अध्यायः 046

कृष्णेन युधिष्ठिरं प्रति पार्वतीपरमेश्वराभ्यां स्वस्मै वरप्रदानकथनम् ॥

कृष्ण उवाच । 001
मूर्ध्ना निपत्य नियतस्तेजःसन्निचये ततः । 001a
परमं हर्षमागत्य भगवन्तमथाब्रवम् ॥ 001c
धर्मे दृढत्वं युधि शत्रुघातं यशस्तथाऽग्र्यं परमं बलं च 002a
योगप्रियत्वं तव सन्निकर्षं वृणे सुतानां च शतं शतानि ॥ 002c
एवमस्त्विति तद्वाक्यं मयोक्तः प्राह शङ्करः ॥ 003ac
ततो मां जगतो माता धारिणी सर्वपावनी । 004a
उवाचोमा प्रणिहिता शर्वाणी तपसां निधिः । 004c
दत्तो भगवता पुत्रः साम्बो नाम तवानघ ॥ 004e
मत्तोप्यष्टौ वरानिष्टान्गृहाण त्वं ददामि ते । 005a
प्रणम्य शिरसा सा च मयोक्ता पाण्डुनन्दन ॥ 005c
द्विजेष्वकोपं पितृतः प्रसादं शतं सुतानां परमं च भोगम् । 006a
कुले प्रीतिं मातृतश्च प्रसादं शमप्राप्तिं प्रवृणे चापि दाक्ष्यम् ॥ 006c
उमोवाच । 007
एवं भविष्यत्यमरप्रभाव नाहं मृषा जातु वदे कदाचित् । 007a
भार्यासहस्राणि च षोडशैव तासु प्रियत्वं च तथाऽक्षयं च ॥ 007c
प्रीतिं चाग्र्यां बान्धवानां सकाशाद्ददामि तेऽहं वपुषः काम्यतां च । 008a
भोक्ष्यन्ते वै सप्ततिं वै शतानि गृहे तुभ्यमतिथीनां च नित्यम् ॥ 008c
वासुदेव उवाच । 009
एवं दत्त्वा वरान्देवो मम देवी च भारत । 009a
अन्तर्हितः क्षणे तस्मिन्सगणो भीमपूर्वज ॥ 009c
एतदत्यद्भुतं पूर्वं ब्राह्मणायातितेजसे । 010a
उपमन्यवे मया कृत्स्नं व्याख्यातं पार्थिवोत्तम । 010c
नमस्कृत्वा तु स प्राह देवदेवाय सुव्रत ॥ 010e
नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः । 011a
नास्ति शर्वसमो दाने नास्ति शर्वसमो रणे ॥ ॥ 011e

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्चत्वारिंशोऽध्यायः ॥ 46 ॥