अध्यायः 050 भीष्मेण युधिष्ठिरं प्रति स्त्रीस्वभावप्रदर्शनाय दृष्टान्ततयाऽष्टावक्रोपाख्यानकथनारम्भः ॥ अष्टावक्रेण भार्यात्वाय वदान्यं प्रति कन्यायाचनम् ॥ 2 ॥ तथा वदान्यनियोगादुत्तरदिगन्तगमनम् ॥ 3 ॥ तथोत्तरदिगभिमानिन्या जरतीरूप धारिण्या संवादः ॥ 4 ॥

युधिष्ठिर उवाच । 001
यदिदं सहधर्मेति प्रोच्यते भरतर्षभ । 001a
पाणिग्रहणकाले तु स्त्रीणामेतत्कथं स्मृतम् ॥ 001c
आर्ष एष भवेद्धर्मः प्राजापत्योऽथवाऽसुरः । 002a
यदेतत्सहधर्मेति पूर्वमुक्तं महर्षिभिः ॥ 002c
सन्देहः सुमहानेष विरुद्ध इति मे मतिः । 003a
इह यः सहधर्मो वै प्रेत्यायं विहितः क्वनु ॥ 003c
स्वर्गो मृतानां भवति सहधर्मः पितामह । 004a
पूर्वमेकस्तु म्रियते क्वचैकस्तिष्ठते वद ॥ 004c
नानाधर्मफलोपेता नानाकर्मनिवासिताः । 005a
नानानिरयनिष्ठान्ता मानुषा बहवो यदा ॥ 005c
अनृताः स्त्रिय इत्येवं सूत्रकारो व्यवस्यति । 006a
यदाऽनृताः स्त्रियस्तात सहधर्मः कुतः स्मृतः ॥ 006c
अनृताः स्त्रिय इत्येवं वेदेष्वपि हि पठ्यते । 007a
धर्मो यः पूर्विको दृष्ट उपचारः क्रियाविधिः ॥ 007c
गहरं प्रतिभात्येतन्मम चिन्तयतोऽनिशम् । 008a
निःसन्देहमिदं सर्वं पितामह यथाश्रुतिः ॥ 008c
यदैतद्यादृशं चैतद्यथा चैतत्प्रवर्तितम् । 009a
निखिलेन महाप्राज्ञ भवानेतद्ब्रवीतु मे ॥ 009c
भीष्म उवाच । 010
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 010a
अष्टावक्रस्य संवादं दिशया सह भारत ॥ 010c
निर्विष्टुकामस्तु पुरा अष्टावक्रो महातपाः । 011a
ऋषेरथ वदान्यस्य वव्रे कन्यां महात्मनः ॥ 011c
सुप्रभां नाम वै नाम्ना रूपेणाप्रतिमां भुवि । 012a
गुणप्रभावशीलेन चारित्रेण च शोभनाम् ॥ 012c
सा तस्यर्षेर्मनो दृष्टा जहार शुभलोचना । 013a
वनराजी यथा चित्रा वसन्ते कुसुमाञ्चिता ॥ 013c
ऋषिस्तमाह देया मे सुता तुभ्यं हि तच्छृणु ॥ 014ac
'अनन्यस्त्रीजनः प्राज्ञो ह्यप्रवासी प्रियंवदः । 015a
सुरूपः सम्मतो वीरः शीलवान्भोगभुक्छुचिः ॥ 015c
दारानुमतयज्ञश्च सुनक्षत्रामथोद्वहेत् । 016a
सभृत्यः स्वजनोपेत इह प्रेत्य च मोदते ॥ 016c
गच्छ तावद्दिशं पुण्यामुत्तरां द्रक्ष्यसे ततः ॥ 017ac
अष्टावक्र उवाच । 018
किं द्रष्टव्यं मया तत्र वक्तुमर्हति मे भवान् । 018a
तथेदानीं मयो कार्यं यथा वक्ष्यति मां भवान् ॥ 018c
वदान्य उवाच । 019
धनदं समतिक्रम्य हिमवन्तं च पर्वतम् । 019a
रुद्रस्यायतनं दृष्ट्वा सिद्धचारणसेवितम् ॥ 019c
संहृष्टैः पार्षदैर्जुष्टं नृत्यद्भिर्विविधाननैः । 020a
दिव्याङ्गरागैः पैशाचैरन्यैर्नानाविधैः प्रभोः ॥ 020c
पाणितालसुतालैश्च शम्पातालैः समैस्तथा । 021a
सम्प्रहृष्टैः प्रनृत्यद्भिः शर्वस्तत्र निषेव्यते ॥ 021c
इष्टं किल गिरौ स्थानं तद्दिव्यमिति शुश्रुम । 022a
नित्यं सन्निहितो देवस्तथा ते पार्षदाः स्मृताः ॥ 022c
तत्र देव्या तपस्तप्तं सङ्करार्थं सुदुश्चरम् । 023a
अतस्तदिष्टं देवस्य तथोमाया इति श्रुतिः ॥ 023c
पूर्वे तत्र महापार्श्वे देवस्योत्तरतस्तथा ॥ 024a
ऋतवः कालरात्रिश्च ये दिव्या ये च मानुषाः ॥ 024c
देवं चोपासते सर्वे रूपिणः किल तत्र ह । 025a
तदतिक्रम्य भवनं त्वया यातव्यमेव हि ॥ 025c
ततो नीलं वनोद्देशं द्रक्ष्यसे मेघसन्निभम् । 026a
रमणीयं मनोग्राहि तत्र वै द्रक्ष्यसे स्त्रियम् ॥ 026c
तपस्विनीं महाभागां वृद्धां दीक्षामनुष्ठिताम् । 027a
द्रष्टव्या सा त्वया तत्र सम्पूज्या चैव यत्नतः ॥ 027c
तां दृष्ट्वा विनिवृत्तस्त्वं ततः पाणिं ग्रहीष्यसि । 028a
यद्येष समयः सर्वः साध्यतां तत्र गम्यताम् ॥ 028c
अष्टावक्र उवाच । 029
तथाऽस्तु साधयिष्यामि तत्र यास्याम्यसंशयम् । 029a
यत्र त्वं वदसे साधो भवान्भवतु सत्यवाक् ॥ 029c
भीष्म उवाच । 030
ततोऽगच्छत्स भगवानुत्तरामुत्तरां दिशम् । 030a
हिमवन्तं गिरिश्रेष्ठं सिद्धचारणसेवितम् ॥ 030c
स गत्वा द्विजशार्दूलो हिमवन्तं महागिरिम् । 031a
अभ्यगच्छन्नदीं पुण्यां बाहुदां पुण्यदायिनीम् ॥ 031c
अशोके विमले तीर्थे स्नात्वा वै तर्प्य देवताः । 032a
तत्र वासाय शयने कौशे सुखमुवास ह ॥ 032c
ततो रात्र्यां व्यतीतायां प्रातरुत्थाय स द्विजः । 033a
स्नात्वा प्रादुश्चकाराग्निं हुत्वा चैवं विधानतः ॥ 033c
रुद्राणीकूपमासाद्य ह्रदे तत्र समाश्वसत् । 034a
विश्रान्तश्च समुत्थाय कैलासमभितो ययौ ॥ 034c
सोऽपश्यत्काञ्चनद्वारं दीप्यमानमिव श्रिया । 035a
मन्दाकिनीं च नलिनीं धनदस्य महात्मनः ॥ 035c
अथ ते राक्षसाः सर्वे येऽभिरक्षन्ति पद्मिनीम् । 036a
प्रत्युत्थिता भगवन्तं माणिभद्रपुरोगमाः ॥ 036c
स तान्प्रत्यर्चयामास राक्षसान्भीमविक्रमान् । 037a
निवेदयत मां क्षिप्रं धनदायेति चाब्रवीत् ॥ 037c
ते राक्षसास्तथा राजन्भगवन्तमथाब्रुवन् । 038a
असौ वैश्रवणो राजा स्वयमायाति तेऽन्तिकम् ॥ 038c
विदितो भगवानस्य कार्यमागमनस्य यत् । 039a
पश्यैनं त्वं महाभागं ज्वलन्तमिव तेजसा ॥ 039c
ततो वैश्रवणोऽभ्येत्य अष्टावक्रमनिन्दितम् । 040a
विधिवत्कुशलं पृष्ट्वा ततो ब्रह्मर्षिमब्रवीत् ॥ 040c
सुखं प्राप्तो भवान्कच्चित्किंवा मत्तश्चिकीर्षति । 041a
ब्रूहि सर्वं करिष्यामि यन्मां वक्ष्यसि वै द्विज ॥ 041c
भवनं प्रविश त्वं मे यथाकामं द्विजोत्तम । 042a
सत्कृतः कृतकार्यश्च भवान्यास्यत्यविघ्नतः ॥ 042c
प्राविशद्भवनं स्वं वै गृहीत्वा तं द्विजोत्तमम् । 043a
आसनं स्वं ददौ चैव पाद्यमर्घ्यं तथैव च ॥ 043c
अथोपविष्टयोस्तत्र माणिभद्रपुरोगमाः । 044a
निषेदुस्तत्र कौबेरा यक्षगन्धर्वकिन्नराः ॥ 044c
ततस्तेषां निषण्णानां धनदो वाक्यमब्रवीत् । 045a
भवच्छन्दं समाज्ञाय नृत्येरन्नप्सरोगणाः ॥ 045c
आतिथ्यं परमं कार्यं शुश्रूषा भवतस्तथा । 046a
संवर्ततामित्युवाच मुनिर्मधुरया गिरा ॥ 046c
यथोर्वरा मिश्रकेशी रम्भा चैवोर्वशी तथा । 047a
अलम्बुसा घृताची च चित्रा चित्राङ्गदा रुचिः ॥ 047c
मनोहरा सुकेशी च सुमुखी हासिनी प्रभा । 048a
विद्युता प्रशमी दान्ता विद्योता रतिरेव च ॥ 048c
एताश्चान्याश्च वै बह्व्यः प्रनृत्ताप्सरसः शुभाः । 049a
अवादयंश्च गन्धर्वा वाद्यानि विविधानि च ॥ 049c
अथ प्रवृत्ते गान्धर्वे दिव्ये ऋषिरुपाविशत् । 050a
दिव्यं संवत्सरं तत्रारमतैष महातपाः ॥ 050c
ततो वैश्रवणो राजा भगवन्तमुवाच ह । 051a
साग्रः संवत्सरो यातो विप्रेह तव पश्यतः ॥ 051c
हार्योऽयं विषयो ब्रह्मन्गान्धर्वो नाम नामतः । 052a
छन्दतो वर्ततां विप्र यथा वदति वा भवान् ॥ 052c
अतिथिः पूजनीयस्त्वमिदं च भवतो गृहम् । 053a
सर्वमाज्ञाप्यतामाशु परवन्तो वयं त्वयि ॥ 053c
अथ वैश्रवणं प्रीतो भगवान्प्रत्यभाषत । 054a
अर्चितोस्मि यथान्यायं गमिष्यामि धनेश्वर ॥ 054c
प्रीतोस्मि सदृशं चैव तव सर्वं धनाधिप । 055a
तव प्रसादाद्भगवन्महर्षेश्च महात्मनः । 055c
नियोगादद्य यास्यामि वृद्दिमानृद्धिमान्भव ॥ 055e
अथ निष्क्रम्य भगवान्प्रययावुत्तरामुखः । 056a
'कैलासे सङ्करावासमभिवीक्ष्य प्रणम्य च ॥ 056c
गौरीशं शङ्करं दान्तं शरणागतवत्सलम् । 057a
गङ्गाधरं गोपतिनं गणावृतमकल्मषम् ॥' 057c
कैलासं मन्दरं हैमं सर्वाननुचचार ह । 058a
तानतीत्य महाशैलान्कैरातं स्थानमुत्तमम् ॥ 058c
प्रदक्षिणं तथा चक्रे प्रयतः शिरसा नतः । 059a
धरणीमवतीर्याथ पूतात्माऽसौ तदाऽभवत् ॥ 059c
स तं प्रदक्षिणं कृत्वा निर्यातश्चोत्तरामुखः । 060a
समेन भूमिभागेन ययौ प्रीतिपुरस्कृतः ॥ 060c
ततोऽपरं वनोद्देशं रमणीयमपश्यत । 061a
सर्वर्तुभिर्मूलफलैः पक्षिभिश्च समन्वितैः । 061c
रमणीयैर्वनोद्देशैस्तत्रतत्र विभूषितम् ॥ 061e
तत्राश्रमपदं दिव्यं ददर्श भगवानथ ॥ 062ac
शैलांश्च विविधाकारान्काञ्चनान्रत्नभूषितान् । 063a
मणिभूमौ निविष्टाश्च पुष्करिण्यस्तथैव च ॥ 063c
अन्यान्यपि सुरम्याणि ददर्श सुबहून्यथ । 064a
भृशं तस्य मनो रमे महर्षेर्भावितात्मनः ॥ 064c
स तत्र काञ्चनं दिव्यं सर्वरत्नमयं गृहम् । 065a
ददर्शाद्भुतसङ्काशं धनदस्य गृहाद्वरम् ॥ 065c
महान्तो यत्र विविधा मणिकाञ्चनपर्वताः । 066a
विमानानि च रम्याणि रत्नानि विविधानि च ॥ 066c
मन्दारपुष्पैः सङ्कीर्णां तथा मन्दाकिनीं नदीम् । 067a
स्वयम्प्रभाश्च मणयो वज्रैर्भूमिश्च भूषिता ॥ 067c
नानाविधैश्च भवनैर्विचित्रमणितोरणैः । 068a
मुक्ताजालविनिक्षिप्तैर्मणिरत्नविभूषितैः ॥ 068c
मनोदृष्टिहरै रम्यैः सर्वतः संवृतं शुभैः । 069a
ऋषिभिश्चावृतं तत्र आश्रमं तं मनोहरम् ॥ 069c
ततस्तस्याभवच्चिन्ता कुत्र वासो भवेदिति । 070a
अथ द्वारं समभितो गत्वा स्थित्वा ततोऽब्रवीत् ॥ 070c
अतिथिं समनुप्राप्तमभिजानन्तु येऽत्र वै ॥ 071ac
अथ कन्याः परिवृता गृहात्तस्माद्विनिर्गताः । 072a
नानारूपाः सप्त विभो कन्याः सर्वा मनोहराः ॥ 072c
यांयामपश्यत्कन्यां वै सासा तस्य मनोऽहरत् । 073a
न च शक्तो वारयितुं मनोऽस्याथावसीदति । 073c
ततो धृतिः समुत्पन्ना तस्य विप्रस्य धीमतः ॥ 073e
अथ तं प्रमदाः प्राहुर्भगवान्प्रविशत्विति । 074a
स च तासां सुरुपेण तस्यैव भवनस्य च । 074c
कौतूहलं समाविष्टः प्रविवेश गृहं द्विजः ॥ 074e
तत्रापश्यज्जरायुक्तामरजोम्बरधारिणीम् । 075a
वृद्धां पर्यङ्कमासीनां सर्वाभरणभूषिताम् ॥ 075c
स्वस्तीति तेन चैवोक्ता सा स्त्री प्रत्यवदत्तदा । 076a
प्रत्युत्थाय च तं विप्रमास्यतामित्युवाच ह ॥ 076c
अष्टावक्र उवाच । 077
सर्वाः स्वानालयान्यान्तु एका मामुपतिष्ठतु । 077a
प्रज्ञाता या प्रशान्ता या शेषा गच्छन्तु च्छन्दतः ॥ 077c
ततः प्रदक्षिणीकृत्य कन्यास्तास्तमृषिं तदा । 078a
निश्चक्रमुर्गृहात्तस्मात्सा वृद्धाऽथ व्यतिष्ठत । 078c
'तया सम्पूजितस्तत्र शयने चापि निर्मले ॥' 078e
अथ तां संविशन्प्राह शयने भास्वरे तदा । 079a
त्वयाऽपि सुप्यतां भद्रे रजनी ह्यतिवर्तते ॥ 079c
संलापात्तेन विप्रेण तथा सा तत्र भाषिता । 080a
द्वितीये शयने दिव्ये संविवेश महाप्रभे ॥ 080c
अथ सा वेपमानाङ्गी निमित्तं शीतजं तदा । 081a
व्यपदिश्य महर्षेर्वै शयनं व्यवरोहत ॥ 081c
स्वागतेनागतां तां तु भगवानभ्यभाषत । 082a
सा जुगूह भुजाभ्यां तु ऋषिं प्रीत्या नरर्षभ ॥ 082c
निर्विकारमृषिं चापि काष्ठकुड्योपमं तदा । 083a
दुखिता प्रेक्ष्य सञ्जल्पमकार्षीदृषिणा सह ॥ 083c
ब्रह्मन्नकामकरोस्ति स्त्रीणां पुरुषतो धृतिः । 084a
कामेन मोहिता चाहं त्वां भजन्तीं भजस्व माम् ॥ 084c
प्रहृष्टो भव विप्रर्षे समागच्छ मया सह । 085a
उपगूह च मां विप्र कामार्ताऽहं भृशं त्वयि ॥ 085c
एतद्वि तव धर्मात्मंस्तपसः पूज्यते फलम् । 086a
प्रार्थितं दर्शनादेव भजमानां भजस्व माम् ॥ 086c
सद्म चेदं धनं सर्वं यच्चान्यदपि पश्यसि । 087a
प्रभुस्त्वं भव सर्वत्र मयि चैव न संशयः ॥ 087c
सर्वान्कामान्विधास्यामि रमस्व सहितो मया । 088a
रमणीये वने विप्र सर्वकामफलप्रदे ॥ 088c
त्वद्वशाऽहं भविष्यामि रंस्यसे च मया सह । 089a
सर्वान्कामानुपाश्नीमो ये दिव्या ये च मानुषाः ॥ 089c
नातः परं हि नारीणां विद्यते च कदाचन । 090a
यथा पुरुषसंसर्गः परमेतद्धि नः फलम् ॥ 090c
आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः । 091a
न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः ॥ 091c
अष्टावक्र उवाच । 092
परदारानहं भद्रे न गच्छेयं कथञ्चन । 092a
दूषितं धर्मशास्त्रज्ञैः परदाराभिमर्शनम् ॥ 092c
'शुद्धक्षेत्रे ब्रह्महत्याप्रायश्चित्तमथोच्यते । 093a
पुनश्च पातकं दृष्टं विप्रक्षेत्रे विशेषतः' ॥ 093c
भद्रे निर्वेष्टुकामोऽहं तत्रावकिरणं मम । 094a
'प्रायश्चित्तं महदतो दारग्रहणपूर्वकम् ॥ 094c
बीजं न शुद्ध्यते वोढुरन्यथा कृतनिष्कृतेः । 095a
मातृतः पितृतः शुद्धो ज्ञेयः पुत्रो यथार्थतः ॥' 095c
विषयेष्वनभिज्ञोऽहं धर्मार्थं किल सन्ततिः । 096a
एवं लोकान्गमिष्यामि पुत्रैरिति न संशयः ॥ 096c
भद्रे धर्मं विजानीहि ज्ञात्वा चोपरमस्व ह ॥ 097ac
स्त्र्युवाच । 098
नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशा द्विज । 098a
प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः ॥ 098c
सहस्रे किल नारीणां प्राप्येतैका कदाचन । 099a
तथा शतसहस्रेषु यदि काचित्पतिव्रता ॥ 099c
नैता जानन्ति पितरं न कुलं न च मातरम् । 100a
न भ्रातॄन्न च भर्तारं न च पुत्रान्न देवरान् ॥ 100c
लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः । 101a
दोषान्सर्वाश्च मत्वाऽऽशु प्रजापतिरभाषत ॥ 101c
भीष्म उवाच । 102
ततः स ऋषिरेकाग्रस्तां स्त्रियं प्रत्यभाषत । 102a
आस्यतां रुचितश्छन्दः किञ्च कार्यं ब्रवीहि मे ॥ 102c
सा स्त्री प्रोवाच भगवन्द्रक्ष्यसे देशकालतः । 103a
वस तावन्महाभाग कृतकृत्यो भविष्यसि ॥ 103c
ब्रह्मर्षिस्तामथोवाच स तथेति युधिष्ठिर । 104a
वत्स्येऽहं यावदुत्साहो भवत्या नात्र संशयः ॥ 104c
अथर्षिरभिसम्प्रेक्ष्य स्त्रियं तां जरयाऽर्दिताम् । 105a
चिन्तां परमिकां भेजे सन्तप्त इव चाभवत् ॥ 105c
यद्यदङ्गं हि सोऽपश्यत्तस्या विप्रर्षभस्तदा । 106a
नारमत्तत्रतत्रास्य दृष्टी रूपविरागिता ॥ 106c
देवतेयं गृहस्यास्य शापात्किं नु विरूपिता । 107a
अस्याश्च कारणं वेत्तुं न युक्तं सहसा भया ॥ 107c
इति चिन्ताविषक्तस्य तमर्थं ज्ञातुमिच्छतः । 108a
व्यगमद्रात्रिशेषः स मनसा व्याकुलेन तु ॥ 108c
अथ सा स्त्री तथोवाच भगवन्पश्य वै रवेः । 109a
रूपं सन्ध्याभ्रसंरक्तं किमुपस्थाप्यतां तव ॥ 109c
स उवाच ततस्तां स्त्रीं स्नानोदकमिहानय । 110a
उपासिष्ये ततः सन्ध्यां वाग्यतो नियतेन्द्रियः ॥ ॥ 110c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चाशोऽध्यायः ॥ 50 ॥

13-50-1 सहोभौ चरतां धर्मं क्षौमे वसानौ जायापती अग्निमादधीयातामिति धर्मपत्नीसाहित्यं शास्त्रे दृश्यमानमाक्षिपति यदिदमिति । पाणिग्रहणात्प्राक्साहित्याभावात्सहोभाविति वाक्यं व्याकुप्येतेति भावः ॥ 13-50-3 इहैव साहित्यं दम्पत्योर्दृश्यते परलोके तयोः साहित्यं क्वनु । न क्वापीत्यर्थः ॥ 13-50-6 सूत्रकारो धर्मप्रवक्ता । अनृतं साहसं माया मूर्खत्वमतिलोभतेति स्त्रीधर्मानाह ॥ 13-50-8 गह्वरं गहनं दुर्बोधमित्यर्थः ॥ 13-50-10 दिशया दिगभिमानिदेवतया ॥ 13-50-11 निर्वेष्टुकामः दारसङ्ग्रहार्थी ॥ 13-50-21 तालैः कांस्यमयैर्वाद्यभाण्डैः । शम्पातालैः विद्युद्वदतिचपलैर्भ्रमणादिघटितैः गीतनृत्यक्रियामानविशेषैः । समैर्भ्रमणादिरहितैस्तैरेव ॥ 13-50-24 महापार्श्वे पर्वते । ततः कोपो महान्पार्श्वे इति ट. थ. पाठः । ततः कालो महान्पार्श्वे इति ध. पाठः ॥ 13-50-30 उत्तरां श्रेष्ठाम् ॥ 13-50-45 भवच्छन्दं भवदिच्छाम् ॥ 13-50-52 हार्यः हरतीति हार्यः ॥ 13-50-54 भगवान् अष्टावक्रः ॥ 13-50-55 वृद्धिरुपचयस्तद्वान् । ऋद्धिः सम्पत् तद्वान् ॥ 13-50-58 कैरातं किरातवेषधारिणो महादेवस्य सम्बन्धि ॥ 13-50-59 धरणीमवतीर्येत्यनेनाकाशमार्गेणाष्टावक्रो गच्छतीति गम्यते ॥ 13-50-72 सप्त इतरदिग्देवताः ॥ 13-50-75 उत्तराधिष्ठात्री तु देवता मुख्याऽष्टमी सैव जरायुक्ता ॥ 13-50-77 प्रज्ञाता अत्यन्तं ज्ञानवती । प्रशान्ता निर्जितचिता ॥ 13-50-82 जुगूह आलिङ्गितवती ॥ 13-50-84 ब्रह्मन्नकामतोऽन्यास्तीति झ. पाठः । तत्र अकामतोऽनिच्छातः स्वभावत इत्यर्थः । पुरुषतः पुरुषं प्राप्य स्त्रीणां धृतिर्धैर्यमन्या परकीयास्ति । पुंयोगे स्त्रीणां धृतिः स्वकीया सर्वथा नास्तीत्यर्थः ॥ 13-50-85 प्रहृष्टः कामुको भव । उपनृह अलिङ्गस्व ॥ 13-50-96 अनभिज्ञोऽप्रीतिमान् ॥ 13-50-101 लीलायन्त्यः लीलां रतिमात्मन इच्छन्त्यः दोषांश्च मन्दान्मन्दासुः प्रजापतिरभाषत इति ध. पाठः ॥ 13-50-102 एकाग्रः स्त्रीदोषाननुसन्दधानः स्त्रियम्प्रति आस्यता तूष्णीं स्थीयताम् । रुचितः रुचिं प्राप्य छन्दः इच्छा भवतीति अभाषत । त्वं रुचिज्ञा मामिच्छसि अहं त्वरुचिज्ञो न त्वां स्प्रष्टुमिच्छामीति भावः । एवमपि यत्कार्यं कर्तव्यं तव तन्मे ब्रवीहि ॥ 13-50-103 द्रक्ष्यसे स्पर्शसुखं ज्ञायसे ॥ 13-50-106 रूपे विरागिता वैराग्यवती दृष्टिर्नारमत् न रेमे ॥ 13-50-108 व्यगच्छत्तदहःशेष इति झ.पाठः ॥