अध्यायः 051
उत्तरदिगभिमानिदेवतया परदारत्वशङ्कया स्वभोगमनङ्गीकुर्वाणमष्टावक्रं प्रति जरतीरूपत्यागेन कन्यारूपस्वीकरणपूर्वकं स्वपाणिग्रहणप्रार्थना ॥ 1 ॥
भीष्म उवाच । 001
अथ सा स्त्री तमुवाच विप्रमेवं भवत्विति । 001a
तैलं दिव्यमुपादाय स्नानशाटीमुपानयत् ॥ 001c
अनुज्ञाता च मुनिना सा स्त्री तेन महात्मना । 002a
अथास्य तैलेनाङ्गानि सर्वाण्येवाभ्यमृक्षत ॥ 002c
शनैश्चाच्छादितस्तत्र स्नानशालामुपागमत् । 003a
भद्रासनं ततश्चित्रमृषिरन्वगमन्नवम् ॥ 003c
अथोपविष्टश्च यदा तस्मिन्भद्रासने तदा । 004a
स्नापयामास शनकैस्तमृषिं सुखहस्तवत् । 004c
दिव्यं च विधिवच्चक्रे सोपचारं मुनेस्तदा ॥ 004e
जलेन सुसुखोष्णेन तस्या हस्तसुखेन च । 005a
व्यतीतां रजनीं कृत्स्नां नाजानात्स महाव्रतः ॥ 005c
तत उत्थाय स मुनिस्तदा परमविस्मितः । 006a
पूर्वस्यां दिशि सूर्यं च सोऽपश्यदुदितं दिवि ॥ 006c
'सन्ध्योपासनमित्येव सर्वपापहरं न मे ।' 007a
तस्य बुद्धिरियं किन्तु मोहस्तत्त्वमिदं भवेत् ॥ 007c
अथोपास्य सहस्रांशुं किं करोमीत्युवाच ताम् । 008a
सा चामृतरसप्रख्यं क्रषेरन्नमुपाहरत् ॥ 008c
तस्य स्वादुतयाऽन्नस्य न प्रभूतं चकार सः । 009a
व्यगमच्चाप्यहःशेषं ततः सन्ध्याऽऽगमत्पुनः ॥ 009c
अथ सा स्त्री भगवन्तं सुप्यतामित्यचोदयत् । 010a
तत्र वै शयने दिव्ये तस्य तस्याश्च कल्पिते ॥ 010c
[पृथक्र्वैव तथा सुप्तौ सा स्त्री स च मुनिस्तदा । 011a
तथाऽर्थरात्रे सा स्त्री तु शयनं तदुपागमत् ॥] 011c
अष्टावक्र उवाच । 012
न भद्रे परदारेषु मनो मे सम्प्रसज्जति । 012a
उत्तिष्ठ भद्रे भद्रं ते स्वापं वै विरमस्व च ॥ 012c
भीष्म उवाच । 013
सा तदा तेन विप्रेण तथा धृत्या निवर्तिता । 013a
स्वतन्त्राऽस्मीत्युवाचर्षिं न धर्मच्छलमस्ति ते ॥ 013c
अष्टावक्र उवाच । 014
नास्ति स्वतन्त्रता स्त्रीणामस्वतन्त्रा हि योषितः । 014a
प्रजापतिमतं ह्येतन्न स्त्री स्वातन्त्र्यमर्हति ॥ 014c
स्त्र्युवाच । 015
बाधते मैथुनं विप्र मम भक्तिं च पश्य वै । 015a
अधर्मं प्राप्स्यसे विप्र यन्मां त्वं नाभिनन्दसि ॥ 015c
अष्टावक्र उवाच । 016
हरन्ति दोषजातानि नरमिन्द्रियकिङ्करम् । 016a
प्रभवामि सदा धृत्या भद्रे स्वशयनं व्रज ॥ 016c
स्त्र्युवाच । 017
शिरसा प्रणमे विप्र प्रसादं कर्तुमर्हसि । 017a
भूमौ निपतमानायाः शरणं भव मेऽनघ ॥ 017c
यदि वा दोषजातं त्वं परदारेषु पश्यसि । 018a
आत्मानं स्पर्शयाम्यद्य पाणिं गृह्णीष्व मे द्विज ॥ 018c
न दोषो भविता चैव सत्येनैतद्ब्रवीम्यहम् । 019a
स्वतन्त्रां मां विजानीहि यो धर्मः सोस्तु वै मयि । 019c
त्वय्यावेशितचित्ता च स्वतन्त्राऽस्मि भजस्व माम् ॥ 019e
अष्टावक्र उवाच । 020
स्वतन्त्रा त्वं कथं भद्रे ब्रूहि कारणमत्र वै । 020a
नास्ति त्रिलोके स्त्री काचिद्या वै स्वातन्त्र्यमर्हति ॥ 020c
पिता रक्षति कौमारे भर्ता रक्षति यौवने । 021a
पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति । 021c
'न वृद्धामक्षतां मन्ये च चेच्छा त्वयि मेऽनघे' 021e
स्त्र्युवाच । 022
कौमारं ब्रह्मचर्यं मे कन्यैवास्मि न संशयः । 022a
पत्नीं कुरुष्व मां विप्र श्रद्धां विजहि मा मम ॥ 022c
अष्टावक्र उवाच । 023
यथा मम तथा तुभ्यं यथा तुभ्यं तथा मम । 023a
जिज्ञासेयमृषेस्तस्य विघ्नः सत्यं नु किं भवेत् ॥ 023c
आश्चर्यं परमं हीदं किन्नु श्रेयो हि मे भवेत् । 024a
दिव्याभरणवस्त्रा हि कन्येयं मामुपस्थिता ॥ 024c
किं त्वस्याः परमं रूपं जीर्णमासीत्कथं पुनः । 025a
कन्यारूपमिहाद्यैवं किमिवात्रोत्तरं भवेत् ॥ 025c
यथा मे परमा शक्तिर्न व्युत्थाने कथञ्चन । 026a
न रोचते हि व्युत्थानं सत्येनासादयाम्यहम् ॥ ॥ 026c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकपञ्चाशोऽध्यायः ॥ 51 ॥
13-51-2 अभ्यमृक्षत अभ्यञ्जितवती ॥ 13-51-3 शनैश्चोत्सादित इति ड.झ. पाठः । तत्र उत्सादितः चालितः ॥ 13-51-5 नाजानात् न ज्ञातवान् ॥ 13-51-9 न प्रभूतं चकार पूर्णमिति नाभ्यवददित्यर्थः ॥ 13-51-12 स्वयं वै विरमस्व चेति झ.पाठः ॥ 13-51-13 स्वातन्त्र्यान्मम । न तव पारदार्यदोषोऽस्तीत्यर्थः ॥ धर्मच्छलं परपुरुषप्रलोभनम् । नाधर्मफलमस्ति ते इति ध. पाठः ॥ 13-51-14 नास्तीति अप्रदत्ता त्वां न कामये इत्यर्थः ॥ 13-51-18 स्पर्शयामि ददामि ॥ 13-51-19 स्वतन्त्रामात्मप्रदाने इति शेषः । यो धर्मः पाणिग्रहणादिसंस्कारो मयि मन्निमित्तं सोस्तु ॥ 13-51-22 विजहि मा मा नाशय ॥ 13-51-23 तुभ्यं तव । सङ्गमश्रद्धेत्युभयत्र शेषः । किं तस्य मया कन्यार्थिना प्रार्थितस्य तत्कर्तृका इयं जिज्ञासा मम परीक्षा किमयं साधुरसाधुर्वेति ॥ 13-51-24 विघ्नत्वमेवाह आश्चर्यमिति । पूर्वमतिजीर्णत्वेन दृष्टा पुनः कन्येव दृश्यत इति मायारूपमाश्चर्यम् ॥ 13-51-25 अत्रास्मिन्विषये किमुत्तरं श्रेष्ठतरम् । पर्वपरिगृहीतस्यात्यागः उत एतस्याः स्वीकारः कर्तव्य इति भावः ॥ 13-51-26 न व्युत्थास्येऽस्याः स्वीकारं न करिष्ये । व्युत्थानं धर्मातिक्रमो मम न रोचते किन्तु सत्येनासादयाम्यहं दारानिति शेषः । धृत्यैनां साधयाम्यहमिति ध.पाठः ॥