अध्यायः 048
कृष्णेन युधिष्ठिरम्प्रत्युपमन्युना स्वात्मानं प्रत्युक्तशिवसहस्रनामानुवादः ॥ 1 ॥
वासुदेव उवाच । 001
ततः स प्रयतो भूत्वा मम तात युधिष्ठिर । 001a
प्राञ्जलिः प्राह विप्रर्षिर्नामसङ्ग्रहमादितः ॥ 001c
उपमन्युरुवाच । 002
ब्रह्मप्रोक्तैर्ऋषिप्रोक्तैर्वेदवेदाङ्गसम्भवैः । 002a
सर्वलोकेषु विख्यातं स्तुत्यं स्तोष्यामि नामभिः ॥ 002c
महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः । 003a
ऋषिणा तण्डिना भक्त्या कृतैर्वेदकृतात्मना ॥ 003c
यथोक्तैः साधुभिः ख्यातैर्मुनिभिस्तत्त्वदर्शिभिः । 004a
प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम् ॥ 004c
श्रुतेः सर्वत्र जगति ब्रह्मलोकावतारितैः । 005a
सत्यैस्तत्परमं ब्रह्म ब्रह्मप्रोक्तं सनातनम् । 005c
वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम ॥ 005e
वरयैनं भवं देवं भक्तस्त्वं परमेश्वरम् । 006a
तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनम् ॥ 006c
न शक्यं विस्तरात्कृत्स्नं वक्तुं सर्वस्य केनचित् । 007a
युक्तेनापि विभूतीनामपि वर्षशतैरपि ॥ 007c
यस्यादिर्मध्यमन्तं च सुरैरपि न गम्यते । 008a
कस्तस्य शक्नुयाद्वक्तुं गुणान्कार्त्स्न्येन माधव ॥ 008c
किन्तु देवस्य महतः सङ्क्षिप्तार्थपदाक्षरम् । 009a
शक्तितश्चरितं वक्ष्ये प्रसादात्तस्य धीमतः ॥ 009c
अप्राप्य तु ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः । 010a
यदा तेनाभ्यनुज्ञातः स्तुतो वै स तदा मया ॥ 010c
अनादिनिधनस्याहं जगद्योनेर्महात्मनः । 011a
नाम्नां कञ्चित्समुद्देशं वक्ष्याम्यव्यक्तयोनिनः ॥ 011c
वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः । 012a
शृणु नाम्नां चयं कृष्ण यदुक्तं पद्मयोनिना ॥ 012c
दश नामसहस्राणि यान्याह प्रपितामहः । 013a
तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतम् ॥ 013c
गिरेः सारं यथा हेम पुष्पसारं यथा मधु । 014a
घृतात्सारं यथा मण्डस्तथैतत्सारमुद्धृतम् । 014c
सर्वपापापहमिदं चतुर्वेदसमन्वितम् । 015a
प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना ॥ 015c
माङ्गल्यं पौष्टिकं चैव रक्षोघ्नं पावनं महत् ॥ 016ac
इदं भक्ताय दातव्यं श्रद्दधानास्तिकाय च । 017a
नाश्रद्दधानरूपाय नास्तिकायाजितात्मने ॥ 017c
यश्चाभ्यसूयते देवं कारणात्मानमीश्वरम् । 018a
स कृष्ण नरकं याति सहपूर्वैः सहात्मजैः ॥ 018c
इदं ध्यानमिदं योगमिदं ध्येयमनुत्तममम् । 019a
इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तम् ॥ 019c
यं ज्ञात्वा अन्तकालेऽपि गच्छेत परमां गतिम् । 020a
पवित्रं मङ्गलं मेध्यं कल्याणमिदमुत्तमम् ॥ 020c
इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः । 021a
सर्वस्तवानां राजत्वे दिव्यानां समकल्पयत् ॥ 021c
तदाप्रभृति चैवायमीश्वरस्य महात्मनः । 022a
स्तवराज इति ख्यातो जगत्यमरपूजितः ॥ 022c
ब्रह्मलोकादयं स्वर्गे स्तवराजोऽवतारितः । 023a
यतस्तण्डिः पुरा प्राप तेन तण्डिकृतोऽभवत् ॥ 023c
स्वर्गाच्चैवात्र भूर्लोकं तण्डिना ह्यवतारितः । 024a
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ॥ 024c
निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् । 025a
ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परम् ॥ 025c
तेजसामपि यत्तेजस्तपसामपि यत्तपः । 026a
शान्तीनामपि या शान्तिर्द्युतीनामपि या द्युतिः ॥ 026c
दान्तानामपि यो दान्तो धीमतामपि या च धीः । 027a
देवानामपि यो देव ऋषीणामपि यस्त्वृषिः ॥ 027c
यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः । 028a
रुद्राणामपि यो रुद्रः प्रभा प्रभवतामपि ॥ 028c
योगिनामपि यो योगी कारणानां च कारणम् । 029a
यतो लोकाः सम्भवन्ति न भवन्ति यतः पुनः ॥ 029c
सर्वभूतात्मभूतस्य हरस्यामिततेजसः । 030a
अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु । 030c
यच्छ्रुत्वा मनुजव्याघ्र सर्वान्कामानवाप्स्यसि ॥ 030e
स्थिरः स्थाणुः प्रभुर्भानुः, प्रवरो वरदो वरः । 031a
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ 031c
जटी चर्मीं शिखी खड्गी सर्वाङ्गः सर्वभावनः । 032a
हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥ 032c
प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः । 033a
श्मशानवासी भगवान्खचरो गोचरोऽर्दनः ॥ 033c
अभिवाद्यो महाकर्मा तपस्वी भूतभावनः । 034a
उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥ 034c
महारूपो महाकायो वृषरूपो महायशाः । 035a
महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः ॥ 035c
लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः । 036a
पवित्रं च महांश्चैव नियमो नियमाश्रितः ॥ 036c
सर्वकर्मा स्वयम्भूत आदिरादिकरो निधिः । 037a
सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः ॥ 037c
चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः । 038a
अत्रिरत्र्या नमस्कर्ता मृगबाणार्पणोऽनघः ॥ 038c
महातपा घोरतपा अदीनो दीनसाधकः । 039a
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥ 039c
योगी योज्यो महाबीजो महारेता महाबलः । 040a
सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः ॥ 040c
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः । 041a
विश्वरूपः स्वयं श्रेष्ठो बलवीरो बलो गणः ॥ 041c
गणकर्ता गणपतिर्दिग्वासाः काम एव च । 042a
मन्त्रवित्परमो मन्त्रः सर्वभावकरो हरः ॥ 042c
कमण्डलुधरो धन्वी बाणहस्तः कपालवान् । 043a
अशनी शतघ्नी खङ्गी पट्टिशी चायुधी महान् ॥ 043c
स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः । 044a
उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ॥ 044c
दीर्घश्च हरिकेशश्च सुतीर्थः कुष्ण एव च । 045a
शृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः ॥ 045c
अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि । 046a
ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभःस्थलः ॥ 046c
त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः । 047a
अहश्चरो नक्तञ्चरस्तिग्ममन्युः सुवर्चसः ॥ 047c
गजहा दैत्यहा कालो लोकधाता गुणाकरः । 048a
सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥ 048c
कालयोगी महानादः सर्वकामश्चतुष्पथः । 049a
निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥ 049c
बहुभूतो बहुधरः स्वर्भानुरमितो गतिः । 050a
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः ॥ 050c
घोरो महातपाः पाशो नित्यो गिरिरुहो नभः । 051a
सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः ॥ 051c
अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः । 052a
दक्षयागापहारी च सुसहो मध्यमस्तथा ॥ 052c
तेजोपहारी बलहा मुदितोऽर्थोऽजितो वरः । 053a
गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ॥ 053c
न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः । 054a
सुतीक्ष्णदशनश्चैव महाकायो महाननः ॥ 054c
विष्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः । 055a
तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ॥ 055c
विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः । 056a
हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥ 056c
उग्रतेजा महातेजा जन्यो विजयकालवित् । 057a
ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च ॥ 057c
शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली । 058a
वेणवी पणवी ताली खली कालकटङ्कटः ॥ 058c
नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयो गमः । 059a
प्रजापतिर्विश्वबाहुर्विभागः सर्वगोमुखः ॥ 059c
विमोचनः सुसरणो हिरण्यकवचोद्भवः ॥ 060a
मेढ्रजो बलचारी च महीचारी स्रुतस्तथा ॥ 060c
सर्वतूर्यनिनादी च सर्वातोद्यपरिग्रहः । 061a
व्यालरूपो गुहावासी गुहो माली तरङ्गवित् ॥ 061c
त्रिदशस्त्रिकालधृक्कर्मसर्वबन्धविमोचनः । 062a
बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः ॥ 062c
साङ्ख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः । 063a
प्रस्कन्दनो विभागज्ञो अतुल्यो यज्ञभागवित् ॥ 063c
सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः । 064a
हैमो हेमकरो यज्ञः सर्वधारी धरोत्तमः ॥ 064c
लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः । 065a
सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥ 065c
मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः । 066a
सर्वकासप्रसादश्च सुबलो बलरूपधृत् ॥ 066c
सर्वकामवरश्चैव सर्वदः सर्वतोमुखः । 067a
आकाशनिर्विरूपश्च निपाती ह्यवशः खगः ॥ 067c
रौद्ररूपोंऽशुरादित्यो बहुरश्मिः सुवर्चसी । 068a
वसुवेगो महावेगो मनोवेगो निशाचरः ॥ 068c
सर्ववासी श्रियावासी उपदेशकरोऽकरः । 069a
मुनिरात्मनिरालोकः सम्भग्नश्च सहस्रदः ॥ 069c
पक्षी च पक्षरूपश्च अतिदीप्तो विशाम्पतिः । 070a
उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः ॥ 070c
वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः । 071a
सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः ॥ 071c
भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः । 072a
महासेनो विशाखश्च षष्टिभागो गवाम्पतिः ॥ 072c
वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च । 073a
वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः ॥ 073c
वाचस्पत्यो वाजसनो नित्यमाश्रमपूजितः । 074a
ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ॥ 074c
ईशान ईश्वरः कालो निशाचारी पिनाकवान् । 075a
निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ॥ 075c
नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः । 076a
भगहारी निहन्ता च कालो ब्रह्मा पितामहः ॥ 076c
चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च । 077a
लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः ॥ 077c
बीजाध्यक्षो बीजकर्ता अध्यात्माऽनुगतो बलः । 078a
इतिहासः सकल्पश्च गौतमोऽथ निशाकरः ॥ 078c
दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः । 079a
लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः ॥ 079c
अक्षरं परमं ब्रह्मि बलवच्छक्र एव च । 080a
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः ॥ 080c
बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वभित्रजित् । 081a
वेदकारो मन्त्रकारो विद्वान्समरमर्दनः ॥ 081c
महामेघनिवासी च महाघोरो वशीकरः । 082a
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥ 082c
वृषणः शङ्करो नित्यं वर्चस्वी धूमकेतनः । 083a
नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः ॥ 083c
स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः । 084a
उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः ॥ 084c
कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम् । 085a
महापादो महाहस्तो महाकायो महायशाः ॥ 085c
महामूर्धा महामात्रो महानेत्रो निशालयः । 086a
महान्तको महाकर्णो महोष्ठश्चि महाहनुः ॥ 086c
महानासो महाकम्बुर्महाग्रीवः श्मशानभाक् । 087a
महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः ॥ 087c
लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः । 088a
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥ 088c
महानखो महारोमा महाकेशो महाजटः । 089a
प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः ॥ 089c
स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः । 090a
वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ॥ 090c
गण्डली मेरुधामा च देवाधिपतिरेव च । 091a
अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ॥ 091c
यजुःपादभुजो गुह्यः प्रकाशो जङ्गमस्तथा । 092a
अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥ 092c
उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः । 093a
नाभिर्नन्दिकरो भावः पुष्करस्थपतिः स्थिरः ॥ 093c
द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः । 094a
नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ 094c
सगणो गणकारश्च भूतवाहनसारथिः । 095a
भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥ 095c
लोकपालस्तथा लोको महात्मा सर्वपूजितः । 096a
शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः ॥ 096c
आश्रमस्थः क्रियादस्थो विश्वकर्ममतिर्वरः । 097a
विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः ॥ 097c
कपिलः कपिशः शुक्ल आयुश्चैव परोऽपरः । 098a
गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः ॥ 098c
परश्वधायुधो देव अनुकारी सुबान्धवः । 099a
तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः ॥ 099c
उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः । 100a
सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥ 100c
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः । 101a
स यज्ञारिः स कामारिर्महादंष्ट्रो महायुधः ॥ 101c
बहुधा निन्दितः शर्वः शङ्करः शङ्करोऽधनः । 102a
अमरेशो महादेवी विश्वदेवः सुरारिहा ॥ 102c
अहिर्बुध्न्योऽनिलाभश्च चेकितानो हविस्तथा । 103a
अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ॥ 103c
धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा । 104a
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥ 104c
प्रभावः सर्वगो वायुरर्यमा सविता रविः । 105a
उषङ्गुश्च विधाता च मान्धाता भूतभावनः ॥ 105c
विभुर्वर्णविभावी च सर्वकामगुणावहः । 106a
पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः ॥ 106c
बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी । 107a
कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः ॥ 107c
सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः । 108a
देवदेवः सुखासक्तः सदसत्सर्वरत्नवित् ॥ 108c
कैलासगिरिवासी च हिमवद्गिरिसंश्रयः । 109a
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥ 109c
वणिजो वर्धकी वृक्षो बकुलश्चन्दनश्छदः । 110a
सारग्रीवो महाजत्रुरलोलश्च महौषधः ॥ 110c
सिद्धार्थकारी सिद्धार्थश्छदो व्याकरणोत्तरः । 111a
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥ 111c
प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः । 112a
सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ॥ 112c
भूतालयो भूतपतिरहोरात्रमनिन्दितः ॥ 113ac
वाहिता सर्वभूतानां निलयश्च विभुर्भवः । 114a
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः ॥ 114c
धृतिमान्मतिमान्दक्षः सत्कृतश्च युगाधिपः । 115a
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः । 115c
हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् । 116a
प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः ॥ 116c
गान्धारश्च सुवासस्च तपःसक्तो रतिर्नरः । 117a
महागीतो महानृत्यो ह्यप्सरोगणसेवितः ॥ 117c
महाकेतुर्महाधातुर्नैकसानुचरश्चलः । 118a
आवेदनीय आदेशः सर्वगन्धसुखावहः ॥ 118c
तोरणस्तारणो वातः वरिधी पतिखेचरः । 119a
संयोगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः ॥ 119c
नित्य आत्मसहायश्च देवासुरपतिः पतिः । 120a
युक्तश्च युक्तबाहुश्च देवो दिवि सुपर्वणः ॥ 120c
आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः । 121a
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥ 121c
शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः । 122a
अक्षश्च रथयोगी च सर्वयोगी महाबलः ॥ 122c
समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः । 123a
निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः ॥ 123c
रत्नप्रभूतो रत्नाङ्गो महार्णवनिपानवित् । 124a
मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ॥ 124c
आरोहणोऽधिरोहश्च शीलधारी महायशाः । 125a
सेनाकल्पो महाकल्पो योगो युगकरो हरिः ॥ 125c
युगरूपो महारूपो महानागहनो वधः । 126a
न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः ॥ 126c
बहुमालो महामालः शशी हरसुलोचनः । 127a
विस्तारो लवणः कूपस्त्रियुगः सफलोदयः ॥ 127c
त्रिलोचनो विषष्णाङ्गो मणिविद्धो जटाधरः । 128a
बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः ॥ 128c
निवेदनः सुखाजातः सुगन्धारो महाधनुः । 129a
गन्धपाली च भगवानुत्थानः सर्वकर्मणाम् ॥ 129c
मन्थानो बहुलो वायुः सकलः सर्वलोचनः । 130a
तलस्तालः करस्थाली ऊर्ध्वसंहननो महान् ॥ 130c
छत्रं सुच्छत्रो विख्यातो लोकः सर्वाश्रयः क्रमः । 131a
मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः । 131c
हर्यक्षः ककुभो वज्रो शतजिह्वः सहस्रपात् । 132a
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ॥ 132c
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् । 133a
पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः । 133c
ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् । 134a
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥ 134c
गभस्तिर्ब्रह्मकृद्ब्रह्मी ब्रह्मविद्ब्राह्मणो गतिः । 135a
अनन्तरुपो नैकात्मा तिग्मतेजाः स्वयम्भुवः ॥ 135c
ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः । 136a
चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः ॥ 136c
कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृत् । 137a
उमापतिरुमाकान्तो जाह्नवीधृगुमाधवः ॥ 137c
वरो वराहो वरदो वरेण्यः सुमाहास्वनः । 138a
महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥ 138c
पीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् । 139a
सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः ॥ 139c
चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः । 140a
साध्यर्षिर्वसुरादित्यो विवस्वान्सविताऽमृतः 140c
व्यासः सर्गः सुसङ्क्षेपो विस्तरः पर्ययो नरः । 141a
ऋतु संवत्सरो मासः पक्षः सङ्ख्यासमापनः ॥ 141c
कला काष्ठा लवा मात्रा मुहूर्ताहःक्षपाः क्षणाः । 142a
विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्तु निर्गमः ॥ 142c
सदसद्व्यक्तमव्यक्तं पिता माता पितामहः । 143a
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ 143c
निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परा गतिः । 144a
देवासुरविनिर्माता देवासुरपरायणः ॥ 144c
देवासुरगुरुर्देवो देवासुरनमस्कृतः । 145a
देवासुरमहामात्रो देवासुरगणाश्रयः ॥ 145c
देवासुरगणाध्यक्षो देवासुरगणाग्रणीः । 146a
देवातिदेवो देवर्षिर्देवासुरवरप्रदः ॥ 146c
देवासुरेश्वरो विश्वो देवासुरमहेश्वरः । 147a
सर्वदेवमयोचिन्त्यो देवतात्माऽत्मसम्भवः ॥ 147c
उद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः ॥ 148a
ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः ॥ 148c
विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः । 149a
सुयुक्तः शोभनो वज्री प्रासानां प्रभवोऽव्ययः ॥ 149c
गुहः कान्तो निजः सर्गः पवित्रं सर्वपावनः । 150a
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ॥ 150c
अभिरामः सुरगणो विरामः सर्वसाधः । 151a
ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः ॥ 151c
स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः । 152a
सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ॥ 152c
व्रताधिपः परं ब्रह्म भक्तानां परमा गतिः । 153a
विमुक्तो मुक्ततेजाश्च श्रीमाञ्श्रीवर्धनो जगत् ॥ 153c
यथा प्रधानं भगवानिति भक्त्या स्तुतो मया । 154a
यन्न ब्रह्मादयो देवा विदुस्तत्त्वेन नर्षयः । 154c
स्तोतव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम् ॥ 154e
भक्तिं त्वेवं पुरस्कृत्य मया यज्ञपतिर्विभुः । 155a
ततोऽभ्यनुज्ञां सम्प्राप्य स्तुतो मतिमतां वरः ॥ 155c
शिवमेभिः स्तुवन्देवं नामभिः पुष्टिवर्धनैः । 156a
नित्ययुक्तः शुचिर्भक्तः प्राप्नोत्यात्मानमात्मना ॥ 156c
एतद्धि परमं ब्रह्म परं ब्रह्माधिगच्छति ॥ 157ac
ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम् ॥ 158ac
स्तूयमानो महादेवस्तुष्यते नियतात्मभिः । 159a
भक्तानुकम्पी भगवानात्मसंस्थाकरो विभुः ॥ 159c
तथैव च मनुष्येषु ये मनुष्याः प्रधानतः । 160a
आस्तिकाः श्रद्धधानाश्च बहुभिर्जन्मभिः स्तवैः ॥ 160c
भक्त्या ह्यनन्यमीशानं परं देवं सनातनम् । 161a
कर्मणा मनसा वाचा भावेनामिततेजसः ॥ 161c
शयाना जाग्रमाणाश्च व्रजन्नुपविशंस्तथा । 162a
उन्मिषन्निमिषंश्चैव चिन्तयन्तः पुनः पनः ॥ 162c
शृण्वन्तः श्रावयन्तश्च कथयन्तश्च ते भवम् । 163a
स्तुवन्तः स्तूयामानाश्च तुष्यन्ति च रमन्ति च ॥ 163c
जन्मकोटिसहस्रेषु नानासंसारयोनिषु । 164a
जन्तोर्विगतपापस्य भवे भक्तिः प्रजायते ॥ 164c
उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः । 165a
भाविनः कारणे चास्य सर्वयुक्तस्य सर्वथा ॥ 165c
एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्तते । 166a
निर्विघ्रा निश्चला रुद्रे भक्तिरव्यभिचारिणी ॥ 166c
तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम् । 167a
येन यान्ति परां सिद्धिं तद्भागवतचेतसः ॥ 167c
ये सर्वभावानुगताः प्रपद्यन्ते महेश्वरम् । 168a
प्रपन्नवत्सलो देवः संसारात्तान्समुद्धरेत् ॥ 168c
एवमन्ये विकुर्वन्ति देवाः संसारमोचनम् । 169a
मनुष्याणामृते देवं नान्या शक्तिस्तपोबलम् ॥ 169c
इति तेनेन्द्रकल्पेन भगवान्सदसत्पतिः । 170a
कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुभबुद्धिना ॥ 170c
स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत् । 171a
गीयते च स बुद्ध्येत ब्रह्म शङ्करसन्निधौ ॥ 171c
इदं पुण्यं पवित्रं च सर्वदा पापनाशनम् । 172a
योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा ॥ 172c
एवमेतत्पठन्ते य एकभक्त्या तु शङ्करम् । 173a
या गतिः साङ्ख्ययोगानां व्रजन्त्येतां गतिं तदा ॥ 173c
स्तवमेतं प्रयत्नेन सदा रुद्रस्य सन्निधौ । 174a
अब्धमेकं चरेद्भक्तः प्राप्नुयादीप्सितं फलम् ॥ 174c
एतद्रहस्यं परमं ब्रह्मणो हृदि संस्थितम् । 175a
ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे ॥ 175c
मृत्युः प्रोवाच रुद्रेभ्यो रुद्रेभ्यस्तण्डिमागमत् । 176a
महता तपसा प्राप्तस्तण्डिना ब्रह्मसद्मानि ॥ 176c
तण्डिः प्रोवाच शुक्राय गौतमाय च भार्गवः । 177a
वैवस्वताय मनवे गौतमः प्राह माधव ॥ 177c
नारायणाय साध्याय समाधिष्ठाय धीमते । 178a
यमाय प्राह भगवान्साध्यो नारायणोच्युतः ॥ 178c
नाचिकेताय भगवानाह वैवस्वतो यमः । 179a
मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत ॥ 179c
मार्कण्डेयान्मय प्राप्तो नियमेन जनार्दन । 180a
तवाप्यहममित्रघ्न स्तवं दद्यां ह्यविश्रुतम् । 180c
स्वर्ग्यमारोग्यमायुष्यं धन्यं वेदेन सम्मितम् । 181a
नास्य विघ्नं विकुर्वन्ति दानवा यक्षराक्षसाः ॥ 181c
पिशाचा यातुधाना वा गुह्यका भुजगा अपि । 182a
यः पठेत शुचिः पार्थ ब्रह्मचारी जितेन्द्रियः । 182c
अभग्रयोगो वर्षं तु सोऽश्वमेधफलं लभेत् ॥ ॥ 182e
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टचत्वारिंशोऽध्यायः ॥ 48 ॥
13-48-3 सत्यैरन्वर्यैः वेदे कृतात्मना दत्तचित्तेन कृतैः वेदात्पृथक्कृतैः ॥ 13-48-6 वरय प्रार्थत ॥ 13-48-20 पवित्रं पापनाशकम् । मेध्यं यज्ञादिफलप्रदम् । मङ्गलमभ्युदयकरम् । उत्तमं कल्याणं परमानन्दरूपम् ॥