अध्यायः 047

उपमन्युना कृष्णम्प्रति तण्डिकृतमहादेवस्तुत्यनुवादः ॥ 1 ॥

उपमन्युरुवाच । 001
ऋषिरासीत्कृते तात तण्डिरित्येव विश्रुतः । 001a
दशवर्षसहस्राणि तेन देवः समाधिना ॥ 001c
आराधितोऽभूद्भक्तेन तस्योदर्कं निशामय । 002a
स दृष्टवान्महादेवमस्तौषीच्च स्तवैर्विभुम् ॥ 002c
[इति तण्डिस्तपोयोगात्परमात्मानमव्ययम् । 003a
चिन्तयित्वा महात्मानमिदमाह सुविस्मितः ॥ 003c
यं पठन्ति सदा साङ्ख्याश्चिन्तयन्ति च योगिनः । 004a
परं प्रधानं पुरुषमधिष्ठातारमीश्वरम् । 004c
उत्पत्तौ च विनाशे च कारणं यं विदुर्बुधाः । 005a
देवासुरमुनीनां च परं यस्मान्न विद्यते ॥ 005c
अजं तमहमीशानमनादिनिधनं प्रभुम् । 006a
अत्यन्तसुखिनं देवमनघं शरणं व्रजे ॥ 006c
एवं ब्रुवन्नेव तदा ददर्श तपसान्निधिम् । 007a
तमव्ययमनौपम्यमचिन्त्यं शाश्वतं ध्रुवम् ॥ 007c
निष्कलं सकलं ब्रह्म निर्गुणं गुणगोचरम् । 008a
योगिनां परमानन्दमक्षरं मोक्षसञ्ज्ञितम् ॥ 008c
मनोरिन्द्राग्निमरुतां विश्वस्य ब्रह्मणो गतिम् । 009a
अग्राह्यमचलं शुद्धं बुद्धिग्राह्यं मनोमयम् ॥ 009c
दुर्विज्ञेयमसङ्ख्ये दुष्प्रापमकृतात्मभिः । 010a
योनिं विश्वस्य जगतस्तमसः परतः परम् ॥ 010c
यः प्राणवन्तमात्मानं ज्योतिर्जीवस्थितं मनः । 011a
तं देवं दर्शनाकाङ्क्षी बहून्वर्षगणानृषिः । 011c
तपस्युग्रे स्थितो भूत्वा दृष्ट्वा तुष्टाव चेश्वरम् ॥] 011e
तण्डिरुवाच । 012
पवित्राणां पवित्रस्त्वं गतिर्गतिमतांवर ॥ 012ac
अत्युग्रं तेजसां तेजस्तपसां परमं तपः । 013a
विश्वावसुहिरण्याक्षपुरुहूतनमस्कृत ॥ 013c
भूरिकल्याणद विभो परं सत्यं नमोस्तु ते । 014a
जातीमरणभीरूणां यतीनां यततां विभो ॥ 014c
निर्वाणद सहस्रांशो नमस्तेऽस्तु सुखाश्रय । 015a
ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः ॥ 015c
न विदुस्त्वां तु तत्त्वेन कुतो वेत्स्यामहे वयम् । 016a
त्वत्तः प्रवर्तते सर्वं त्वयि सर्वं प्रतिष्ठितम् ॥ 016c
कालाख्यः पुरुषाख्यश्च ब्रह्माख्यश्च त्वमेव हि । 017a
तनवस्ते स्मृतास्तिस्रः पुराणज्ञैः सुरर्षिभिः ॥ 017c
अधिपौरुषमध्यात्ममधिभूताधिदैवतम् । 018a
अधिलोकाधिविज्ञानमधियज्ञस्त्वमेव हि ॥ 018c
त्वां विदित्वाऽऽत्मदेवस्थं दुर्विदं दैवतैरपि । 019a
विद्वांसो यान्ति निर्मुक्ताः परं भावमनामयम् ॥ 019c
अनिच्छतस्तव विभो जन्ममृत्युरनेकतः । 020a
द्वारं तु स्वर्गमोक्षाणामाक्षेप्ता त्वं ददासि च ॥ 020c
त्वं वै स्वर्गश्च मोक्षश्च कामः क्रोधस्त्वमेव च । 021a
सत्वं रजस्ममश्चैव अधश्चोर्ध्वं त्वमेव हि ॥ 021c
ब्रह्मा भवश्च विष्णुश्च स्कन्देन्द्रौ सविता यमः । 022a
वरुणेन्दू मनुर्धाता विधाता त्वं धनेश्वरः ॥ 022c
भूर्वायुः सलिलाग्निश्च खं वाग्बुद्धिः स्थितिर्मतिः । 023a
कर्म सत्यानृते चोभे त्वमेवास्ति च नास्ति च ॥ 023c
इन्द्रियाणीन्द्रियार्थाश्च प्रकृतिभ्यः परं ध्रुवम् । 024a
विश्वाविश्वपरो भावश्चिन्त्याचिन्त्यस्त्वमेव हि ॥ 024c
यच्चैतत्परमं ब्रह्म यच्च तत्परमं पदम् । 025a
या गतिः साङ्ख्ययोगानां स भवान्नात्र संशयः ॥ 025c
नूनमद्य कृतार्थाः स्म नूनं प्राप्ताः सतां गतिम् । 026a
यां गतिं प्रार्तयन्तीह ज्ञाननिर्मलबुद्धयः ॥ 026c
अयो मूढाः स्म सुचिरमिमं कालमचेतसा । 027a
यन्न विद्मः परं देवं शाश्वतं यं विदुर्बुधाः ॥ 027c
सेयमासादिता साक्षात्त्वद्भक्तिर्जन्मभिर्मया । 028a
भक्तानुग्रहकृद्देवो यं ज्ञात्वाऽमृतमश्नुते ॥ 028c
देवासुरमुनीनां तु यच्च गुह्यं सनातनम् । 029a
गुहायां निहितं ब्रह्म दुर्विज्ञेयं मुनेरपि ॥ 029c
स एष भगवान्देवः सर्वकृत्सर्वतोमुखः । 030a
सर्वात्मा सर्वदर्शी च सर्वगः सर्ववेदिता ॥ 030c
देहकृद्देहभृद्देही देहभुग्देहिनां गतिः । 031a
प्राणकृत्प्राणभृत्प्राणी प्राणदः प्राणिनां गतिः ॥ 031c
अध्यात्मगतिरिष्टानां ध्यायिनामात्मवेदिनाम् । 032a
अपुनर्भवकामानां या गतिः सोऽयमीश्वरः ॥ 032c
अयं च सर्वभूतानां शुभाशुभगतिप्रदः । 033a
अयं च जन्ममरणे विदध्यात्सर्वजन्तुषु । 033c
अयं संसिद्धिकामानां या गतिः सोयमीस्वरः । 033e
भूराद्यान्सर्वभुवनानुत्पाद्य सदिवौकसः । 034a
दधाति देवस्तनुभिरष्टाभिर्यो बिभर्ति च ॥ 034c
अतः प्रवर्तते सर्वमस्मिन्सर्वं प्रतिष्ठितम् । 035a
अस्मिंश्च प्रलयं याति अयमेकः सनातनः ॥ 035c
अयं स सत्यकामानां सत्यलोकः परं सताम् । 036a
अपवर्गश्च मुक्तानां कैवल्यं चात्मवेदिनाम् ॥ 036c
अयं ब्रह्मादिभिः सिद्धैर्गुहायां गोपितः प्रुभुः । 037a
देवासुरमनुष्याणामप्रकाशो भवेदिति ॥ 037c
तं त्वां देवासुरनरास्तत्त्वेन न विदुर्भवम् । 038a
मोहिताः खल्वनेनैव हृदिस्थेनाप्रकाशिना 038c
ये चैनं प्रतिपद्यन्ते भक्तियोगेन भाविताः । 039a
तेषामेवात्मनात्मानं दर्शयत्येष हृच्छयः ॥ 039c
यं ज्ञात्वा न पुनर्जन्म मरणं चापि विद्यते । 040a
यं विदित्वा परं वेद्यं वेदितव्यं न विद्यते ॥ 040c
यं लब्ध्वा परमं लाभं नाधिकं मन्यते बुधः । 041a
यां सूक्ष्मां परमां प्राप्तिं गच्छन्नव्ययमक्षयम् ॥ 041c
यं साङ्ख्या गुणतत्त्वज्ञाः साङ्ख्यशास्त्रविशारदाः । 042a
सूक्ष्मज्ञानतराः सूक्ष्मं ज्ञात्वा मुच्यन्ति बन्धनैः 042c
यं च वेदविदो वेद्यं वेदान्ते च प्रतिष्ठितम् । 043a
प्राणायामपरा नित्यं यं विशन्ति जपन्ति च ॥ 043c
ओङ्काररथमारुह्य ते विशन्ति महेश्वरम् । 044a
अयं स देवयानानामादित्यो द्वारमुच्यते ॥ 044c
अयं च पितृयानानां चन्द्रमा द्वारमुच्यते । 045a
एष काष्ठा दिशश्चैव संवत्सरयुगादि च ॥ 045c
दिव्यादिव्यः परो लाभ अयने दक्षिणोत्तरे । 046a
एनं प्रजापतिः पूर्वमाराध्य बहुभिः स्तवैः ॥ 046c
प्रजार्थं वरयामास नीललोहितसञ्ज्ञितम् । 047a
ऋग्भिर्यमनुशासन्ति तत्त्वे कर्मणि बह्वृचाः ॥ 047c
यजुर्भिर्यत्त्रिधा वेद्यं जुह्वत्यध्वर्यवोऽध्वरे । 048a
सामभिर्यं च गायन्ति सामगाः शुद्धबुद्धयः ॥ 048c
ऋतं सत्यं परं ब्रह्म स्तुवन्त्याथर्वणा द्विजाः । 049a
यज्ञस्य परमा योनिः परिश्चायं परः स्मृतः ॥ 049c
रात्र्यहः श्रोत्रनयनः पक्षमासशिरोभुजः । 050a
ऋतुवीर्यस्तपोधैर्यो ह्यब्दगुह्योरुपादवान् ॥ 050c
मृत्युर्यमो हुताशश्च कालः संहारवेगवान् । 051a
कालस्य परमा योनिः कालश्चायं सनातनः ॥ 051c
चन्द्रादित्यौ सनक्षत्रौ ग्रहाश्च सह वायुना । 052a
ध्रुवः सप्तर्षयश्चैव भुवनाः सप्त एव च ॥ 052c
प्रधानं महदव्यक्तं विशेषान्तं सवैकृतम् । 053a
ब्रह्मादिस्तम्बपर्यन्तं भूतादि सदसच्च यत् ॥ 053c
अष्टौ प्रकृतयश्चैव प्रकृतिभ्यश्च यः परः । 054a
अस्य देवस्य यद्भागं कृत्स्नं सम्परिवर्तते ॥ 054c
एतत्परममानन्दं यत्तच्छाश्वतमेव च । 055a
एषा गतिर्विरक्तानामेष भावः परः सताम् ॥ 055c
एतत्पदमनुद्विग्नमेतद्ब्रह्म सनातनम् । 056a
शास्त्रवेदाङ्गविदुषामेतद्ध्यानं परं पदम् ॥ 056c
इयं सा परमा काष्ठा इयं सा परमा कला । 057a
इयं सा परमा सिद्धिरियं सा परमा गतिः ॥ 057c
इयं सा परमा शान्तिरियं सा निर्वृतिः परा । 058a
यं प्राप्य कृतकृत्याः स्म इत्यमन्यन्त योगिनः ॥ 058c
इयं तुष्टिरियं सिद्धिरियं श्रुतिरियं स्मृतिः । 059a
अध्यात्मगतिरिष्टानां विदुषां प्राप्तिरव्यया ॥ 059c
यजतां कामयानानां मखैर्विपुलदक्षिणैः । 060a
या गतिर्यज्ञशीलानां सा गतिस्त्वं न संशयः ॥ 060c
सम्यग्योगजपैः शान्तिर्नियमैर्देहतापनैः । 061a
तप्यतां या गतिर्देव परमा सा गतिर्भवान् ॥ 061c
कर्मन्यासकृतानां च विरक्तानां ततस्ततः । 062a
या गतिर्ब्रह्मसदने सा गतिस्त्वं सनातन ॥ 062c
अपुनर्भवकामानां वैराग्ये वर्ततां च या । 063a
प्रकृतीनां लयानां च सा गतिस्त्वं सनातन ॥ 063c
ज्ञानविज्ञानयुक्तानां निरुपाख्या निरञ्जना । 064a
कैवल्या या गतिर्देव परमा सा गतिर्भवान् ॥ 064c
वेदशास्त्रपुराणोक्ताः पञ्च ता गतयः स्मृताः । 065a
त्वत्प्रसादाद्धि लभ्यन्ते न लभ्यन्तेऽन्यथा विभो ॥ 065c
इति तण्डिस्तपोराशिस्तुष्टावेशानमात्मना । 066a
जगौ च परमं ब्रह्म यत्पुरा लोककृज्जगौ ॥ 066c
उपमन्युरुवाच । 067
एवं स्तुतो महादेवस्तण्डिना ब्रह्मवादिना । 067a
उवाच भगवान्देव उमया सहितः प्रभुः ॥ 067c
ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः । 068a
न विदुस्त्वामिति ततस्तुष्टः प्रोवाच तं शिवः ॥ 068c
अक्षयश्चाव्ययश्चैव भविता दुःखवर्जितः । 069a
यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः ॥ 069c
ऋषीणामभिगम्यश्च सूत्रकर्ता सुतस्तव । 070a
मत्प्रसादाद्द्विजश्रेष्ठ भविष्यति न संशयः ॥ 070c
कं वा कामं ददाम्यद्य ब्रूहि यद्वत्स काङ्क्षसे । 071a
प्राञ्जलिः स उवाचेदं त्वयि भक्तिर्दृढाऽस्तु मे ॥ 071c
उपमन्युरुवाच । 072
एतान्दत्त्वा वरान्देवो वन्द्यमानः सुरर्षिभिः । 072a
स्तूयमानश्च विबुधैस्तत्रैवान्तरधीयत ॥ 072c
अन्तर्हिते भगवति सानुगे यादवेश्वर । 073a
ऋषिराश्रममागम्य ममैतत्प्रोक्तवानिह ॥ 073c
यानि च प्रथितान्यादौ तण्डिराख्यातवान्मम । 074a
मानानि मानवश्रेष्ठ तानि त्वं शृणु सिद्धये ॥ 074c
दश नामसहस्राणि देवेष्वाह पितामहः । 075a
सर्वस्य शास्त्रेषु तथा दश नामशतानि च ॥ 075c
गुह्यानीमानि नामानि तण्डिर्भगवतोऽच्युत । 076a
देवप्रसादाद्देवेशः पुरा प्राह महात्मने ॥ ॥ 076c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥ 13-47-2 उदर्कं फलोदयम् ॥ 13-47-27 अचेतसा अज्ञानेन ॥ 13-47-42 सूक्ष्मं लिङ्गं ज्ञानेन तरन्त्यतिकम्य गच्छन्ति ते सूक्ष्मज्ञानतराः ॥