूषणम् ॥ 014ac
तस्मिन्नतीते सम्प्राप्तं तृतीयं द्वापरं युगम् । 015a
तदा धर्मस्य द्वौ पादावधर्मो नाशयिष्यति ॥ 015c
द्वापरे तु परिक्षीणे नन्दिके समुपस्थिते । 016a
लोकवृत्तं च धर्मं च उच्यमानं निबोध मे ॥ 016c
चतुर्थं नन्दिकं नाम धर्मः पादावशेषितः । 017a
ततः प्रभृति जायन्ते क्षीणप्रज्ञायुपो नराः । 017c
क्षीणप्राणधना लोके धर्माचारबहिष्कृताः ॥ 017e
मार्कण्डेय उवाच । 018
एवं विलुलिते धर्मे लोके चाधर्मसंयुते । 018a
चातुर्वर्ण्यस्य नियतं हव्यं कव्यं नियच्छति ॥ 018c
नारद उवाच । 019
मन्त्रपूतं सदा हव्यं कव्यं चैव न नश्यति । 019a
प्रतिगृह्णन्ति तद्देवा दातुर्न्यायात्प्रयच्छतः ॥ 019c
सत्वयुक्तं च दाता च सर्वान्कामानवाप्नुयात् । 020a
अवाप्तकामः स्वर्गे च महीयेत यथेप्सितम् ॥ 020c
मार्कण्डेय उवाच । 021
चत्वारो ह्यथ ये वर्णा हव्यं कव्यं प्रदास्यति । 021a
मन्त्रहीनमपन्यायं तेषां दत्तं क्व गच्छति ॥ 021c
नारद उवाच । 022
असुरान्गच्छते दत्तं विप्रै रक्षांसि क्षत्रियैः । 022a
वैश्यैः प्रेतानि वै दत्तं शूद्रैर्भूतानि गच्छति ॥ 022c
मार्कण्डेय उवाच । 023
अथ वर्णावरे जाताश्चातुर्वर्ण्योपदेशिनः । 023a
दास्यन्ति हव्यकव्यानि तेषां दत्तं क्व गच्छति 023c
नारद उवाच । 024
वर्णावराणां भूतानां हव्यकव्यप्रदातृणाम् । 024a
नैव देवा न पितरः प्रतिगृह्णन्ति तत्स्वयम् ॥ 024c
यातुधानाः पिशाचाश्च भूता ये चापि नैर्ऋताः । 025a
तेषां सा विहिता वृत्तिः पितृदैवतनिर्गताः ॥ 025c
तेषां सर्वप्रदातॄणां हव्यकव्यं समाहिताः । 026a
यत्प्रयच्छन्ति विधइवत्तद्वै भुञ्जन्ति देवताः ॥' ॥ 026c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुःपश्चाशोऽध्यायः ॥ 54 ॥
13-54-16 नन्दिक इति कलियुगे प्रवर्तमानधर्मैकपादस्य नाम ॥ 16 ॥