अध्यायः 049
वैशम्पायनेन जनमेजयं प्रति द्वैपायनादिभिर्युधिष्ठिरं प्रत्युक्तमहादेवमहिमानुवादः ॥ 1 ॥
वैशम्पायन उवाच । 001
महायोगी तु तं प्राह कृष्णद्वैपायनो मुनिः । 001a
पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः ॥ 001c
पुरा पुत्र मया मेरौ तप्यता परमं तपः । 002a
पुत्रहेतोर्महाराज स्तव एषोऽनुकीर्तितः ॥ 002c
लब्धवानीप्सितं काममहं वै पाण्डुनन्दन । 003a
तथा त्वमपि शर्वाद्धि सर्वान्कामानवाप्स्यसि ॥ 003c
कपिलश्च ततः प्राह साङ्ख्यर्षिर्देवसम्मतः । 004a
मया जन्मान्यनेकानि भक्त्या चाराधितो भवः । 004c
प्रीतश्च भगवाञ्ज्ञानं ददौ मम भवान्तकम् ॥ 004e
चारुशीर्षस्ततः प्राह शक्रस्य दयितः सखा । 005a
आलम्बायन इत्येवं विश्रुतः करुणात्मकः ॥ 005c
मया गोकर्णमासाद्य तपस्तप्त्वा शतं समाः । 006a
अयोनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम् ॥ 006c
अजराणामदुःखानां शतवर्षसहस्रिणाम् । 007a
लब्धं पुत्रशतं शर्वात्पुरा पाण्डुनृपात्मज ॥ 007c
वाल्मीकिश्चाह भगवान्युधिष्ठिरमिदं वचः । 008a
विवादे साग्निमुनिभिर्ब्रह्मघ्नो वै भवानिति ॥ 008c
उक्तः क्षणेन चाविष्टस्तेनाधर्मेण भारत । 009a
सोऽहमीशानमनघममोघं शरणं गतः ॥ 009c
मुक्तश्चास्मि ततः पापैस्ततो दुःखविनाशनः । 010a
आह मां त्रिपुरघ्नो वै यशस्तेऽग्र्यं भविष्यति ॥ 010c
जामदग्न्यश्च कौन्तेयमिदं धर्मभृतांवरः । 011a
ऋषिमध्ये स्थितः प्राह ज्वलन्निव दिवाकरः ॥ 011c
पितृविप्रवधेनाहमार्तो वै पाण्डवाग्रज । 012a
शुचिर्भूत्वा महादेवं गतोस्मि शरणं नृप ॥ 012c
नामभिश्चास्तुवं देवं ततस्तुष्टोऽभवद्भवः । 013a
परशुं च ततो देवो दिव्यान्यस्त्राणि चैव मे ॥ 013c
पापं च ते न भविता अजेयश्च भविष्यसि । 014a
न ते प्रभविता मृत्युरजरश्च भविष्यसि ॥ 014c
आह मां भगवानेवं शिखण्डी शिवविग्रहः । 015a
तदवाप्तं च मे सर्वं प्रसादात्तस्य धीमतः ॥ 015c
विश्वामित्रस्तदोवाच क्षत्रियोऽहं तदाऽभवम् । 016a
ब्राह्मणोऽहं भवानीति मया चाराधितो भवः । 016c
तत्प्रसादान्मया प्राप्तं ब्राह्मण्यं दुर्लभं महत् ॥ 017a
असितो देवलश्चैव प्राह पाण्डुसुतं नृपम् ॥ 017c
शापाच्छक्रस्य कौन्तेय विभो धर्मोऽनशत्तदा । 018a
तन्मे धर्मं यशश्चाग्र्यमायुश्चैवाददत्प्रभुः ॥ 018c
ऋषिर्गृत्समदो नाम शक्रस्य दयितः सखा । 019a
प्राहाजमीढं भगवान्बृहस्पतिसमद्युतिः ॥ 019c
वरिष्ठो नाम भगवांश्चाक्षुषस्य मनोः सुतः । 020a
शतक्रतोरचिन्त्यस्य सत्रे वर्षसहस्रिके ॥ 020c
वर्तमानेऽब्रवीद्वाक्यं साम्नि ह्युच्चारिते मया । 021a
रथन्तरे द्विजश्रेष्ठ न सम्यगिति वर्तते ॥ 021c
समीक्षस्व पुनर्बुद्ध्या पापं त्यक्त्वा द्विजोत्तम । 022a
अयज्ञवाहिनं पापमकार्षीस्त्वं सुदुर्मते ॥ 022c
एवमुक्त्वा महाक्रोधः प्राह शम्भुं पुनर्वचः । 023a
प्रज्ञया रहितो दुःखी नित्यभीतो वनेचरः ॥ 023c
दशवर्षसहस्राणि दशाष्टौ च शतानि च । 024a
नष्टपानीयपवने मृगैरन्यैश्च वर्जिते ॥ 024c
अयज्ञीयद्रुमे देशे रुरुसिंहनिषेविते । 025a
भविता त्वं मृगः क्रूरो महादुःखसमन्वितः ॥ 025c
तस्य वाक्यस्य निधने पार्थ जातो ह्यहं मृगः । 026a
ततो मां शरणं प्राप्तं प्राह योगी महेश्वरः ॥ 026c
अजरश्चामरश्चैव भविता दुखवर्जितः । 027a
साम्यं ममास्तु ते सौख्यं युवयोर्वर्धतां क्रतुः ॥ 027c
अनुग्रहानेवमेष करोति भगवान्विभुः । 028a
अयं धाता विधाता च सुखदुःखे च सर्वदा ॥ 028c
अचिन्त्य एष भगवान्कर्मणा मनसा गिरा । 029a
न मे तात युधिश्रेष्ठ विद्यया पण्डितः समः ॥ 029c
वासुदेवस्तदोवाच पुनर्मतिमतांवरः । 030a
सुवर्णाक्षो महादेवस्तपसा तोषितो मया ॥ 030c
ततोऽथ भगवानाह प्रीतो मा वै युधिष्ठिर । 031a
अर्थात्प्रियतरः कृष्ण मत्प्रसादाद्भविष्यसि ॥ 031c
अपराजितश्च युद्धेषु तेजश्चैवानलोपमम् । 032a
एवं सहस्रशश्चान्यान्महादेवो वरं ददौ ॥ 032c
मणिमन्थेऽथ शैले वै पुरा सम्पूजितो मया । 033a
वर्षायुतसहस्राणां सहस्रं शतमेव च ॥ 033c
ततो मां भगवान्प्रीत इदं वचनमब्रवीत् । 034a
वरं वृणीष्व भद्रं ते यस्ते मनसि वर्तते ॥ 034c
ततः प्रणम्य शिरसा इदं वचनमब्रवम् । 035a
यदि प्रीतो महादेवो भक्त्या परमया प्रभुः ॥ 035c
नित्यकालं तवेशान भक्तिर्भवतु मे स्थिरा । 036a
एवमस्त्विति भगवांस्तत्रोक्त्वान्तरधीयत ॥ 036c
जैगीषव्य उवाच । 037
ममाष्टगुणमैश्वर्यं दत्तं भगवता पुरा । 037a
यत्नेनान्येन बलिना वाराणस्यां युधिष्ठिर ॥ 037c
गर्ग उवाच । 038
चतुःषष्ट्यङ्गमददत्कलाज्ञानं ममाद्भुतम् । 038a
सरस्वत्यास्तटे तुष्टो मनोयज्ञेन पाण्डव ॥ 038c
तुल्यं मम सहस्रं तु सुतानां ब्रह्मवादिनाम् । 039a
आयुश्चैव सपुत्रस्य संवत्सरशतायुतम् ॥ 039c
पराशर उवाच । 040
प्रसाद्येह पुरा शर्वं मनसाऽचिन्तयं नृप । 040a
महातपा महातेजा महायोगी महायशाः ॥ 040c
वेदव्यासः श्रियावासो ब्राह्मणः करुणान्वितः । 041a
अप्यसावीप्सितः पुत्रो मम स्याद्वै महेश्वरात् ॥ 041c
इति मत्वा हृदि मतं प्राह मां सुरसत्तमः । 042a
मयि सम्भावना यास्याः फलात्कृष्णो भविष्यति ॥ 042c
सावर्णस्य मनोः सर्गे सप्तर्षिश्च भविष्यति । 043a
वेदानां च स वै वक्ता कुरुवंशकरस्तथा ॥ 043c
इतिहासस्य कर्ता च पुत्रस्ते जगतो हितः । 044a
भविष्यति महेन्द्रस्य दयितः स महामुनिः ॥ 044c
अजरश्चामरश्चैव पराशर सुतस्तव । 045a
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत । 045c
युधिष्ठिर महायोगी वीर्यवानक्षयोऽव्ययः ॥ 045e
माण्डव्य उवाच । 046
अचोरश्चोरशङ्कायां शूले भिन्नो ह्यहं तदा ॥ 046ac
तत्रस्थेन स्तुतो देवः प्राह मां वै नरेश्वर । 047a
मोक्षं प्राप्स्यसि शूलाच्च जीविष्यसि समार्बुदम् ॥ 047c
रुजा शूलकृता चैव न ते विप्र भविष्यति । 048a
आधिभिर्व्याधिभिश्चैव वर्जितस्त्वं भविष्यति ॥ 048c
पादाच्चतुर्थात्सम्भूत आत्मा यस्मान्मुने तव । 049a
त्वं भविष्यस्यनुपमो जन्म वै सफलं कुरु ॥ 049c
तीर्थाभिषेकं सकलं त्वमविघ्नेन चाप्स्यसि । 050a
स्वर्गं चैवाक्षयं विप्र विदधामि तवोर्जितम् ॥ 050c
एवमुक्त्वा तु भगवान्वरेण्यो वृषवाहनः । 051a
महेश्वरो महाराजः कृत्तिवासा महाद्युतिः । 051c
सगणो दैवतश्रेष्ठस्तत्रैवान्तरधीयत ॥ 051e
गालव उवाच । 052
विश्वामित्राभ्यनुज्ञातो ह्यहं पितरमागतः । 052a
अब्रवीन्मां ततो माता दुःखिता रुदती भृशम् ॥ 052c
कौशिकेनाभ्यनुज्ञातं पुत्रं देवविभूषितम् । 053a
न तात तरुणं दान्तं पिता त्वां पश्यतेऽनघ ॥ 053c
श्रुत्वा जनन्या वचनं निराशो गुरुदर्शने । 054a
नियतात्मा महादेवमपश्यं सोऽब्रवीच्च माम् ॥ 054c
पिता माता च ते त्वं च पुत्र मृत्युविवर्जिताः । 055a
भविष्यथ विश क्षिप्रं द्रष्टासि पितरं क्षये ॥ 055c
अनुज्ञातो भगवता गृहं गत्वा युधिष्ठिर । 056a
अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम् । 056c
उपस्पृश्य गृहीत्वेध्मं कुशांश्च शरणाकुरून् ॥ 056e
तान्विसृज्य च मां प्राह पिता सास्राविलेक्षणः । 057a
प्रणमन्तं परिष्वज्य मूर्ध्न्युपाघ्राय पाण्डव ॥ 057c
दिष्ट्या दृष्टोसि मे पुत्र कृतविद्य इहागत ॥ 058ac
वैशम्पायन उवाच । 059
एतान्यत्यद्भुतान्येव कर्माण्यथ महात्मनः । 059a
प्रोक्तानि मुनिभिः श्रुत्वा विस्मयामास पाण्डवः ॥ 059c
ततः कृष्णोऽब्रवीद्वाक्यं पुनर्मतिमतांवरः । 060a
युधिष्ठिरं धर्मनिधिं पुरुहूतमिवेश्वरः ॥ 060c
उपमन्युर्मयि प्राह तपन्निव दिवाकरः । 061a
अशुभैः पापकर्माणो ये नराः कलुषीकृताः ॥ 061c
ईशानं न प्रपद्यन्ते तमोराजसवृत्तयः । 062ac
ईश्वरं सम्प्रपद्यन्ते द्विजा भावितभावनाः ॥ 063ac
सर्वथा वर्तमानोपि यो भक्तः परमेश्वरे । 064a
सदृशोऽरण्यवासीनां मुनीनां भावितात्मनाम् ॥ 064c
ब्रह्मत्वं केशवत्वं वा शक्रत्वं वा सुरैः सह । 065a
त्रैलोक्यस्याधिपत्यं वा तुष्टो रुद्रः प्रयच्छति 065c
मनसाऽपि शिवं तात ये प्रपद्यन्ति मानवाः । 066a
विधूय सर्वपापानि देवैः सह वसन्ति ते ॥ 066c
भित्त्वाभित्त्वा च कूलानि हुत्वा सर्वमिदं जगत् । 067a
जयेद्देवं विरूपाक्षं न स पापेन लिप्यते ॥ 067c
सर्वलक्षणहीनोपि युक्तो वा सर्वपातकैः । 068a
सर्वं तुदति तत्पापं भावयञ्शिवमात्मना 068c
कीटपक्षिपतङ्गानां तिरश्चामपि केशव । 069a
महादेवप्रपन्नानां न भयं विद्यते क्वचित् ॥ 069c
एवमेव महादेवं भक्ता ये मानवा भुवि । 070a
न ते संसारवशगा इति मे निश्चिता मतिः । 070c
ततः कृष्णोऽब्रवीद्वाक्यं धर्मपुत्रं युधिष्ठिरम् ॥ 070e
विष्णुरुवाच । 071
आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो वसवोऽथ विश्वे । 071a
धाताऽर्यमा शुक्रबृहस्पती च रुद्राः ससाध्या वरुणोऽथ गोपः ॥ 071c
ब्रह्मा शक्रो मारुतो ब्रह्म सत्यं वेदा यज्ञा दक्षिणा वेदवाहाः । 072a
सोमो यष्टा यच्च हव्यं हविश्च रक्षा दीक्षा संयमा ये च केचित् ॥ 072c
स्वाहा वौषट् ब्राह्मणाः सौरभेयी धर्मं चाग्र्यं कालचक्रं बलं च । 073a
यशो दमो बुद्धिमतां स्थितिश्च शुभाशुभं ये मुनयश्च सप्त ॥ 073c
अग्र्या बुद्धिर्मनसा दर्शने च स्पर्शश्चाग्र्यः कर्मणां या च सिद्धिः । 074a
गणा देवानामूष्मपाः सोमपाश्च लेखाः सुयामास्तुषिता ब्रह्मकायाः ॥ 074c
आभासुरा गन्धपा धूमपाश्च वाचा विरुद्धाश्च मनोविरुद्धाः । 075a
शुद्धाश्च निर्माणरताश्च देवाः स्पर्शाशना दर्शपा आज्यपाश्च ॥ 075c
चिन्त्यद्योता ये च देवेषु मुख्या ये चाप्यन्ते देवताश्चाजमीढ । 076a
सुपर्णगन्धर्वपिशाचदानवा यक्षास्तथा चारणपन्नगाश्च ॥ 076c
स्थूलं सूक्ष्मं मृदु चाप्यसूक्ष्मं दुःखं सुखं दुःखमनन्तरं च । 077a
साङ्ख्यं योगं तत्पराणां परं च शर्वाज्जातं विद्धि यत्कीर्तितं मे ॥ 077c
तत्सम्भूता भूतकृतो वरेण्याः सर्वे देवा भुवनस्यास्य गोपाः । 078a
आविश्येमां धरणीं येऽभ्यरक्षन्पुरातनीं तस्य देवस्य सृष्टिम् ॥ 078c
विचिन्वन्तस्तपसा तत्स्थवीयः किञ्चित्तत्त्वं प्राणहेतोर्नतोस्मि । 079a
ददातु वेदः स वरानिहेष्टानभिष्टुतोः नः प्रभुरव्ययः सदा ॥ 079c
इमं स्तवं सन्नियतेन्द्रियश्च भूत्वा शुचिर्यः पुरुषः पठेत । 080a
अभग्नयोगो नियतो मासमेकं सम्प्राप्नुयादश्वमेधे फलं यत् ॥ 080c
वेदान्कृत्स्नान्ब्राह्मणः प्राप्नुयात्तु जयेन्नृपः पार्थ महीं च कृत्स्नाम् । 081a
वैश्यो लाभं प्राप्नुयान्नैपुणं च शूद्रो गतिं प्रेत्य तथा सुखं च ॥ 082c
स्तवराजमिमं कृत्वा रुद्राय दधिरे मनः । 083a
सर्वदोषापहं पुण्यं पवित्रं च यशस्विनः ॥ 083c
यावन्त्यस्य शरीरेषु रोमकूपाणि भारत । 084a
तावन्त्यब्दसहस्राणि स्वर्गे वसति मानवः ॥ ॥ 084c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनपञ्चाशोऽध्यायः ॥ 49 ॥
13-49-1 पठस्व स्तवमिति शेषः । हे पुत्र युधिष्ठिर ॥ 13-49-5 आलम्बायन आलम्बगोत्रः । चतुःशीर्ष इति ट.थ.पाठः ॥ 13-49-7 हे पुत्र शतं पुत्राणामिति शेषः ॥ 13-49-8 विवादे वेदविपरीतवादे । अग्निसहितैर्मुनिभिरुक्त इति सम्बन्धः ॥ 13-49-9 तेन वेदविरोधजेन ॥ 13-49-12 पितृतुल्या विप्रा ज्येष्ठो भ्राता पितुः सम इति स्मृतेर्ज्येष्ठा भ्रातरस्तेषां वधेन । स तु विप्रवधेनेति ट.थ पाठः ॥ 13-49-15 शिखण्डी कपर्दी । शिवविग्रहः कल्याणशरीरः ॥ 13-49-18 प्रभुः प्रार्थितः सन्निति शेषः ॥ 13-49-21 उच्चारिते अन्यथेति शेषः ॥ 13-49-22 पापं वितथाभिनिवेशं त्यक्त्वा समीक्षस्व विचारय । अयज्ञवाहिनं न यज्ञं वहति तं पापमवाक्षरपाठजमपराधम् ॥ 13-49-23 निधने अन्ते सद्य एवेत्यर्थः ॥ 13-49-27 साम्यमवैषम्यम् । युवयोर्गृत्समदशतक्रत्वोः ॥ 13-49-31 अर्थः सर्वस्मात्प्रियस्ततोऽपि प्रियोऽन्तरात्मा तत्तुल्यः सर्वेषां भविष्यसीत्यर्थः ॥ 13-49-33 पूरा पूर्वावतारे ॥ 13-49-42 या तव मयि सम्भावना एतस्मात्फलमहं प्राप्स्ये इति अस्याः फलात् पुण्यात्तव कृष्णोनाम पुत्रो भविष्यति ॥ 13-49-49 पादाच्चतुर्थात् । तपः शौचं दया सत्यमिति चत्वारो धर्मस्य पादास्तेषां चतुर्थात्सत्यादेव तवात्मा शरीरम् ॥ 13-49-52 पितरं द्रक्ष्ये इति बुद्ध्या गृहमागतः । दुःखिता वैधव्यदुःखेन ॥ 13-49-55 क्षये गृहे । विश प्रविश ॥ 13-49-56 शरणाकुरून् वाय्वाघातेन वा स्वयं वा पक्वतया फलानामधःपतनेन विशरणं शरणा तत्प्रधानाः कुरवोऽन्नानि शरणाकुरवस्तान् । शॄ विशरणेऽस्माद्भावे ल्युः ॥ 13-49-57 सास्रत्वादाविले ईक्षणे यस्य ॥ 13-49-60 ईश्वरो विष्णुः ॥ 13-49-67 कूलानि गृहतटाकादीनि ॥ 13-49-68 आत्मना चित्तेन ॥ 13-49-71 आदित्यचन्द्रावित्यादिसर्वं सर्वाज्जातं विद्धीति सप्तमस्थेनान्वयः ॥ 13-49-72 उपनिषत् । प्राधान्यात्पृथक्कीर्तनम् । वेदवाहा वेदपाठकाः ॥ 13-49-75 वाचाविरुद्धाः । वाङ्नियमनशीलाः । निर्माणं अनेकधाभवनं योगेनानेकशरीरधारणं तत्र रताः ॥ 13-49-77 चिन्त्यद्योताः सङ्कल्पितमात्रं वस्तु येषां सद्यः पुरतः प्रकाशते तादृशाः ॥