अध्यायः 053
भीष्मेण युधिष्ठिरं प्रति ऋष्यादीनां वियोनिजत्वेपि तपोविद्यादीनामेव माहात्म्यप्रयोजकत्वे निदर्शनतया तादृशानां सम्भवप्रकारादिकथनम् ॥ 1 ॥
'युधिष्ठिर उवाच । 001
वैश्ययोन्यां समुत्पन्नाः शूद्रयोन्यां तथैव च । 001a
ब्रह्मर्षय इति प्रोक्ताः पुराणA द्विजसत्तमाः ॥ 001c
कथमेतन्महाराज तत्त्वं शंसितुमर्हसि । 002a
विरुद्धमिह पश्यामि वियोनौ ब्राह्मणो भवेत् ॥ 002c
भीष्म उवाच । 003
अलं कौतूहलेनात्र निबोध त्वं युधिष्ठिर । 003a
शुभेतरं शुभं वाऽपि न चिन्तयितुमर्हसि ॥ 003c
ईशन्त्यात्मन इत्येते गतिश्चैषां न सञ्जते । 004a
ब्रह्मभूयांस इत्येव ऋषयः श्रुतिचोदिताः ॥ 004c
निन्द्या न चैते राजेन्द्र प्रमाणं हि प्रमाणिनाम् । 005a
लोकोऽनुमन्यते चैतान्प्रमाणं ह्यत्र वै तपः ॥ 005c
एवं महात्मभिस्तात तपोज्ञानसमन्वितैः । 006a
प्रवर्तितानि कार्याणि प्रमाणान्येव सत्तम ॥ 006c
भार्याश्चतस्रो राजेन्द्र ब्राह्मणस्य स्वधर्मतः । 007a
ब्राह्मणी क्षत्रिया वैश्या शूद्रा च भरतर्षभ ॥ 007c
राज्ञां तु क्षत्रिया वैश्या शूद्रा च भरतर्षभ । 008a
वैश्यस्य वैश्या विहिता शूद्रा च भरतर्षभ ॥ 008c
शूद्रस्यैका स्मृता भार्या प्रतिलोमे तु सङ्करः । 009a
शूद्रायास्तु नरश्रेष्ठ चत्वारः पतयः स्मृताः ॥ 009c
वर्णोत्तमायास्तु पतिः सवर्णस्त्वेक एव सः । 010a
द्वौ क्षत्रियाया विहितौ ब्राह्मणः क्षत्रियस्तथा ॥ 010c
वैश्यायास्तु नरश्रेष्ठ विहिताः पतयस्त्रयः । 011a
सवर्णः क्षत्रियश्चैव ब्राह्मणश्च विशाम्पते ॥ 011c
एवंविधिमनुस्मृत्य ततस्ते ऋषिभिः पुरा । 012a
उत्पादिता महात्मानः पुत्रा ब्रह्मर्षयः पुरा ॥ 012c
पुराणाभ्यामृषिभ्यां तु मित्रेण वरुणेन च । 013a
वसिष्ठोऽथ तथाऽगस्त्यो बर्हिषव्यस्तथैव च ॥ 013c
कक्षीवानार्ष्टिषेणश्च पुरुषः कष एव च । 014a
मामतेयस्य वै पुत्रा गौतमश्चात्मजाः स्मृताः ॥ 014c
वत्सप्रियश्च भगवान्स्थूलरश्मिस्तथाक्षणिः । 015a
गौतमस्यैव तनया ये दास्यां जनिता ह्युत ॥ 015c
कपिञ्जलादो ब्रह्मर्षिश्चाण्डाल्यामुदपद्यत । 016a
वैनतेयस्तथा पक्षी तुर्यायां च वसिष्ठतः ॥ 016c
प्रसादाच्च वसिष्ठस्य शुक्लाभ्युपगमेन च । 017a
अदृश्यन्त्याः पिता वैश्यो नाम्ना चित्रमुखः पुरा । 017c
ब्राह्मणत्वमनुप्राप्तो ब्रह्मर्षित्वं च कौरव ॥ 017e
वैश्यश्चित्रमुखः कन्यां वसिष्ठतनयस्य वै । 018a
शुभां प्रादाद्यतो जातो ब्रह्मर्षिस्तु पराशरः ॥ 018c
तथैव दाशकन्यायां सत्यवत्यां महानृषिः । 019a
पराशरात्प्रसूतश्च व्यासो योगमयो मुनिः ॥ 019c
विभण्डकस्य मृग्यां च तपोयोगात्मको मुनिः । 020a
ऋस्यशृङ्गः समुत्पन्नो ब्रह्मचारी महायशाः ॥ 020c
शार्ङ्ग्यां च मन्दपालस्य चत्वारो ब्रह्मवादिनः । 021a
जाता ब्रह्मर्षयः पुण्या यैः स्तुतो हव्यवाहनः ॥ 021c
द्रोणश्च स्तम्बमित्रश्च सारिसृक्वश्च बुद्धिमान् । 022a
जरितारिश्च विख्यातश्चत्वारः सूर्यसन्निभाः ॥ 022c
महर्षेः कालवृक्षस्य शकुन्त्यामेव जज्ञिवान् । 023a
हिरण्यहस्तो भगवान्महर्षिः काञ्चनप्रभः ॥ 023c
पावकात्तात सम्भूता मनसा च महर्षयः । 024a
पितामहस्य राजेन्द्र पुरस्त्यपुलहादयः ॥ 024c
सावर्ण्यश्चापि राजर्षिः सवर्णायामजायत । 025a
मृण्मय्यां भरतश्रेष्ठ आदित्येन विवस्वता ॥ 025c
शाण्डिल्यश्चाग्नितो जातः कश्यपस्याग्रजः प्रभुः । 026a
शरद्वतः शरस्तम्बात्कृपश्व कृपया सह ॥ 026c
पद्माश्च जज्ञे राजेन्द्र सोमपस्य महात्मनः । 027a
रेणुश्च रेणुका चैव राममाता यशस्विनी ॥ 027c
समुनायाः समुद्भूतः सोमकेन महात्मना । 028a
अर्कदन्तो महानृषिः प्रथितः पृथिवीतले ॥ 028c
अग्नेराहवनीयाच्च द्रुपदस्येन्द्रवर्चसः । 029a
धृष्टद्युम्नश्च सम्भूतो वेद्यां कृष्णा च भारत ॥ 029c
व्याघ्रयोन्यां ततो जाता वसिष्ठस्य महात्मनः । 030a
एकोनविंशतिः पुत्राः ख्याता व्याघ्रपदादयः ॥ 030c
मन्धश्च बादलोमश्च जावालिश्च महानृषिः । 031a
मन्युश्चैवोपमन्युश्च सेतुकर्णस्तथैव च । 031c
एते चान्ये च विख्याताः पृथिव्यां गोत्रतां गताः ॥ 031e
विश्वकाशस्य राजर्षेरैक्ष्वाकोस्तु महात्मनः । 032a
बालाश्वो नाम पुत्रोऽभूच्छिखां भित्त्वा विनिस्सृतः ॥ 032c
मान्धाता चैव राजर्षिर्युवनाश्वेन धीमता । 033a
स्वयं धृतोऽथ गर्भेण दिव्यास्त्रबलसंयुतः ॥ 033c
गौरिकश्चापि राजर्षिश्चक्रवर्ती महायशाः । 034a
बाहुदायां समुत्पन्नो नद्यां राज्ञा सुबाहुना ॥ 034c
भूमेश्च पुत्रो नरकः संवर्तश्चैव पुष्कलः । 035a
अद्भिश्चैव महातेजा ऋषिर्गार्ग्योऽभ्यजायत ॥ 035c
एते चान्ये च बहवो राजन्या ब्राह्मणास्तथा । 036a
प्रभावेनाभिसम्भूता महर्षीणां महात्मनाम् । 036c
नासाध्यं तपसा तेषां विद्ययाऽऽत्मगुणैः परैः ॥ 036e
अस्मिन्नर्थे च मनुना नीतः श्लोको नराधिप । 037a
धर्मं प्रणयता राजंस्तं निबोध युधिष्ठिर ॥ 037c
ऋषिणां च नदीनां च साधूनां च महात्मनाम् । 038a
प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥ 038c
तन्नात्र चिन्ता कर्तव्या महर्षीणां समुद्भवे । 039a
यथा सर्वगतो ह्यग्निस्तथा तेजो महात्मसु ॥' ॥ 039c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिपञ्चाशोऽध्यायः ॥ 53 ॥
13-53-1 एतदादिसप्ताध्याया दाक्षिणात्यकोशेष्वेव दृश्यन्ते ।